सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 720, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 720

३४ जलौकाध्यायः ] हस्त्यायुर्वेदः । ७०१
स्थूलमध्याल्पकायाश्च परिक्लिन्ना तु या भवेत् ॥
अध्य(ध्या)यता तु या राजंश्जलौकास्तां विनिर्दिशेत् ॥ २७ ॥
मृत्तिकां शालिपिष्टां च माषचूर्णमथापि वा ॥
विरूक्षयेज्जलोकार्थमर्दयेत्सन्तृजास्तु या ॥ २८ ॥
शुक्रेन चापि वस्त्रेण सर्वतः परिवेष्टयेत् ॥
निबद्धाः सर्वतः कृष्णां मुखमूलमपाशृणोत् ॥ २९ ॥
ततः शरावमध्ये च काञ्चने वाऽथ भाजने ॥
तत्रैतां निक्षिपेदाशु वस्त्रमासाद्य तत्त्वतः ॥ ३० ॥
जलैर्निर्वापयित्वा तु जलौकास्ता भिषग्वरः ॥
क्षीरेण श्वयथुं लिम्पेदथवा शोणितोक्षिताम् ॥ ३१ ॥
दद्याच्छस्त्रपदं चापि तस्मिन्ग्रहणहेतुकः ॥
जलौकाभिर्गृहीते तु शोणिते तस्य हस्तिनः ॥ ३२ ॥
कृते दोषापहरणे शोणितं न विदह्यते ॥
कृत्वाऽश्वखुरसंकाशं मुखं निवसति .... .... ॥ ३३ ॥
.... .... .... ....पित्वा तु तदा गृह्णात्यसंशयम् ॥
आदंशस्तुद्यते यस्तु कण्डूमांश्चैव जायते ॥ ३४ ॥
शुद्धवारि .... .... .... ....नाक्षिप्तं तमवगाहयेत् ॥
दंशं शोणितगन्धेन या तु नैव विमुञ्चति ॥ ३५ ॥
ततः सैन्धवचूर्णेन प्रतिसार्य जलायुकाम् ॥
हस्तेन तां ग्राहयित्वा ततो निष्पीडयेद्रजम् ॥ ३६ ॥
ये च वर्णाः समारुपाताः शोणितस्य पृथक्पृथक् ॥
तान्वर्णान्वा निरीक्षेत निःसृते शोणिते भिषक् ॥ ३७ ॥
इन्द्रगोपकवर्णं तु शुद्धं स्याद्यदि चेतरम् ॥
तस्मात्तं निःसृतं कुर्याद्रक्तमाशु विजानता ॥ ३८ ॥
न ह्यल्पे प्रकोपे च .... .... .... .... .... .... ॥
ईषज्जातं तु रुधिरं न व्याधिरतिवर्तते ॥ ३९ ॥
दोषोवेशं च शमयेच्छीतैर्लेपैर्मधुरैस्तथा ॥
.... ....पूर्वमम्लाभिः कीर्तितास्ते जलौकसः ॥ ४० ॥
यदि वा कुशलो वैद्यः सविषामवतारयेत् ॥
विकारस्तत्र कार्त्स्न्येन यथावदुपदेक्ष्यते ॥ ४१ ॥
१ °येज्जसम् । २ क °षावशेषं श° ।