सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 717, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 717

६९८ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने—
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने क्षुद्रपाठे चतुर्थे उत्तरस्थाने
नागतन्तुक्रग्राहव्याध्युपशमस्त्रिंशत्तमः ॥ ३२ ॥
अथ त्रयस्त्रिंशोऽध्यायः ।
॰अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ।
हितार्थमब्रवीद्वाक्यं गजार्थं तत्त्वदर्शनः ॥ १ ॥
भगवञ्श्रूयते मृत्युर्गजानां जलजो गजः ॥
तन्न वेदितुमिच्छामि भगवन्संशयो हि मे ॥ २ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
शृणु राजञ्जले यादृग्यस्मिंस्तिष्ठेज्जलाद्विपः ॥ ३ ॥
अगाधमतिसंस्निग्धं जलं यच्च सफेनिलम् ॥
सबुद्बुदं सनिर्घोषं पक्षिभिर्नित्य सेव्यते ॥ ४ ॥
असौम्यं दर्शने यच्च तस्मिंस्तिष्ठेज्जलाद्विपः ॥
वदनं वारणस्येव दन्तान्तिककरमस्तकाः ॥ ५ ॥
पादाश्चास्य समास्तस्य अष्टनाभिनखास्तथा ॥
स्थूलायतो महावंशः पृथुकर्णो महोदरः ॥ ६ ॥
छविश्च कण्टकाकीर्णा मुखं दंष्ट्राकुलं महत् ॥
शेषं च मकरस्येव स ज्ञेयो जलवारणः ॥ ७ ॥
श्रुत्वाऽस्य गर्जितं सद्यः पीत्वा च तज्जलं गजाः ॥
आयुःसत्त्वबलोपेता वयस्था नीरुजाः स्मृताः ॥ ८ ॥
यस्मान्निह्रायन्ते तस्मात्तं देशं क्लेशेन वर्जयेत् ॥
अष्टम्यां च चतुर्दश्याममावास्यां च धार्मिकः ॥ ९ ॥
नदीयज्ञविधानेन बलिं कुर्यात्प्रयत्नतः ॥
महीपालाज्ञा विद्वांसम्यग्ग्राह्यजलसत्तमः ॥ १० ॥
पानेऽवगाहे मातङ्गो यदि तद्गोचरो भवेत् ॥
मृत्पिण्ड इव निर्वीर्यो विलयं यात्यसौ क्षणात् ॥ ११ ॥
उच्यतेऽत्र क्रिया येन मुक्तो नागो भवेत्सुखी ॥
पी भिषग्जलमातङ्गाद्ग्राहयेत्तं नरोत्तम ॥ १२ ॥