हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
३१ श्रीमद्गजसंप्रवाध्यायः ] हस्त्यायुर्वेदः। ६७
बला गवाक्षबलिनमग्निव्यञ्जनं तथा ॥
विदलं पाक्षिकं भाण्डं तथैवाशनकण्टकम् ॥ २३ ॥
सचन्दनाश्च कलशाश्चतस्रोदककुम्भिकाः ॥
सामान्ययज्ञवत्सर्वं शेषं द्रव्यमुपाहरेत् ॥ २४ ॥
ततो वैद्यः शुचिर्भूत्वा नमस्कृत्य महेश्वरम् ॥
सनत्कुमारं देवं च श्रीगजं च महाबलम् ॥ २५ ॥
सर्वान्देवान्नमस्कृत्य दिशश्चाष्टौ समाहितः ॥•
सर्वांट्षिगणांश्चैव तथा नक्षत्रमण्डलम् ॥ २६ ॥
समुद्रानापगाः सर्वाः समहोरगराक्षसाः ॥
पर्वतान्सर्वभूतानि जङ्गमाजङ्गमं च यत् ॥ २७ ॥
ऐरावताद्याश्च तथा विरूपांता ये दिशां गजाः ॥
उपोष्य संविशेद्रात्रौ वासोभिरहतैर्भिषक् ॥ २८ ॥
सेनान्यं च नमस्कृत्य शुचिर्भूत्वा कृताञ्जलिः ॥
कुशास्तरणसंवीते स्थण्डिले प्रयतः शुचिः ॥ २९ ॥
श्वोभूते पुनरुत्थाय स्नातो भूत्वा समाहितः ॥
तथोक्त्वाऽथ गजेन्द्रस्य नमस्कृत्याभिरोहयेत् ॥ ३० ॥
सच्छत्रवालव्यजनमाल्यदामोपशोभितम् ॥
नन्दितूर्येण महता वाद्यमानेन शोभितम् ॥ ३१ ॥
(※सालंकरणकेपूरहेमजालविभूषितम् ) ॥
नानाकारैस्तथा वस्त्रैः समन्तात्परिवेष्टितम् ॥ ३२ ॥
चन्दनागुरुमिश्रैश्च सर्वगन्धैरलंकृतम् ॥
स्त्रीरूपवेषैः पुरुषैः परिचर्योपशोभितम् ॥ ३३ ॥
जल्पद्भिर्निष्ठुरं वाक्यं महसद्भिस्तथैव च ॥
वतुष्पथे वीथिमार्गे चत्वरेषु त्रिकेषु च ॥ ३४ ॥
राजमार्गेषु च भृशं घोषपन्तस्ततस्ततः ॥
त्वयि तुष्ट्यन्ति(?) ते देवा राजानोऽपि जयैषिणः ॥ ३५ ॥
सेनापतिरमात्याश्च ये चान्ये तद्विधा जनाः ॥
पूजयन्ति यथान्यायं ये चैव गजजीविनः ॥ ३६ ॥
※ कपुस्तके त्रुटितोऽयं पाठः ।
१ क. ॰होदर्रा॰ ।
६७२ पालकाप्यमुनिविरचितो- [४ उत्तरस्थाने-
अतोऽन्यथा प्रकुर्वाणाः सराष्ट्रबलवाहनाः ॥
राजानोऽपि विनश्यन्ति देवतातिक्रमेण वै ॥ ३७ ॥
प्रयुञ्जते च ये तस्मै सम्यक्पूजां नराधिप ॥
सपुत्रदारां वर्धन्ते सराष्ट्रबलवाहनाः ॥ ३८ ॥
आज्ञां महेश्वरस्येमां प्रतिगृह्णन्ति ये नृपाः ॥
संग्रामे सममप्यन्ते ते भवन्ति विदारणाः ॥ ३९ ॥
काले बीजानि रोहन्ति सम्यग्वर्षति वासवः ॥
न भवत्यत्र मरको व्याधिहानिस्तथैव च ॥ ४० ॥
निरामयं च भुञ्जीत राज्ञा कृत्स्ना वसुंधरा ॥
रत्नाकरवती देवी सशैलवनकानना ॥ ४१ ॥
अरोगा बलवन्तश्च जयन्तेते मतङ्गजाः ॥
गजोपजीविनः सर्वे कामभोगैः समन्विताः ॥ ४२ ॥
पुत्रैश्च पशुभिश्चैव जीवन्ति च शतं समाः ॥
अरोगा बलवन्तश्च जायन्ते वै प्रजा भृशम् ॥ ४३ ॥
पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ॥
यांश्च प्रार्थयते कामांस्तांस्तांश्चाप्नोत्यनुत्तमरः ॥ ४४ ॥
एवं वृत्तं महाराज शंभोर्भक्त्याऽन्वितं विभो ॥
श्रीगजस्य प्रतिकृतं त्रिषु लोकेषु पूजितम् ॥ ४५ ॥
मयाऽऽरुपाता महाबाहो विस्तरेण यथाक्रमम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे उत्तराभिधाने परिवारचतुर्थस्थाने
द्वाविंशः श्रीगजसंभवाध्यायः ॥ २२ ॥
अथ त्रयोविंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
सर्वं द्रव्यगतं प्रश्नं क्रमेण मुनिसत्तमः(म्) ॥ १ ॥
सर्पिस्तैलं वसा मज्जा क्षीरं मूत्रं तथा दधि ॥
किमर्थं दीयते विप्र क्षौद्रं किमिति दीयते ॥ २ ॥
लवणोदकतैलं वा मेदकं वा सुसंस्कृतम् ॥
किमर्थं भोजनं वाऽपि किमर्थं वाऽनुवास्यते ॥ ३ ॥
२३ किमर्थकथ्याध्यायः ] हस्त्यायुर्वेदः । ६७३
किमर्थं सर्वसेकश्च शिरोभ्यङ्गस्तथैव च ॥
गैरिकेण समायुक्तः ससेकश्चापि कं पुनः ॥ ४ ॥
गात्रसेकः किमर्थं च किमर्थं तैलशोधनम् ॥
तथा तैलकषाये वा किमर्थं दीयते पुनः ॥ ५ ॥
दीपतेलं किमर्थं वा किमर्थं रसभोजनम् ॥
एतन्मे सर्वमाचक्ष्व यथावदनुपूर्वशः ॥ ६ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
शृणु सर्वं महाराज यदर्थं दीयते घृतम् ॥ ७ ॥
*स्तेंज्य(?)गात्रपरो ये च (†ये च पर्यश्रुलोचनाः ॥
क्षीणशोणितमांसाश्च स्तब्धाङ्गाश्चापि ये गजाः ॥ ८ ॥
कर्मभिर्विहता ये च ) भारैर्गुरुभिरर्दिताः ॥
मदक्षीणाश्च ये नागा वृद्धा रूक्षास्तथैव च ॥ ९ ॥
ये कृशाश्चावसन्नाश्च लुप्ताङ्गाश्च विशेषतः ॥
युद्धाध्वगमने क्लिष्टा ये च नागा महीपते ॥ १० ॥
व्याधिभिः प्रतिपन्नाश्च नागा ये चापि दुर्बलाः ॥
घृतं तेभ्यः प्रदातव्यं व्याधिता ये च पित्तलाः ॥ ११ ॥
घृतं हि मधुरं शीतं मेदःश्लेष्मविवर्धनम् ॥
सृष्टमूत्रपुरीषं च बृंहणं बलवर्धनम् ॥ १२ ॥
ये च वातप्रकोपेन(ण) श्लेष्मणा च मतङ्गजाः ॥
उपसृष्टा महाराज तेभ्यस्तैलं प्रदापयेत् ॥ १३ ॥
उष्णाभितापि कटुकं त्वच्यं बलविवर्धनम् ॥
पित्तलं च तथा तैलं कफानिलनिबर्हणम् ॥ १४ ॥
यस्तु कर्माभिनीतस्य धेनुकासु च निःस्रुतः ॥
मदक्षीणस्तथा सद्यो(?) वयसा चापि विच्युतः ॥ १५ ॥
तस्मै मज्जा प्रदातव्या महाराज वसाऽपि च ॥
पृथक्प्राह स योगैश्च ततः संपद्यते सुखम् ॥ १६ ॥
मधुरश्चोष्णवीर्यश्च विपाके कटुकः स्मृतः ॥
सर्वैरेतैर्गुणैर्युक्तो ज्ञेयो मज्जा वसाऽपि च ॥ १७ ॥
- 'स्तब्धः' इति भवेत् । † धनुश्चिह्नान्तरगतः पाठो नास्ति कपुस्तके ।
१ क. स्त्रज्यगात्र° । २ क. °राऽग्रे च ।
८५
६७४ पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने-
एतदर्थं भवेदेषा वसा मज्जा च दन्तिनाम् ॥
स्नेहश्चतुर्विधो ज्ञेयो यद्यार्थं दीयते पुनः ॥ १८ ॥
उपस्थाने च संयाने वर्तमाने च बन्धने ॥
परस्परविमर्दे च कर्मणा चातिपीडिते ॥ १९ ॥
अध्वनोऽङ्गरुजाद्वाऽपि गात्राणां विक्षेपेण वा ॥
अवपानेन बन्धैर्वा दूरं चाऽऽसन्नवर्तनात् ॥ २० ॥
विश्लिष्टं मारुतादङ्गं भग्नं यस्य च विक्षतम् ॥
पानार्थं प्रोच्यते तस्मै युक्तं स्नेहं चतुर्विधम् ॥ २१ ॥
यो हि सर्वाङ्गरोगी स्यादुरुपक्षहतोऽपि वा ॥
सर्वस्नेहसमायुक्तो महास्नेहः प्रशस्यते ॥ २२ ॥
इति स्नेहगुणाः प्रोक्ताः क्षीरस्यापि गुणान्शृणु ॥
अधृ(पृ)ष्टा मदक्षीणा वयोतीताः क्षताश्च ये ॥ २३ ॥
कर्मप्रबद्धा मत्ताश्च दुर्बलाभिहि(ह)ताश्च ये ॥
दग्धाश्च कवलेस्तीक्ष्णैः शोणितोपहताश्च ये ॥ २४ ॥
पित्तोपसृष्टाश्च गजास्तेभ्यः क्षीरं प्रदापयेत् ॥
शमयत्यजि(ति)तापं च दीप्ताग्निश्चोपजायते ॥ २५ ॥
सम्यग्वातं च जयति च्छविश्चास्य प्रसीदति ॥
जीवनं बृंहणं हृद्यं सात्म्यं बलविवर्धनम् ॥ २६ ॥
मधुरं शीतवीर्यं च तेजःसामर्थ्यवर्धनम् ॥
आरोग्यजननं चैव तस्मात्क्षीरं प्रदापयेत् ॥ २७ ॥
क्षीरस्यैते गुणाः प्रोक्ता मूत्रस्यापि गुणान्शृणु ॥
दद्रूं कण्डूं(?) च उष्णं च जायन्ते यस्य दन्तिनः ॥ २८ ॥
मृत्तिकाबद्धकोष्ठाश्च श्लेष्मिकाश्च मतङ्गजाः ॥
कृमिकोष्ठातुरा ये च तेषां मूत्रं सदा हितम् ॥ २९ ॥
वातघ्नं चोष्णवीर्यं च तिक्तं क्षारान्वितं तथा ॥
प्रभिन्नवर्णः कटुकं विपाके मूत्रमुच्यते ॥ ३० ॥
मूत्रस्यैते गुणाः प्रोक्ताः शृणु मद्यगुणानतः ॥
मारुतोपहतो यश्च यश्च वाऽऽध्मायतेऽधिकम् ॥ ३१ ॥
मूत्रसङ्गातुरो यश्च यश्च खादति मृत्तिकाम् ॥
अध्वनाऽपि च युक्तो यः कर्मणा यश्च पीडितः ॥ ३२ ॥
१ क. अध्वना० ।
२३ किमर्थक्याध्यायः ] हस्तिआयुर्वेदः । ६७५
स्वच्छवृत्तस्य नागस्य प्रतिपानं सदा हितम् ॥
तेभ्यो देया सुरा नित्यं संस्कृताऽसंस्कृता भवेत् ॥ ३३ ॥
तथा वातानुलोम्यं च दीप्ताग्निश्चोपजायते ॥
श्रमश्च व्यपगच्छेत्तं मनस्वी चोपजायते ॥ ३४ ॥
उष्णवीर्या च तीक्ष्णा च विपाकेऽम्ला स्वभावतः ॥
कथयन्ति सुराज्ञास्तां केचित्पञ्चरसान्विताम् ॥ ३५ ॥
तस्मान्नित्यं सुरा देया वारणेभ्यश्चिकित्सकैः ॥
येषां श्लेष्मा च पित्तं च मारुतश्चापि कुप्यति ॥ ३६ ॥
पूर्वोक्तेन प्रमाणेन दधि तेभ्यः प्रदापयेत् ॥
अम्लं चैवाम्लपाकं च विपाके गुरु वोच्यते ॥ ३७ ॥
कफयोनेस्तथा छेदे पित्तयोनेस्तथैव च ॥
छर्द्याति(?)वातिसारेषु विषदुष्टेषु हस्तिषु ॥ ३८ ॥
कफमांसप्रवृद्धेषु दापयेत्संततं मधु ॥
(† कर्शनं शीतवीर्यं च रूक्षं गुरु लघु स्मृतम् ॥ ३९ ॥
शोधनं लेखनं चैव कफपित्तहरं मधु ॥)
सर्वौषधिसमायुक्तं कषायं शीतलं तथा ॥ ४० ॥
श्लक्ष्णं सुगन्धि स्निग्धं च सद्यः प्राणविवर्धनम् ॥
मधुरं जीवनं चैव वृष्यं बलकरं तथा ॥ ४१ ॥
विपाककटुकं चैव संधानं कृमिनाशनम् ॥
अचिन्त्यवीर्यं गुणतः सर्वरोगप्रणाशनम् ॥ ४२ ॥
प्रशस्तमृषिभिर्नित्यं गुणैरेतैर्युतं मधु ॥
लवणं शोधयेत्कायं मारुतं चानुलोमयेत् ॥ ५३ ॥
दीप्ताग्निश्च भवेन्नागः सुमनाश्चैव जायते ॥
वातमूत्रपुरीषं च यथाकालं प्रमुञ्चति ॥ ४४ ॥
आमं विपच्यते वाऽस्य स्वच्छविंश्वांस्य प्रसाद्येत् !
हृद्रोगो न भवेत्तस्य मृत्तिकां च न खादति ॥ ४५ ॥
आध्माति न च मातङ्गो घनं लिण्डं च मुञ्चति ॥
अतिदानेऽपि राजेन्द्र रक्तपित्तं प्रकुप्यति ॥ ४६ ॥
- इतः पूर्वम्—'सम्यग्वातं च जयति च्छविंश्वास्य प्रसीदति ॥ जीवनं बृंहणं
दृश्यम्' इत्यधिकं केपुस्तके । † धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके ।
६७६ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
विलोलं चैव यवसं तस्य कोषे न साङ्गति ॥
अतिसार्यति सोऽत्यर्थं मूर्च्छा चास्योपजायते ॥ ४७ ॥
अतिदाने त्विमे दोषां निदानं वापि मे शृणु ॥
विजृम्भते विनमति स्तब्धश्चैवावतिष्ठति(ते) ॥ ४८ ॥
'मुहुर्मुहुर्दुर्निश्वस(सि)ति जघनेन निषीदति ॥
प्रमेलयेत्स्तम्भगंतो यवसं नाभिनन्दति ॥ ४९ ॥
भवत्यग्निर्विहीनश्च यवसं नाभिपच्यते ॥
तस्माद्यथाप्रमाणं तु लवणं संप्रदापयेत् ॥ ५० ॥
अदानमतिदानं च न कदाचित्समाचरेत् ॥
वातघ्नं चोष्णवीर्यं च पित्तलं कर्षणं तथा ॥ ५१ ॥
श्लेष्मकृमिहरं चैव लवणं प्रोच्यते बुधैः ॥
आमाशयसमुत्थेषु महारोगेषु साधनम् ॥ ५२ ॥
कीर्तयिष्याम्यहं वर्गं वातश्लेष्मनिबर्हणम् ॥
बलां मधूरसां चैव मूर्वां तेजोवतीमपि ॥ ५३ ॥
पूतिकं सर्षपा हिङ्गु गण्डीरं जीवकं तथा ॥
हरीतकीविडङ्गानि करञ्जं सारिवामपि ॥ ५४ ॥
पिचुमन्दं हरिद्रे द्वे पञ्चभिर्लवणैः सह ॥
कृत्वा सूक्ष्माणि चूर्णानि बदरामलकैः सह ॥ ५५ ॥
चतुर्गुणं पुनर्दद्यात्सामुद्रलवणं भिषक् ॥
द्रव्याणामर्धपलिकान्भागान्कुर्याद्विचक्षणः ॥ ५६ ॥
अभिषाणास्तथा बद्धा गजा ये पिष्टमेहिनः ॥
मृत्तिकाविहि(ह)ताश्चैव कृमिकोष्ठास्तथैव च ॥ ५७ ॥
हृद्रोगी गुल्मिता ये च श्लेष्मानिलहताश्च ये ॥
वातमूर्च्छार्दिता ये च गजा रोगार्दिताश्च ये ॥ ५८ ॥
एवं तेभ्यः प्रदातव्यं सुरया गोमयेन वा ॥
कायाग्निबलमाधत्ते व्याधीनां च निबर्हणम् ॥ ५९ ॥
इत्यर्थमेतत्कटुकं लवणं कीर्यते पुनः ॥
दकतेलस्य सामर्थ्यं निबोध मनुजाधिप ॥
निमित्तं दकतेलेन सदा कुप्यन्ति दन्तिनः ॥ ६० ॥
इति कटुकलवणसंज्ञिकयोगा हस्तिनां चतुर्विंशतिद्रव्यकर्मसामान्यतो
व्याधीनां निबर्हणे विशेषेण यथोक्तानां तस्य योगस्य व्याख्यानम् ।
२३ किमर्थक्यध्यायः ] हस्त्यायुर्वेदः । १७७
मुखशोषः श्रमस्तृष्णा मूर्च्छा वाऽस्योपशाम्यति ॥
प्रसन्नतनुरोमाणि बृहत्कायश्च जायते ॥ ६१ ॥
क्षीणशोणितमांसेभ्यो मत्तेभ्यश्च विशेषतः ॥
कर्मभिः पीडितेभ्यश्च मेदकान्दापयेद्भिषक् ॥ ६२ ॥
प्रस्विन्नं चैव कुल्माषं घृतं किण्वं गुडं तथा ॥
भोजयेत्सर्वमालोड्य वारणं मदवृद्धये ॥ ६३ ॥
गोधूमानथ सुस्विन्नान्घृतं किण्वं तथैव च ॥
भोजयेल्लवणीकृत्य द्वितीयो मेदकः स्मृतः ॥ ६४ ॥
प्रसृष्टवर्चो मधुराः सगोधूमा यवाः स्मृताः ॥
विपाकमधुराश्चैव वातपित्तनिबर्हणाः ॥ ६५ ॥
कषायतिक्ताश्च रसा गुरवश्च प्रकीर्तिताः ॥
गोधूमाः स्निग्धमधुरा वातघ्नास्तु यवैः सह ॥ ६६ ॥
यवास्तु पथ्या विज्ञेया नातिशुक्रबलप्रदाः ॥
यस्माद्बलं वर्धयते मांसं मेदोऽस्थिशोणितं ॥ ६७ ॥
तस्मान्मेदक इत्युक्तो भोजने² च—ते विधिः-॥
यश्च कर्मप्रवृद्धस्तु मदक्षीणश्च वारणः ॥ ६८ ॥
धेनुकासु च यः क्षीणो यः कृशो दुर्बलश्च यः ॥
स्वस्थवृत्ते च नागस्य भोजनं पूज्यते सदा ॥ ६९ ॥
आहारो धारयेत्प्राणान्प्रीणयेदिन्द्रियाणि च ॥
तस्मात्स्नेहसमायुक्तं युक्त्या च लवणीकृतम् ॥ ७० ॥
भोजनं भोजयेन्नागं रसयुक्तिसमन्वितम् ॥
• सुगन्धिरम्लः स्निग्धश्च सद्यः प्राणविवर्धनः ॥ ७१ ॥
वाराहः कुक्कुटो वाऽपि ऐणेयो वा रसो हितः ॥
भक्तस्तैलार्धयुक्तेन कृमिकोष्ठी न जायते ॥ ७२ ॥
हृदयं न च लिप्येत मृत्तिकां च न खादति ॥
शिरोरोगाक्षिरोगेषु हस्तकर्णग्रहे भ्रमे ॥ ७३ ॥
युक्त्या स्नेहानुपानं च दद्याद्रक्तवतः सदा ॥
ग्रीवायामां(मं)सयोश्चाऽपि शिरसः स्रोतसोरपि ॥ ७४ ॥
• भवेदुत्तरपानेन बलवानिन्द्रियेषु च ॥
• गात्रापरविकारेषु धेनुकासु च निःश्रु(स्रु)तः ॥ ७५ ॥
१ क. ॰पाके म॰ । २ क. ॰ने चोच्यते वि॰ ।
पार्श्वपृष्ठकटिस्तम्भे पश्चाच्चस्यावपीडनम् ॥
विषमं वा प्रभिन्नस्य व्यवस्थितमदस्य च ॥ ७६ ॥
घृतमण्डेन नागस्य छिद्रप्रक्षालनं हितम् ॥
धेनुकासु प्रसङ्गेन मूत्रं यस्य सवेदनम् ॥ ७७ ॥
रक्तं च सहसा यस्य मेढ्राद्गच्छं प्रवर्त्तते ॥
मूत्रकृच्छ्रप्रमेहेषु वातगुल्मे तथैव च ॥ ७८ ॥
दद्यात्तस्योत्तरं बस्तिं घृतेनैव चिकित्सकः ॥
अष्टादशाङ्गुलं चास्य नेत्रं ताम्राद्यसं भवेत् ॥ ७९ ॥
कोरष्टपुष्पवृन्ताग्रं प्रवेशे चतुरङ्गुलम् ॥
स्नेहेष्वेतेषु सर्वेषु दधि क्षौद्रं पयस्तथा ॥ ८० ॥
विमृश्य कुशलो वैद्यो भेषजानि प्रदापयेत् ॥
सर्वसेके तु सामर्थ्यं निबोध मनुजाधिप ॥ ८१ ॥
प्रसादयति रोमाणि शीतं चैव न बाधते ॥
वधबन्धसमुत्थाना ये व्रणास्तस्य हस्तिनः ॥ ८२ ॥
आगन्तवो वा दृश्यन्ते शरीरस्था महीपते ॥
ते मृदुत्वं प्रपद्यन्ते श्वयथुश्चास्य शाम्यति ॥ ८३ ॥
हन्युस्ते च कषांस्तस्य सर्वसेकेन दन्तिनः ॥
हेमन्ते सर्वसेकस्तु भवेद्वैरिकसंयुतः ॥ ८४ ॥
तदाऽस्य द्विगुणं योगं तिलतैलेन कारयेत् ॥
खरत्वं गात्ररोगस्तु सर्वसेकेन शाम्यति ॥ ८५ ॥
मृदुत्वं जायते चास्य शिरास्नाव्यस्थिमर्मणाम् ॥
ततः किण्वगुडं माषाल्लवणं गैरिकं तथा ॥ ८६ ॥
अतसीचूर्णभागं च संभृतं स्थापयेत्त्र्यहम् ॥
प्रत्युद्गतं स्थानगतं पूर्वाह्णे सेचयेद्गजम् ॥ ८७ ॥
तेन सेकस्त्रिरात्रं स्यात्ततस्तं परिकर्षयेत् ॥
पौषे प्रथमतः सिञ्चेन्माघे सिञ्चेदनन्तरम् ॥ ८८ ॥
फाल्गुने सिद्धतैलेन चैत्रे पङ्कं समुद्धरेत् ॥
एतेन क्रमयोगेन ऋद्धिवर्नागस्य जायते ॥ ८९ ॥
शीतमूष्णं च सहते मृदुगात्रश्च जायते ॥
गात्रसेके च सामर्थ्यं निबोध मनुजाधिप ॥ ९० ॥
१ क. शिरःस्ना° ।
२४ परिवारकहेतुज्ञानाध्यायः ] हस्त्यायुर्वेदः । ६७१
स्थाने सततबद्धानां प्रयुक्तानां तथाऽध्वनः ॥
उष्णशीते तथा वाते सङ्गं संजायते भृशम् ॥ ९१ ॥
व्यूहेनेवोषनीतेन वेष्टिते चालिते तथा ॥
स्नेहेन त्रिवृतेनैव तेषामभ्यङ्ग (?) दूप्यते ॥ ९२ ॥
मार्दवं चैव गात्राणां क्षिप्रं भवति पार्थिव ॥
शिरोभ्यङ्गाच्च मातङ्गश्चक्षुषा साधु पश्यति ॥ ९३ ॥
शब्दं च सम्यग्जानीते व्रणश्चास्य न जायते ॥
अभिघातश्च नश्येत्तु क्षतं क्षिप्रं प्ररोहति ॥ ९४ ॥
केशाः शिरसि जायन्ते वायुः श्लेष्मा च नश्यति ॥
उत्कृष्टक्षयभागेषु जायते दन्तिनां व्रणः ॥ ९५ ॥
अनास्तीर्णासु शय्यासु म्रक्षणं तस्य दापयेत् ॥
तस्य तैलकषायं च देयं प्रक्षालनं क्षते ॥ ९६ ॥
[L
६८० पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
कथं स्निग्धं विजानीयादस्निग्धं वा मतङ्गजम् ॥
अतिस्निग्धं कथं विद्याद्धितं ब्रूहि तु मे विभो ॥ २ ॥
यदा तु नागः स्निह्येत अरोगो यदि वाऽऽतुरः ॥
स्वेदनैर्विविधैः स्निग्धैर्भिषग्भिः शास्त्रनिश्चितैः ॥ ३ ॥
'मुनिःस्विन्नस्य नागस्य लक्षणं वक्तुमर्हति ।'
कथं विरिक्तं जानीयाहुर्विरिक्तं च वारणम् ॥ ४ ॥
सम्पङ्निरूहितं वापि तथा वाप्यनिरूहितम् ॥
एतद्वेदितुमिच्छामि भगवन्संशयो हि मे ॥ ५ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
यदा भिन्नपुरीषः स्यादनुलोमश्च मारुतः ॥ ६ ॥
सस्नेहं च पुरीषं स्यात्तदा स्निग्धं प्रचक्षते ॥
पुरीषमल्पं कठिनं भुक्तं चास्य प्रजीर्यते ॥ ७ ॥
अस्निग्धमेवं जानीयादथ दृष्टेन मानसे ॥
यस्य गात्राणि सीदन्ति शकृद्भिश्नं च मुञ्चति ॥ ८ ॥
संक्षिप्तहृदयश्चैव यवसं नाभिनन्दति ॥
परिशुष्कमुखो दीनः पानीये कुरुते मतिम् ॥ ९ ॥
इत्येतेर्लक्षणैर्विद्यादतिस्निग्धं मतङ्गजम् ॥
मृदुगात्रो यदा नागः सविवर्णच्छविर्भवेत् ॥ १० ॥
स्विद्यमानस्त्वगातापी (?) स्वच्छगात्रश्च जायते ॥
लक्षणैरेवमेतैस्तु स्विद्यमानमनेकपम् ॥ ११ ॥
सुस्विन्नमिति जानीयाद्दीप्ताग्निमनुपद्रवम् ॥
यदा तु स्विद्यमानस्य स्विन्नस्य तु यथाबलम् ॥ १२ ॥
अतिस्वेदं प्रयुञ्जीत अज्ञानादल्पमेधसः ॥
अतिस्विन्नस्य नागस्य अक्षणोरश्रु प्रवर्तते ॥ १३ ॥
वेपथुस्तृषा च दाहश्च मूर्छा चास्योपजायते ॥
परिशुष्कमुखो दीनो न शय्यामभिनन्दति ॥ १४ ॥
गात्रेण गात्रं * संघृष्ट्य (?) न च तिष्ठति वारणः ॥
पांशुप्रमार्थ सलिलमवगाहं च काङ्क्षति ॥ १५ ॥
अतिस्विन्नस्य नागस्य लक्षणं समुदाहृतम् ॥
स्विन्नस्य तु यथाव्याधिः प्रशान्तिमुपगच्छति ॥ १६ ॥
- 'संघृष्य' इति भवेत् ।
सम्यक्स्विन्नविपर्यासे दुःस्विन्नमिति निर्दिशेत् ॥
अतिरिक्तविरिक्ते च दुर्विरिक्ते च वारणः ॥ १७ ॥
लक्षणं वक्ष्यते राजंस्तन्निबोध यथातथम् ॥
वातमूत्रे प्रचलतः करीषं चातिवर्तते ॥ १८ ॥
दोषाः सह करीषेण प्रच्यवन्ते नराधिप ॥
पश्चाच्छ्लेष्मैव शुद्धस्तु अतिरिक्तस्य लक्षणम् ॥ १९ ॥
शूलं पार्श्वे सहृदये स्थाने न लभते सुखम् ॥ .
दृश्यतेऽत्र करीषस्य चन्द्रकाण्यसृजोक्षितम्ग ॥ २० ॥
दुर्बलो दुर्मनाः क्षामः परिशुष्कमुखो भृशम् ॥
अतियोगे विरिक्तं तु विद्यादेभिः सुलक्षणैः ॥ २१ ॥
अल्पदोषस्य महती मात्रा यस्य प्रदीयते ॥
सा तस्य दोषं निर्हृत्य परिताप्य यथाशयम् ॥ २२ ॥
अथवा जीवमादत्ते वारणस्य महीपते ॥
इत्येतल्लक्षणं विद्यादतिरिक्तस्य लक्षणम् ॥ २३ ॥
दुर्विरिक्ते गजे सिद्धिं प्रवक्ष्यामि महीपते ॥
शीतमस्मै तु कवलं दद्यान्नागाय योगवित् ॥ २४ ॥
सुखोदकेन पानार्थे परिषेकं च दापयेत् ॥
भोजनादिविधिं कुर्यादानाहेषु यथास्मृतम् ॥ २५ ॥
अस्निग्धस्य तु नागस्य चिकित्सां शृणु पार्थिव ॥
स्नेहपाने यथा प्रोक्तो विधिः स्नेहं समाचरेत् ॥ २६ ॥
अस्विन्नस्य तु नागस्य चिकित्सा तत्प्रवक्ष्यते ॥
यदुक्तं पित्तमूर्च्छायां तत्पूर्वं संप्रदी(दा)पयेत् ॥ २७ ॥
अस्विन्ने च यथायोगं पुनः स्वेदं समाचरेत् ॥
सम्यग्हीनातिरिक्तानां निरूहाणां महीपते ॥
बस्तिसिद्धौ विधिः कृत्स्नो निखिलेषु प्रकीर्तितः ॥ २८ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेद उत्तराभिधाने चतुर्थस्थाने परिचारक-
हेतुज्ञानं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥
१ क. सांप्रतम् । २ क. ०दीयते ॥ २७ ॥
६६
६८४ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने—
अथ पञ्चविंशोऽध्यायः ।
चम्पायां हस्तिशालायां शिष्यैः परिवृतं मुनिम् ॥
पालकाप्यमुवाचाङ्गः प्रणम्य प्राञ्जलिर्नृपः ॥ १ ॥
बहिः प्राणा हि पच्यन्ते दन्तवेष्टेषु दन्तिनाम् ॥
गजा हया नराश्चैव सर्वेऽथ मृगपक्षिणः ॥ २ ॥
आधारो हि महाब्रह्मञ्शरीरस्य हि धारणात् ॥
तस्योपयोगात्सर्वेषां प्राणो वर्धति (?) देहिनाम् ॥ ३ ॥
तत्र तावद्गजानां मे संशयं वक्तुमर्हसि ॥
बलेष्वभ्यधिका नागास्तेष्वायत्तो जयो हि मे ॥ ४ ॥
न तेषां विहितं किंचिद्गजानां यदिदं भवेत् ॥
कस्मिन्नृतौ वा किं देयं किं मात्रं कीदृशं च यत् ॥ ५ ॥
पल्लवं कुम्पलं बल्वः सर्वं चापि कुडङ्गरम् ॥
आदत्ते यवसं चैव विस्तरेण ब्रवीहि मे ॥ ६ ॥
ततः प्रोवाच भगवानाप परिपृच्छते ॥
यवसानि विचित्राणि कुम्पलं पल्लवानि च ॥ ७ ॥
आग्नेयं तु तथा सौम्यं द्विविधं यवसं स्मृतम् ॥
उदकं स्थलजं वापि द्विविधं जाङ्गलं च यत् ॥ ८ ॥
द्विविधश्च विपाकोऽस्य मधुरः कटुकस्तथा ॥
सौम्यं च मधुरं विद्यादाग्नेयं कटुकं भवेत् ॥ ९ ॥
आहारं त्रिविधं विद्याद्गजेषु मनुजाधिप ॥
भक्ष्यं भोज्यं च पेयं च रसैः षड्भिः पृथक्पृथक् ॥ १० ॥
मधुराम्लकठुतिक्तः कषायो लवणस्तथा ॥
कफमारुतपित्तानां रसेष्वेतान्˙˙˙˙ ˙˙˙˙ ˙˙˙˙ ॥ ११ ॥
˙˙˙˙ ˙˙˙˙ द्विविधं चेतद्विहितं सर्वमेव तत् ॥
तेषां विभागः प्रोक्तस्ते शरीराववये मया ॥ १२ ॥
तत्र तु त्रिविधो देशो ज्ञेयस्त्रिविधलक्षणः ॥
अनूपो जाङ्गलश्चैव तथा साधारणोऽपि च ॥ १३ ॥
बहुगुल्मलतावंशशैलो वं˙˙˙तृणोदकः ॥
बहुनिम्नोन्नतो यस्तु अनूप इति स स्मृतः ॥ १४ ॥
१ क. ०तान्विनिर्दिशेत् ॥ ११ ॥ २ क. लक्षणं द्वि० । ३ क. बहुवृ० ।
२६ पथ्यापथ्यविचाराध्यायः ] हस्त्यायुर्वेदः । ६६५
तत्राध्वन्या महास्थूला मृदुमांसा महोदराः ॥
बहुवातकफाश्चैव अल्पपित्ताश्च वारणाः ॥ १५ ॥
ह्रस्वखण्ड(*तृणप्रायो अल्पतृणनगद्रुमः ॥
पर्याकाशसमश्चैव स देशो जाङ्गलो मतः ॥ १६ ॥
तत्र क्लेशसहाः शूराः कठिनाङ्गाः स्थिरेक्षणाः ॥
ह्रस्वखण्ड)विषाणाश्च वारणा मनुजाधिप ॥ १७ ॥
वातपित्तप्रकोपाश्च भवन्त्यल्पकफा गजाः ॥ .
एवमालोक्य देशं तु ततः कुर्यात्क्रियापथम् ॥
गजानामौषधं नित्यं यथादेशविभागतः ॥ १८ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे उत्तराभिधाने चतुर्थस्थाने
त्रिविधिनामाऽध्यायः पञ्चविंशः ॥ २५ ॥
अथ षड्विंशोऽध्यायः ।
अथ रोमपादोऽङ्गराजो भगवन्तं पालकाप्यमभिवाद्याभिगम्य पप्रच्छ 'भग-
वन्दम्यमानानां नागानां स्थानमुपपन्नानामतिकर्मणि चातिप्रयुक्तानां क्रमेण
वर्षेषु प्रविचितं विधाय यवसाद्युपयुञ्जानाः पुष्टिमुपगच्छन्ति । केचिद्व्या-
धिभिरभिभूताः । तत्र को हेतुर्यथा वने बलिनोऽरोगास्तु भवन्ति । तथा मे
भगवन्व्याख्यातुमर्हसि' इति ।
तच्छ्रुत्वा भगवान्पालकाप्योऽब्रवीत्—अङ्गराज तत्र सर्वेषां हस्तिनां शरीरे
समाश्रयो दोषा वातपित्तश्लेष्माणो भवन्ति । तेषां च प्रशमननिमित्तं षड्रसा
भवन्ति । भक्ष्यभोज्यलेह्यपेयचतुर्विधाव्यवहार्यविषमप्रकृतेः केचिद्दुर्वर्णाश्च भवन्ति ।
केचिद्द्वन्द्वव्याधित्वमापन्ना भवन्ति । तेषां यथाप्रकृतिसत्त्वबलोत्साहवयोग्रहा-
ण्यवेक्ष्य रसानां पथ्यापथ्यप्रमाणं व्याख्यास्यामः । इह खलु भो नागानां
वयोरूपविशेषा भवन्ति वातपित्तश्लेष्मभ्यः समस्तव्यस्तेभ्यः । तत्रास्य निमित्त-
मुपदिश्यते सा तस्य प्रकृतिस्तद्रूपविशेषः । समास्तु तेषां प्रकृतयो भवन्ति
तत्संयोगेना(न)रूपसत्त्वबलादयः । अथ यस्य नागस्य समाश्रयो दोषा
भवन्ति । मध्यमे १....पप्रकृतिमान्समत्वप्रयोगमेवाभिरामं सबलादिषूत्तमत्वं
- धनुश्चिह्नान्तरगतः पाठो नास्ति कपुस्तके ।
१ क. °ममध्यप्र° ।
५५४ पालकाप्यमुनिविरचितो— [ ३ उत्तरस्थाने—
प्राप्नोति । तस्माद्विविधाः शरीरदोषा भवन्ति, वातपित्तश्लेष्मणामन्योन्यविषम-
प्रयोगजनसामान्या(?)श्च कुञ्जराणाम् ।
तत्र श्लोकः—
दोषाधिको भवेद्व्याधिः सामान्या प्रकृतिर्भवेत् ।
तस्मात्प्रकृतयो न स्युर्दोषाधिक्येन दन्तिनाम् ॥
अथ यो हस्ती वातप्रकृतिस्तस्येमानि सत्त्वशरीरायूंषि लिङ्गानि वेदित-
व्यान्यि । यस्य हस्तिनः श्लेष्मस्यान्ते वर्षासु पित्ते प्रचीयमाने वातधातुर्बल-
वान्*•••••••••••••••• । लेलिह्यमानेष्वरण्येषु प्रक्षीयमाणयवसेषु क्षीणोदक-
तृणाशयेषु †•••••••••••••••• यवसोदकदिवसकरकिरणाभितापनादान-
विसरे काले †नागास्त्वङ्मूलपल्लवाहारैरल्पप्राणा भवन्त्यल्पशुक्राः । तथा दिव-
सकरकिरणाभिहतानामौषधीनामीषज्जलाधरसंछन्नानामुपयोगात्प्रण(न)ष्टप्रहन-
क्षत्रान्धकारमेघस्तनितनिर्घोषैर्विप्रसारङ्गविरूढं त्र्त्य्राच्छस्कृतिकुलमीषत्कुसुमित-
वनखण्डाचारामशीतपरुषपवनाकम्पनादम्लमधुराः सर्वौषध्यः कटुतिक्तरसप्राया
भवन्ति । तासां तरुणबलादीनां चोपयोगाद्वातो बलवान्भवति, तदा संजा-
तकामः करी धेनुकां यदि समापति तदा जाते प्रकृत्या वातिकस्तस्य
लक्षणानि सत्त्वशरीरबलवर्णतो भवन्ति । तद्यथाऽनवस्थितसत्त्वशरीरः,
स्पन्दनो भीरुश्चपलो लघुसंचारपनो नाध्वासमर्थः परिशुष्कस्रोताः स्थूलल-
ण्डनखानुचरणस्तब्धः परुषच्छविस्त्वधरोमाऽसुखश्वलचित्तावपमज्योताव-
*षमानसः प्रस••••••••मूत्रपुरीषस्तीव्रकामो धेनुकासु रूढदन्तवदन••••यनो
योऽल्परोमा ले••••••••लो परिभिन्नतलनखः सर्वकर्मसु विषमो विरूपाक्षो
बहुबहु••••••••ह्यश्रुद्वारयुक्तोऽलस्थायते च नित्यमनवस्थितचित्तश्चिरग्राह्यः
सततोत्सुकः क्षुत्पिपासासहः प्रत्यर्थवेचतीव (†भारसहो विवृतान्धि(स्थि)शिरास्ना-
युविद्धाङ्गः स वातप्रकृतिः । तस्योपचारं वक्ष्यामि••••••••प्रभूततैललवणमांस)-
रससत्प्रतीपानम् । यवसकवलकुवलयानि वातहितानि । सर्वदा मधुराम्ललवण-
रसोपयोगश्च प्रशस्तः ।
मधुरैर्लवणैरम्लैः स्नेहमांसरसान्वितैः ।१
वातिको••••वहार्यः स्यांद••••••••बलवान्गजः ॥
- आदर्शपुस्तकेषु त्रुटिचिह्नं न दृश्यते । † आदर्शेषु त्रुटिचिह्नं नास्ति।
- 'दानावसरे' इति भवेत् । †नागास्त्वन्मूल इति भवेत् ।
- 'विषमासनः' इति भवेत् । † धनुश्चिह्नान्तरगतः • पाठो नास्ति कपुस्तके ।
१ क. यदा ।
२१ पथ्यापथ्यविचाराध्यायः ] हस्त्यायुर्वेदः । १८५
कषाये कटुतिक्तानां तथा च लघुरूक्षयोः ।
उपयोगादातुरः स्यादरोगोऽपि मतङ्गजः ॥
तस्मात्प्रकृतितत्त्वज्ञः प्रकृत्याऽनुगुणान्भिषक् ।
इत्या(त्य)न्नरस्या(सा)न्प्रविशेदारोग्यबलवृद्धये ॥
अथ यो गजः पित्तप्रकृतिस्तस्येमान्येव लिङ्गानि वेदितव्यानि—अथ खलु
प्रावृडन्ते सलिलतृषितः सुरभिशिशिरेषु सलिलामृतं विसृक्षु वा वारिधरेषु घर्म-
बाहुल्याद्दुःस्थानशयनस्य जलौघसंनिरुद्धविचारमार्गत्वाद्दोषोपशमस्याग्निदौ-
र्बल्यमुपजायते । ततः पित्तमुपचीयते । घनसंवृतदिवसकराकरणत्वात्सुकुमारी-
कृते जीवनप्रनष्टे १वियदिन्द्रायुधबलाहके निर्मदपरभृतशिखिकुले प्रच्छन्ने नभसि
तारागणदिग्वलये प्रफुल्लपद्मोत्पलकुमुदकल्हारसुगन्धिजलाशये क्रौञ्चकारण्ड-
वचक्रवाकसारसानुगीतसरोदके प्रफुल्लवानीरासनसप्तपर्णबन्धुजीवे शरत्काले
द्विरदः संसृष्टशुक्रसंचयो दिवा रात्रौ वा +........................................ ॥
कषायमधुराः शीता घर्मकाले क्रियाः स्मृताः ।
उष्णाम्ललवणाः स्निग्धाः शीतकाले विनिश्चिताः ॥
कटुतीक्ष्णोष्णरूक्षाश्च काले साधारणे हिताः ।
सर्वेष्वेव तु रोगेषु मनसः संप्रसादनम् ॥
गीतवादित्रनिर्घोषैर्वेणुवीणास्वनैस्तथा ।
मनोज्ञै(ज्ञ)मधुराहारैस्तथा स्वच्छन्दचेष्टितैः ॥
श्लेष्मणा गुरुगात्रो हि स्तब्धत्वं मातरिश्वनः ।
पित्तेन परिदाहोऽयं सर्वैर्वा पीडितोऽस्म्यलम् ॥
अस्मिन्द्रव्येऽभिलाषं मे दुःख्यत्यङ्गमिदं मम ।
तृषितो ह्यवितृप्तोऽस्मि क्षुधितोऽस्मीति वा पुनः ॥
वदतां हि क्रियाः सर्वाः सुखदुःखनिबन्धनाः ।
आयुर्वेदधरैर्दक्षैरेकैकाङ्गव्यवस्थितैः ॥
नराणां न्वततो व्याधिरुपलभ्येत वा न वा ।
वधबन्धपरिक्लेशं प्राप्नुवन्त्यतिदारुणम् ॥
पानभोजनमप्येषां बलादेव प्रदीयते ।
देहि भूयो ममाऽऽलम्बं........श्रायं समोऽधिकः ॥
- त्रुटिचिह्नमादर्शप्रतौऽपि नोपलभ्यते ।
१ क. विद्युदिन्द्रा° ।
१८० पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने-
इतीभानामवदतां दुःसाधुःसममुत्स्वपम् ।
एवं व्याधिपरिज्ञानं कुर्यात्तस्मिन्निरूपणम् ॥
यत्नतो विविधाकारे········दानेरुपलभ्यते ।
यत्नतो व्याधिरूपाणि शास्त्रतत्त्वविभागतः ॥
दुष्टदोषे परिज्ञानं यथावत्परिकीर्तितम् ।
हस्तिनां हितकार्येण पालकाप्येन धीमता ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे उत्तराभिधाने चतुर्थस्थाने
पथ्यापथ्यविचाराध्यायः षड्विंशः ॥ २६ ॥
अथ सप्तविंशोऽध्यायः ।
अथातः करीषाध्यायं व्याख्यास्यामः ।
इति ह स्माऽऽह भगवान्पालकाप्यः—'अथ खलु भो यदा हस्तिनां वात-
पित्तकफरुधिरसंनिपातैः पीड्यन्ते। मृत्तिकानाहदोषैर्वातपित्तकफव्याधिनिग्रहार्थं
मिमानि पुरीषाणि देयान्यष्टाविति । तत्र गोमहिष्यजाविगजवाजिगर्दभोष्ट्राणां
करीषाणि ।
गव्यं करीषं गुल्मार्शःकृमिकोष्ठविशोधनम् । वातानुलोमनं पित्तलमानाह-
मृत्सङ्गवातगुल्मविपद्दुष्टेभ्यः सह मूत्रेण दद्यात् ।
अथ माहिषं करीषमुष्णवीर्यं तीक्ष्णं पादरोगार्दितेभ्यो नागेभ्यः शुद्धमेव
दद्यात् ।
आजं करीषं तीक्ष्णमुष्णवीर्यं कृमिकोष्ठविशोधनं वातानुलोमनं मृत्तिकाभिला-
विषाण्डुरोगिभ्यः प्रसन्नायुक्तं दद्यात् । वाजिकरीषमुष्णवीर्यं तिक्तं कृमिकोष्ठ-
हरं श्लेष्मविनाशनं मृत्तिकाभिलाषिपाण्डुरोगिभ्यो लवणयुक्तं दद्यात् ।
इभकरीषमुष्णवीर्यं त्वक्प्रलेपनार्थं दद्यात् ।
आविकमुष्णवीर्यं कृमिकोष्ठविशोधनं मृत्तिकाभिलाषिपाण्डुरोगिभ्यो दद्यात् ।
औष्ट्रं श्लेष्महरं छविःप्रसन्नार्थं मृत्तिकाभिलाषिणे दद्यात् ।
गार्दभं करीषमुष्णवीर्यं मृत्तिकाभिलाषिपाण्डुरोगिभ्यो लवणयुक्तं दद्यात् ।
इति करीषाण्यष्टौ गुणदोषतश्च व्याख्यातानि ॥
अतःपरं मूत्रगुणान्व्याख्यास्यामः—
तत्र गवां मूत्रमुष्णवीर्यं मृत्तिकाभिलाषिभ्यो दद्यात् ।
माहिषं तीक्ष्णमामं चोष्णवीर्यं मृत्तिकाभिलाषिणे दद्यात् ।
२८ लशुनकल्पाध्यायः ] हस्त्यायुर्वेदः । १८७
अथ गजमूत्रं तिक्तमुष्णवीर्यं मृद्दोषाय दद्यात् ।
गार्दभमुष्णवीर्यं वातश्लेष्महरं मृत्तिकाभिलाषिणेदद्यात् ।
औष्ट्रमतितीक्ष्णं कृमिकोष्ठविशोधनार्थं दद्यात् ।
तत्र श्लोकः—
स्निग्धानां वारणानां च दातव्यमिति निश्चयः ।
सर्वदा प्रतिपानार्थं रूक्षाणां न प्रशस्यते ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे उत्तराभिधाने परिचारचतुर्थस्थाने
करीषमूत्राध्यायः सप्तविंशः ॥ २७ ॥
अथाष्टाविंशोऽध्यायः ।
अथ हुताग्निहोत्रं पालकाप्यं रोमपादो विनयात्पप्रच्छ ‘ भगवन्यदेतद्द्रव्यं
रसोोनामाऽमृतामोपदिष्टं तस्योत्पत्तिनिरुक्तानिष्टगन्धतां रसवीर्यविपाक उप-
युक्तं यथान्यान्पाने व्याधीन्निहन्ति, अशेषेण तन्मे व्याख्यातुमर्हसि' ॥
तत्र प्रोवाच भगवाञ्छ्रीपालकाप्यः—इह खलु भोः सुपर्णः पुरा जननी-
हेतोराहरदमृतं विहायस्यतिवेगेन प्रलीनस्तस्यामृतभाजनात्सङ्क्षोभात्ततो बिन्दु-
निष्पातादनिष्टभूमावनिष्टगन्धमम्लरसोनमूलं लघुशीघ्रविपाकि तीक्ष्णरसमिति
तस्माद्रसोनं रसोत्तमममृतसंभवं ब्रुवन्त्याचार्याः ।
तद्रसोनं मूले कषायरसं, बीजे मधुररसं, पत्रे तिक्तरसं, पत्राग्रे कटुरसं,
नाले लवणरसं, संधानजननं मलविशोधनमसुक्प्रसादनमग्निदीपनं तीक्ष्णो-
ष्णकटुकषायत्वाच्छ्लेष्मनिबर्हणम् । स्निग्धोष्णत्वादनिलापहं माधुर्याद्रक्तापित्त-
प्रशमनम् । गुरुत्वादङ्गलमुपकुरुते । पैहिल्यात् (?) स्नेहमाधुर्यगुरुत्वादिभिर्गुणैः
संनिपातमवकर्षति । विचित्ररसवीर्यगुणविपाकतॊ रसादूनम्(?) । तस्मा-
दुरुगमनविहतभग्नास्थिमार्प(थि)तविच्च्युतमोटितजर्जरीकृतानामकामाशनपान-
निश्चितानां च घृतयुक्तं रसोनं देयम् • अन्नपानक्षीरफाणितसंयुक्तं दद्यात् ।
तथा रसरुधिरमांसमेदोस्थिमज्जाशुक्रक्षयिभ्योऽन्ये प्रमदक्षीणानामन्येषु च
सर्वरोगेष्वरोगाणां बलमांसविवृद्ध्यर्थं रसोनं दद्यात् । मृगमहिषवराहरोहितम-
त्यानां ताम्रचूडबर्हिणलाववार्त्तित्तिराणां च सूपशोणितेन रसोनं दद्यात् । वेसवा-
रेण सघृतेन शाष्पोदनं च भोजयित्वा रसान्तरसोनं देयम् । तेनास्य बृंहित-
शरीरस्य रसरुधिरमांसमेदोस्थिमज्जाशुक्राण्युत्साहबलवृद्धिर्भवति । क्षीरघृत-
संयुक्तं वि....पोतेभ्यो बलमांसविवृद्ध्यर्थं दद्यात् । यदा तु वर्षासु वातभूयिष्ठा
वारणा भवन्ति । मुद्गक्षणाधुत्कर्णकवातगतिवातानाहस्कन्दपाण्डुरोगगलग्रह-
हस्तग्रहगुल्महृदयरोगगात्रापरसगदामन्यास्तम्भेषु च गजे तैलयुक्तं दद्यात् ।
अनुपानं च प्रसन्नां फाणितयुक्तां दद्यात् । यदा तु हेमन्तशिशिरवसन्तेषु
भूयिष्ठश्लेष्माणो भवन्ति । मन्यास्तम्भश्लेष्माशिरोरोगाभिष्यन्दगलरोगकृमि-
कोष्ठपिटकातीसारव्रणदद्रूकण्डूश्वयथुविकारिणां त्रिफला त्रिकटुकविडङ्गचूर्ण-
संसृष्टं लशुनं दद्यात् । अनुपानं च सुखोष्णोदकमजाक्षीरमरिचचूर्णसंसृष्टं
दद्यात् । यदा तु शरद्ग्रीष्मकालयो रक्तपित्तबाहुल्यं वारणानां भवति घर्म-
दाहश्च विषमदमत्तगत्तस्विन्नदेहेभ्यश्च मृद्वीकाशर्कराचूर्णसंसृष्टं लशुनं दद्यात् ।
अनुपानं च मृद्वीकाशर्कराचूर्णसंयुक्तं क्षीरं दद्यात्
२९ लवणयोगाध्यायः ] हस्त्यायुर्वेदः । ६८९
हीनक्रिया न सिध्यन्ति व्याधयो विविधा गजे ।
तस्मात्कुर्वीत शास्त्रोक्तं विधिं सम्यक्चिकित्सकः ॥
भक्ष्ययोगप्रमाणज्ञो मात्रायोगविशारदः ।
औषधानां विभागज्ञः स राजन्कर्तुमर्हति ॥
'इति श्रीपालकाप्ये हस्त्यायुर्वेद उत्तराभिधानपरिचारचतुर्थस्थाने
लशुनकल्पाध्यायोऽष्टाविंशः ॥ २८ ॥
अथैकोनत्रिंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
लवणे योगमाख्याहि हितं यत्करिणां भवेत् ॥ १ ॥
रोमपादमिति ज्ञात्वा पालकाप्यस्ततोऽब्रवीत् ॥
लवणं संप्रवक्ष्यामि सर्वरोगप्रणाशनम् ॥ २ ॥
बिल्वाग्निमन्थस्योनाककाश्मर्यमथ पाटला ॥
पाषाणभेदकं रोध्रमपामार्गस्त्रिकण्टकम् ॥ ३ ॥
उभे हरिद्रे पाठा च तथैव च हरीतकी ॥
रोमकं च विडं चैव सामुद्रं सैन्धवं तथा ॥ ४ ॥
पिप्पली शृङ्गवेरं च मरिचानि च दापयेत् ॥
चव्यामतिविषां हिङ्गुबिभीतकफलानि च ॥ ५ ॥
कुलीरशृङ्गीं च तथा त्वचं निम्बकदम्बयोः ॥
मातुलिङ्गं च कालां च विडङ्गामलकी तथा ॥ ६ ॥
पूतिगन्धं च मुस्तां च काकमाची तथैव च ॥
हपुषा श्वेतया सर्वं मूर्वां तेजोवतीमपि ॥ ७ ॥
अम्बष्ठां तिन्तिडीकं च खण्डशः परिकल्पयेत् ॥
भागाः षष्टिपला ह्येते सूक्ष्मचूर्णीकृताः पृथक् ॥ ८ ॥
द्वात्रिंशत्को हिङ्गुभागो मूत्रेण सह योजयेत् ॥
पकं च तद्यथा सर्वं सम्यक्पिण्डीकृतं भवेत् ॥ ९ ॥
गोमूत्रमथ दद्यात्तु दधि मस्तु भिषग्वरः ॥
अथ तत्संवृतं सर्वं स्वनुगुप्तं निधापयेत् ॥ १० ॥
तिष्ये चैव विपक्वं स्यात्स्वस्ति वाच्य द्विजांस्ततः ॥
निवास्य पञ्चरात्रं तु वैद्यशास्त्रविशारदः ॥ ११ ॥
पालकाप्यसंहितायां— [४. उत्तरस्थाने—
दद्यात्तु कृमिकोष्ठिभ्यः शीतवातापरिक्षपात् च ॥
मदक्षीणाश्च नागाश्च संज्ञा वै भिषजःप्रसे ॥ १२ ॥
अन्यत्र मूलजं दान्तं विषयं चाऽपि कृत्रिमम् ॥
अजीर्णमत्सङ्कुक्तमागाहं च प्रयोजयेत् ॥ १३ ॥
गजानामथवाऽश्वानां महिषाणां गवामपि ॥
नरादीनामथान्येषां सत्त्वानां सर्वदा हितम् ॥
एवमेतत्प्रयोक्तव्यं भिषजा सिद्धिमिच्छता ॥ १४ ॥
इत्येतदङ्गप विशेषतो वै प्रोक्तं मया सर्वमिदं हिताय ॥
संजीवनं चाग्निविवर्धनं च हितं गजानां लवणं यथावत् ॥ १५ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे चतुर्थे उत्तरस्थाने लवणयोगो-
ऽध्याय एकोनत्रिंशः ॥ २९ ॥
अथ त्रिंशोऽध्यायः ।
पालकाप्यमुवाचाङ्गो रोमपादो महायशाः ॥
गुणा ये पांशुदानस्य प्रमाणस्य च ये गुणाः ॥ १ ॥
केषामदेयो देयो वा वारणानामुदाहृतः ॥
येषु कालेषु वा दत्तो गुणोपेतः स्मृतः सदा ॥ २ ॥
अथ पृष्टं यथोद्दिष्टं प्रोवाच मुनिसत्तमः ॥
निखिलेनाङ्गराजाय यथाशास्त्रविनिश्चयः ॥ ३ ॥
आरण्यो दम्यमानश्च दान्तश्चैव मतङ्गजः ॥
पुराणश्चेति विज्ञेयाश्चत्वारोऽमी विनिश्चयात् ॥ ४ ॥
आरण्यस्तु स विज्ञेयः स्कन्धहारेण (?) संयुतः ॥
वाक्याङ्कुशदण्डाभ्यां संज्ञां *योऽतीव बुध्यते ॥ ५ ॥
दम्यमानः स विज्ञेयो दम्यते यो महङ्गजः ॥
संग्रहैर्विप्रयुक्तश्च वध्यकश्चैव वारणः ॥ ६ ॥
वाक्याङ्कुशतोत्रेण क्रियां यः प्रतिपद्यते ॥
स दान्त इति मातङ्गो नृपकारेरुदाहृतम् ॥ ७ ॥
* 'यो नैव' इति भवेत् ।
१ क. सदा स्मृतः ।