हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
शेषानुदाहरिष्यामि गुणानुत्तरबस्तिषु ॥
राजंस्तत्र विकारेषु येद्रुव्याधिषु वेप्यते ॥ १७ ॥
बस्तेरुत्तरसंज्ञस्य प्रयोगः सिद्धिकाङ्क्ष(ङ्क्षि)णः ॥
मूत्रकृच्छ्रप्रमेहेषु मूत्रवातेषु बाधिकम् ॥ १८ ॥
मूत्रसङ्गे जठरके यथान्यायं महीपते ॥
वातकुण्डलीकार्या च शोणितं यः प्रमेहति ॥ १९ ॥
एतेषु वै विकारेषु प्रशस्तो बस्तिरुत्तरः ॥
पुष्पनेत्रस्य बस्तेश्च प्रमाणं यद्वयस्य च ॥ २२० ॥
तदुत्तरं प्रवक्ष्यामि यथाशास्त्रं महीपते ॥
चतुर्दोषसमुत्थेषु संसृष्टेष्वितरेषु च ॥ २१ ॥
यथास्वमौषधैः सम्यक्स्नेहमात्रां तु साधयेत् ॥
यथोक्तं पूर्ववद्धाप्यं पयः पीतवतः शृतम् ॥ २२ ॥
बस्तेर्गमनमार्गार्थं यवागूं च घृतप्लुताम् ॥
मेद्रप्रमाणमादाय नेत्रमुत्तरबस्तिकम् ॥ २३ ॥
वृत्तं श्रो(स्रो)तःप्रमाणेण श्लक्ष्णं कुर्यात्समीहितम् ॥
अनुवासनमात्रायास्तस्यांशं षोडशं भवेत् ॥ २४ ॥
स्नेहप्रमाणमेतत्स्यात्कार्यमुत्तरबस्तिषु ॥
पुरस्तादुच्छ्रिते स्थाने विधिवद्यन्त्रिताय च ॥ २२५ ॥
ऋतुस्थिताय स्वस्थाप लघवे पूजिताय च ॥
अवालेप(?)भिषङ्गेत्रं प्रणयेत्सुसमाहितम् ॥ २६ ॥
प्रमाणमार्गमेशण्या श्रो(स्रो)तोमार्गमनुव्रजेत् ॥
नाड्यां समूत्रि(?) संत्राप्य ततस्तत्र शनैः शनैः ॥ २७ ॥
पीडयेच्च यथा प्रोक्तमास्थापनविधौ यथा ॥
निष्कृष्य च ततो नेत्रं नाडी(स्थान)मतः सृजेत् ॥ २८ ॥
आकाङ्क्षेत मुहूर्तं च बस्तेः प्रतिनिवर्त्तनम् ॥
. सर्वश्चास्य विधिः कार्यो यथोक्तः पूर्वमेव हि ॥ २९ ॥
आदाने विनिवृत्तौ च संस्कारक्रम एव च ॥
भानायाति यथाकालं वर्तिममुविधापयेत् ॥ २३० ॥
- खपुस्तकयोर्नोपलभ्यते ।
१ क. °कृच्छ्रे प्रमेहे च मूत्रवाते ततोऽधि° । २ क. °न्समाहित° ।
५ बस्तिदानाध्यायः ] हस्त्यायुर्वेदः। १७१
नाडीछिद्रप्रमाणेण दीर्घाष्टाष्टाङ्गुलं भिषक् ॥
बृहतीफलनिर्यासास्तथाऽपामार्गतण्डुलाः ॥ ३१ ॥
निर्गुण्ड्यारग्वधानां च तथा सहचरस्य च ॥
सुरसस्य च पत्राणि पिप्पल्या मरिचानि च ॥ ३२ ॥
आगारधूम इत्येषां वर्तिर्मूत्रप्रवर्तिनी ॥
ततस्तीक्ष्णतरां वर्तिमपानेऽन्यां प्रवेशयेत् ॥ ३३ ॥
लवणत्रयूषणमयीमपानप्रतिपूरणीम् ॥
द्वादशाङ्गुलमात्रां तु दीर्घत्वेन प्रवेशयेत् ॥ ३४ ॥
स्वभ्यक्तस्य च (*नागस्य) पूर्वमेव यथाविधि ॥
निःस्रुतः स्रोतसो वाऽपि प्रदेया नुं विशां पते ॥ २३५ ॥
उपास्य नु मुहूर्तं च तथैवान्यां प्रवेशयेत् ॥
आस्थापनीयवच्चापि सर्वेष्वेव विधिर्हितः ॥ ३६ ॥
बस्तिदानप्रमाणेन वक्ष्यन्ते परतस्ततः ॥
नेत्रबस्तिः कृताँस्वेवं चतुष्पादकृतास्तथा ॥ ३७ ॥
षड्विधा व्यापदस्तदासां योनिशुद्धिश्च वक्ष्यते ॥
अतिमात्रप्रवेशं च हीनमात्रं तथैव च ॥ ३८ ॥
तिर्यगूर्ध्वमधश्चापि नेत्रस्य क्षेपणे तथा ॥
पुनः पुनस्तथोऽत्यर्थं मृदु यच्चापि पीडितम् ॥ ३९ ॥
अतिमात्रं तथा हीनं व्यत्यासाद्भेषजस्य च ॥
कालातिनयनं चैव बन्धशैथिल्यमेव च ॥ ४० ॥
भिषग्दोषकृता ज्ञेयास्तासां दोषमतः शृणु ॥
तत्र नेत्रे विचालिते बलात्क्षिप्ते ततस्ततः ॥ ४१ ॥
प्रतिनिष्पीडिते नेत्रे क्षण्यन्ते वलयोऽपि वा ॥
असंमाप्तेऽथवा तिस्रो वलीनेत्रे च पीडिते ॥ ४२ ॥
प्रतिनिष्पीड्यते बस्तिर्वायुवेगेरितस्तथा ॥
गतेऽपि वा गुदमुखं पुरीषे प्रतिहन्यते ॥ ४३ ॥
दुर्बले बस्तिनेत्रे वा दुर्बले वाऽपि सिञ्चति ॥
अतिमात्रप्रवृत्तेषु वेदना स्यात्परा गुदे ॥ ४४ ॥
- ख. घ. पुस्तिकयोर्नोपलभ्यते ।
१ क. तु । २ ख. घ. सर्वस्वेव । ३ क. ॰धिर्मतः । ४ ख. घ. ॰तास्त्वेवं ।
५ क. ॰थाऽभ्यर्थं । ६ क. क्षणाम्ते ।
क्षणान्ते वलयस्तस्मात्तस्मान्नातिप्रवेशयेत् ॥
सवलीके कृते बस्तौ पीडिते वा पुनः पुनः ॥ ४५ ॥
कोष्ठे वायुप्रवेशः स्यात्तस्मान्नैवं समाचरेत् ॥
अभ्यर्धे पीडिते बस्तौ नेत्रे वाऽपि प्रवेशिते ॥ ४६ ॥
पक्वाशयातिसारी स्याद्वेदनांर्तो महीपते ॥
ईषत्तु पीडिते बस्तौ विषमं च प्रवेशिते ॥ ४७ ॥
नेप्सितं देशमाप्नोति स्याच्च बस्तिर्न कारकः ॥
औषधानां विपर्यासे यथास्वं दोषवर्धनम् ॥ ४८ ॥
तस्य वा प्रशमो व्याधेरन्येषां जन्मभावतु(तः) ॥
हीनमात्रे तु भेषज्ये कार्यस्यासाधनं भवेत् ॥ ४९ ॥
अतिमात्रे तु मात्रं तु दोषस्य हरणं भवेत् ॥
तेन दोर्बल्यमाप्नोति संज्ञानाशोऽपि वा भवेत् ॥ २५० ॥ .
उपद्रवाणां चोत्पत्तिर्मरणं वा ततो भवेत् ॥
कालातिनयतोऽप्येवं नियतं दोषवर्धनम् ॥ ५१ ॥
अन्येषां वा विकाराणामुत्पत्तिस्तदुपेक्षणात् ॥
अग्रेऽतिकर्कशं स्थूलमसमं चैव यद्भवेत् ॥ ५२ ॥
तन्नेत्रं वेदनां घोरां हस्तिनामुपपादयेत् ॥
अधुना स्रोतसा तस्य चिरात्स्नेहः प्रसिच्यते ॥ ५३ ॥
अर्धदत्ते कथंचिच्च सहसाऽस्य निवर्तयेत् ॥
तत्र वेगविघातात्तु जायन्ते गुदमेढ्रयोः ॥ ५४ ॥
वस्तौ चोपद्रवाः कष्टास्तस्मादेतन्न शस्यते ॥
भिषगातुरयोश्चैव तथैव परिकर्मिणः ॥ २५५ ॥
यथोक्तमेतद्विज्ञेयमसिद्धौ लक्षणं नृप ॥
अन्या(या) व्यापदा सिद्धौ सिद्धयश्च ततः परम् ॥ ५६ ॥
प्रवक्ष्यामि पृथक्त्वेन या युक्ताः पार्थिव यतः ॥
तत्र वातेन पित्तेन श्लेष्मणा वाऽपि भूयसा ॥ ५७ ॥
पुरीषेणाथवाऽत्यल्पो बस्तिः स्नेहः कथंचन ॥
संपृक्तो गत एकत्वं न चेदतिनिवर्तते ॥ ५८ ॥
मृदुश्चाल्पश्च विच्छिन्नस्नेहो नैव निवर्तते ॥
असंशुद्धशरीरस्य मार्गदोषेण संवृतो ॥ ५९ ॥
बहु भुक्तवते बस्तिर्यत्रैव परिवर्तते ॥
दूरं बस्तेः प्रविष्टस्य स्नेहमात्रासमेन तु ॥ २६० ॥
समा विद्या न सा जातु पुनः प्रतिनिवर्तते ॥
निदानेषु यथा प्रोक्तं दोषाणां व्यञ्जनं मया ॥ ६१ ॥
तेन तेनान्वितो बस्तिर्यथास्वं स्यात्सुलक्षणः ॥
संसृष्टेन पुरीषेण बस्तो कुक्षिविपद्यते ॥ ६२ ॥
निश्वासस्य च पूतित्वमाध्मानः शूलमेव च ॥
पक्वाशयगुरुत्वं च गात्रसादश्च जायते ॥ ६३ ॥
बस्तावेतत्पुरीषेण ग्रथिते भवति क्षणम् ॥
अन्नेन चेव संसृष्टे छर्दिर्मूर्च्छाऽङ्गोरवम् ॥ ६४ ॥
आमाशयविशुद्धिश्च हिक्का श्वासस्तथैव च ॥
शूलं मानावनिन्दितवं वायोरूर्द्धप्रवर्तनम् ॥ २६५ ॥
मुखप्रंस्ता(स्रा)व इत्येवं लिङ्गमन्नेन संहते ॥
अत्युन्नतशरीरस्य पीडितोऽत बहुद्रवः ॥ ६६ ॥
अल्पाहारस्य भिषजा काये पूर्वं विशोधिते ॥
भूयश्चोच्छ्वासवेगेन संपृक्तो बस्तिरुद्धतः ॥ ६७ ॥
सज्जमानोऽथवा नेत्रे मुखं वा प्रतिपद्यते ॥
'अभ्युन्नतशरीरस्य बस्तिर्वातसमीरितः ॥ ६८ ॥
बस्तिमेव प्रपद्येत ततः स्नेहः प्रवर्तते ॥
अल्पतैलविधानेन हृदयोपद्रवो भवेत् ॥ ६९ ॥
• अल्पत्वान्मादॆवाच्चैव न दोषहरणं भवेत् ॥
दोषः संमूर्च्छितो वाऽपि कोष्ठ एव विलीयते ॥ २७० ॥
अल्पो वा हृदये दोषान्होनमात्रैस्तु बस्तिभिः ॥
दाहं तृष्णां च मूर्छां च तीक्ष्णो बस्तिरुदीरयेत् ॥ ७१ ॥
कुर्याच्चाऽप्यतियोगेन जीवादानं न संशयः ॥
अजीर्णे बस्तिदानेन गुदे दोषः प्रवर्तते ॥ ७२ ॥
छर्दिर्मूर्च्छा च शूलं च गात्रसादश्च जायते ॥
। उच्छ्वासस्याविशुद्धिश्च जृम्भणं परिवर्तनम् ॥ ७३ ॥
प्रवारणं परिस्रावो निस्तम्भो रोमहर्षणम् ॥
अशुभानि भवन्त्येवमजीर्णे यः प्रयच्छति ॥ ७४ ॥
॥Wait, let's look at line 18:उत्क्षिप्य रोपयेद्देशं यत्र स्यादुन्मुखो गजः ॥Wait! Is itयत्र स्यादुन्मुखो गजः? Let's read letter by letter: य त्र(orप त्र?) Wait! Look at यत्र: Wait, the first letter of that word: is it पorय? Wait! यinयथा(line 15) has a notch. In line 18:प त्र? Wait, look at पत्र: Wait, look at रोपयेद्देशं पत्र स्यादुन्मुखोorयत्र स्यादुन्मुखोorयत्र पादुरुन्मुखो? WAIT! Look at the words after रोपयेद्देशं: Letter 1: पLetter 2:त्र? Letter 3:स्? No! Look at: प त्र स् पा दु न्मु खो??? Wait! Let's read carefully:प(orय?) Wait, look at: प त्र- no, look at the space:रोपयेद्देशं(space)प त्र(space)स्पा
५ बस्तिज्ञानाध्यायः ] हस्त्यायुर्वेदः । ६१३
प्रणिदध्याच्च विधिवत्समं त्रिहृतया सह ॥
तैलं विपकमित्येष बस्तिस्तूर्णं प्रवेशितः ॥ ८९ ॥
तस्मिन्दत्तो निरूहस्तु बस्तिस्तेन प्रवर्तते ॥
पुनरेवानुवास्याथ यथोक्तेन क्रमेण तु ॥ २९० ॥
त्रिफलारम्यकं स्नेहः शालिमूलं तथैव च ॥
चिरबिल्वश्च विज्ञेयः श्यामामूलं च सर्वतः ॥ ९१ ॥
हृद्योपद्रवे दद्यात्संशोधनमिदं भिषक् ॥
( *ततो बस्तिविधानं तु कार्यमाहुस्ततः परम् ॥ ९२ ॥
विसृष्टलवणस्तीक्ष्णः किंचिदुष्णतरस्ततः ॥
चतुर्थोऽंशः प्रदातव्यस्तृतीयो वाऽर्धमेव च ॥ ९३ ॥
जीवादानेऽतियोगे च प्रदेया रक्तबस्तयः ॥
पिच्छिलाश्चापि देयाः स्युरेवमेवातिसारिणे ॥ ९४ ॥
भक्ते ग्रासावरोधे च च्छर्द्युद्वारे तथैव च ॥
शूलेन वातिको बस्तिराध्माने च विधीयते ॥ २९५ ॥
बस्तेश्च प्रणिधानं स्यात्ततस्तु परिकीर्त्यते ॥
पिच्छिला स्नेहबस्तिश्च पैत्तिकश्च विधीयते ॥ ९६ ॥
शिरसः पूरणे देयाः शोधनीयाश्च बस्तयः ॥
मूर्च्छायामुपचारस्तु शीत एव न संशयः ॥ ९७ ॥
वाजीकरणसंयुक्ताः शीता धातुक्षये हिताः ॥
कृशस्य बृंहणीयाश्च स्थूलस्य तु विशोधनाः ॥ ९८ ॥
प्रत्यनीकेन कर्तव्यं तस्य बस्तेश्चिकित्सितम् ॥
सर्वत्रैवं विजानीयादित्युद्देशः प्रकीर्तितः ॥ ९९ ॥
स्नेहनः सर्वपूर्वः स्याद्वलिनोऽथ विरेचनः ॥
आस्थापनं स्नेहबस्तिरित्येष क्रम इष्यते ॥ ३०० ॥
कृत्स्नेष्वर्थेष्वभिप्रायमतिदीप्ततराग्निता ॥
इन्द्रियाणां प्रसादश्च सर्वत्र रतिरेव च ॥ ३०१ ॥
सुखस्वप्नावबोधश्च सुखोत्थानस्तथैव च ॥
रोचते चास्य यत्किंचिल्लघुमावहते च यत् ॥ २ ॥
*धनुश्चिह्नान्तर्गतः पाठो नास्ति कपुस्तके ।
१ क. हृद्योपद्रवं विद्यात्संशोधनविधानतः । २ घ. ॰स्य तस्य चिकि॰ ।
ण्येव? Actually, let's look at श्चा+ज्या? No, wait! Look at: स्युर्वैद्यthenश्चा- wait, could it beस्युर्वैद्यश्च त्रीण्येव? Look: स्युर्वैद्यश्च->श्च+ा? श्चा Thenत्री? The character has a loop at top left, then horizontal bar... wait, that's ज! Wait, could it be स्युर्वैद्यश्चाज्याण्येव दापयेत्`? Yes, "अज्यानि" / "आज्यानि" (ghee)?
"अधमायाऽऽढकानि स्युर्वैद्यश्चाज्याण्येव दापयेत्" -> 3 Adhakas of ajya (ghee)?
Wait! "अधमायाऽऽढकानि स्युः" - How many adhakas?
Wait! Line 28:
"उत्तमस्य तु नागस्य भवेत्पञ्चाढकं मतम् ॥ १६ ॥" -> 5 Adhakas.
Line 29:
"मध्यमाय भवेद्देयं नित्यं तु चतुराढकम् ॥" -> 4 Adhakas.
Line 30:
"अधमायाऽऽढकानि स्युर्वैद्यस्त्रीण
५ बस्तिदानाध्यायः ] हस्तिआयुर्वेदः । ३१५
स्नेहप्रमाणमुद्दिष्टं यथावत्प्रविभागशः ॥
भूयोऽङ्गराजः पप्रच्छ कालकाप्यं महामुनिम् ॥ १८ ॥
अभुक्तं वा निरूहेत भुक्तं वा चानुवास्यते ॥
यदि तत्कस्य हेतोस्तु भगवन्प्रब्रवीतु मे ॥ १९ ॥
इत्युक्तस्तेन विनयात्तस्मै प्रोवाच तत्त्वतः ॥
अभुक्तवान्यदा नागः पूर्वमेवानुवास्यते ॥ ३२० ॥
तदाऽस्याऽऽमाशयं स्नेहः शून्यकोष्ठस्य गच्छति ॥
आमाशयस्थे स्नेहे तु पश्चाद्भोजयते द्विपम् ॥ ३२१ ॥
स्नेहेनाऽऽमाशयस्थे तु हृदयं तस्य पीड्यते ॥
संमूर्च्छितो विह्वलति तथाऽऽध्मानं नियच्छति ॥ २२ ॥
स भोजनविमिश्रस्तु नैवाधः प्रतिपीड्यते ॥
तेनाग्नेर्दुर्बलीभावः सहसैवास्य जायते ॥ २३ ॥
मन्दाग्निभावात्पित्तं च कफश्चास्य प्रकुप्यति ॥
तौ प्रदुष्टौ तु सहसा चाऽऽममार्गं निरुन्धतः ॥ २४ ॥
अन्तर्वाताभिभूतस्य स्नेहो नैव निवर्तते ॥
अनिवृत्तः स्थितः स्नेहो धमनीं तस्य दापयेत् ॥ ३२५ ॥
अधःश्रो(स्रो)तःसु रुद्धेषु वायुश्चोर्ध्वं प्रधावति ॥
चक्षुः श्रोत्रं शिरश्चास्य घ्राणं चैव रुणद्धि तु ॥ २६ ॥
तस्माद्भुक्तवते बस्तिः स्नेहस्तस्य विधीयते ॥
अभुक्तस्य निरूहः स्यादतिरूक्षस्तु भुक्तवान् ॥ २७ ॥
यदा तु भुक्तवान्नागो निरूहेत विजानता ॥
बहून्रोगांस्तदा साप्यस्तन्निमित्तं नियच्छति ॥ २८ ॥
अत्यर्थं पाकलं तृष्णामतीसारमरोचकम् ॥
मूर्छां ग्लानिं मदं तन्द्रां मरणं वापि गच्छति ॥ २९ ॥
उष्णस्तीक्ष्णश्च सहसा निरूहस्तु विशां पते ॥
पक्वाशयमपक्वं च भुक्तं तस्यापकर्षति ॥ ३० ॥
अभुक्तवति तस्मात्तु स्निग्धपूर्वोऽनुवासनैः ॥
उपपन्नो निरूहस्तु यथोक्तं कार्यसिद्धये ॥ ३१ ॥
अपवादांश्च बुद्ध्वैव यथोक्तानवधारयेत् ॥
ऊहापोहो यथायुक्ति दृष्ट्वा कार्योंऽऽशुराणि तु ॥ ३२ ॥
६२६ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
सप्तरात्रं तुरङ्गेन्द्र कर्मोत्तममिति स्मृतम् ॥
द्वे मध्यमधमं त्वेकं निषेधेतत्संगकल्पयेत् ॥ ३३ ॥
उत्तमे वोत्तमं ज्ञेयं मध्यमे वाऽपि मध्यमम् ॥
अधमे त्वधमं नित्यं यथावर्णं यथाबलम् ॥ ३४ ॥
सप्ताहात्परतः स्नेहः सात्मीभावाच्च निर्गुणः ॥
तस्य विश्रम्य दातव्यं स्नेहं वा त्र्यहमेव वा ॥ ३५ ॥
कालस्तु दानाद्द्विगुणः परिहारो विधीयते ॥
बलवर्णसमाधौ च ततः सर्वं समाचरेत् ॥ ३६ ॥
व्यायामं भारहरणं गमनं सहसाऽध्वनि ॥
अतिस्यानं च शयनं युद्धव्यायाममेव च ॥ ३७ ॥
दुःस्थानमथ दुःशय्यां तथाऽत्यशनमेव च ॥
असात्म्यभोजनं वाऽपि तथा भोजनमेव च ॥ ३८ ॥
अत्युष्णमतिशीतं च तथा वर्षानिलानपि ॥
शब्दादीनि च सर्वाणि प्रतिकुलानि यानि च ॥ ३९ ॥
बस्तौ दत्ते न सेवेत परिहारे तथैव च ॥
बलवर्णसमग्रो हि सहते विषमान्यपि ॥ ३४० ॥
एतत्सर्वं समाख्यातं यथोद्दिष्टं विशां पते ॥
बस्तिकर्मविधानं हि कृत्स्नं तुभ्यमरिंदम ॥ ४१ ॥
तत्र श्लोकः—
इमं विधिं यो निखिलेन कुर्याद्विधातुमापत्सु च यो न सीदति ॥
स भूमिपालेन विधातुमौषधं गजेषु कार्यो भिषजां वरस्तदा ॥ ४२ ॥
इति ॥
इति श्रीपालकाप्यविरचिते हस्त्यायुर्वेदमहाप्रवचने श्रीपाठे चतुर्थ उत्तर-
स्थाने बस्तिदानकथनं नाम पञ्चमोऽध्यायः ॥ ५ ॥
————
अथ षष्ठोऽध्यायः ।
अथ भगवन्तं पालकाप्यमाश्रमस्थमङ्गराजोऽभिवन्द्याब्रवीत् 'भगवन्
कीदृशे भूमिभागे कस्यां दिशि हस्तिनः शाला कर्तव्या, किं प्रमाणम्, कीदृशी,
किं संस्थानम्, उपाभागो द्वारं वा कस्यां दिशि हस्तिशालायाः कथं वा कस्मि-
न्ऋतौ विधानमेतदिच्छामि वेदितुं तदशेषेण भगवन् व्याख्यातुमर्हसि' ॥
[ ...विंशोऽध्यायः ] ११७
ततः प्रोवाच भगवान्पालकाप्यः शृणु राजन्स्थानविधिमुपदिश्यमानमशे-
षनागानाम्। तत्र शिवे रम्ये बहुवृक्षे भूमिभागे नाविदूरं नगरस्य स्थानं ग्रामं
समाश्रितस्य(?) प्रागुत्तरस्यां दिशि चैत्यश्मशानदेवतायतनयक्षपिशाचराक्षस-
भूतायतनानि दूरतः परिहृत्य कृष्णश्वेतरक्तपीतपाण्डूनां भूमिवर्णानामन्यतमेन
वर्णेनोपपन्नां भूमिं ज्ञात्वा सुस्निग्धभूमिभागं ब(शा)लां वारणस्योपकल्पयेत् ।
हस्ततिष्याश्वयुग्विश्वाश्रवणानामन्यतमे नक्षत्रे, दश्म्येकादशीद्वितीयातृ-
तीयासप्तमीनामन्यतमे दिवसे, सावित्रबालाभिजितामैत्रराक्षसभूतानामन्यतमे
मुहूर्ते, शान्तिं कृत्वा ततोऽक्षतोदकपूर्णकलशैः सचन्दनैः प्रोक्ष्य भूमिभागं
हुन्त्वाऽग्निं ब्राह्मणांस्तर्पयित्वाऽन्नैश्च दक्षिणाभिश्च ततः पुण्याहघोषेण तां समां
शालां मापयेत् ।
त्रिविधस्तु विस्तारः शालानामैष्ठव्यो भवति यथाहस्तिप्रमाणेैन। तत्रोत्तमस्य
चतुर्विंशत्यरत्निविस्तारा, मध्यमस्य द्वाविंशत्यरत्निविस्तारा, जघन्यस्य विंशत्य-
रत्निविस्तारा। द्विगुणायतां प्राग्द्वारामुदग्द्वारां वा प्रकल्पयेच्छालाम् ।
तत्र षट्किष्कूत्सेधहस्तद्वयं किष्कूत्सेधं ज्येष्ठस्य, पञ्चकिष्कूत्सेधं मध्यमस्य,
द्वेचतुःकिष्कूत्सेधं जघन्यस्य । विस्तारार्धमात्रः प्राग्जीवः कर्तव्यः। ततः
शालशाकतिनसार्जुनानामन्यतमेन द्रव्येण सारवन्तमग्रन्थिकोटरममाद्भव(?)सुत-
क्षितमृजुं वृत्तं स्तम्भमनवबाधकं हस्तिनां सगदोरसान्तं चतुरो हस्तान्निपान-
येत्। सुपरिगृहीतं शङ्कुभिश्चतुरस्तात्पार्श्वतश्च। ऽऽदशहस्ताऽनुत्सेधमस्य कुर्यात्।
षट्पञ्चाशदङ्गुलपरिणाहमुत्तमस्य, चतुर्दशाङ्गुलपरिणाहं मध्यमस्य, द्वादशा-
ङ्गुलहीनं जघन्यस्य। तस्याऽऽसनस्योपरि हस्तमात्रे गोस्तनं कारयेत्। अथास्य
स्तम्भमूलेष्वश्लिष्टं पश्चात्प्रवणं सुश्लिष्टकंरकावेधनं (?) कुर्यात् । किंचिन्मध्ये
निम्नोन्नतसंपुरस्ताद्विहस्तमात्रं हस्त(स्ति)विश्रामणार्थं कपिशीर्षं कुर्यात् ।
अवकृष्टं च पृष्ठतोऽग्रयोमनं कर्तव्यम्। पदपर्यन्तश्च हस्तिशालायां सर्वतोर्धको-
ष्ठकः कार्यः सुलिसो मृत्तिकया। ज्याभाग(गं) पूर्वेणोत्तरेण वा कुर्याद्यथाहस्ति-
प्रमाणं किंचिन्मध्यभागे निम्नोन्नतं पार्श्वेषु मृदूनां सूक्ष्मेण च पांथुनाऽवकीर्ण-
म्। एवं द्वौ हस्तिनः स्थाने स्तम्भौ शड्भांगौ च विभज्य कारयेत् ।
ग्रीष्मकाले रात्रौ पुनरागतं कण्टकमुपनेये(नयेत्) प्रवाताथर्म्। पुवं (एवं)
दिवसक्रा(क्ला)न्ती वारणः सुखंमाप्नोति । तानेवोदितसूर्ये कटकान्बन्धयेत्प्र-
च्छादनार्थं(त) येन पार्श्वेनावतप्यागमः। शेषाणि पार्श्वानि विवृतानि कुर्या-
त्प्रवातार्थम्। मातरेवोपलेपयेच्छालाम्। निवृत्तस्य चास्य प्रवरमविष्टस्य मुहु-
७८
६१६ पालकाप्यमुनिविरचितो— [४ उत्तरस्थाने—
मुहुः शीतकेन वारणा सेचयेत् । स्थाने हस्तिकाने पांसुशामिकं कुर्यात् ।
नवान्कुम्भाञ्छीतवारिपूर्णान्सिकत्यायामुपरिस्था(ना)पयेद्वतीर्वां । यवसाध्यायो-
क्तानि षोडशानि यवसानि नित्यं संनिहितानि कर्तव्यानि पक्वानि च विवि-
धान्यानि कुंप(कुकू)लानि च । सायं चैनं निर्वाणात्मत्यायतं बहिः सुखं मुहूर्तं
स्थापयेत् । ग्रीष्मस्थानविधिरुक्तः ।
अथ वर्षास्वपि स्थानं कर्तव्यम् । यथा कश्चिदपि नोपक्लिश्यते तन् बहुविधे-
*स्त्यांभैर्जेयैर्वसैः सुविहितं कर्तव्यम् । प्रवृष्टे च देवे सर्वतः कटकैः संवृतं कुर्यात् ।
निवृत्ते पुनः कटकानपनयेत्प्रवातार्थम् । नित्यं संनिहितश्च धूमः कर्तव्यो दंश-
मशकादिग्रहणार्थम् ।
अथ हेमन्ते शीतवातनिग्रहार्थमथ(र्ध)कुड्योपगता दृढाः कटकाः कार्याः ।
निवातमेव रात्रौ कृत्वाऽतीतायां रजन्यामातपागममभिक्ष्यायापसारयेदातप-
प्रवेशार्थम् । ततो मन्दार्ककिरणैरेव तप्यमानः प्रह्लादमुपगच्छति शरीरे सुख-
माप्नोति द्विरदपतिः सुखं च सलिलमवगाहेत । विचित्रैर्यवसैर्विविधैरपि हित-
मस्य स्थानं कुर्यात्सुमिति ।
तत्र श्लोकौ—
वरं स्थानेषु विहितं यथोक्तं गुणसंपदा ।
कर्तव्यं वारणेन्द्राणां विधानं हितमिच्छता ॥ १ ॥
एवं सुविहिता यस्य राज्ञो राजन्गजोत्तमाः ॥
तस्य युद्धेषु विजयं प्रयच्छन्ति सुखानि च ॥ २ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने वृद्धोपदेश उत्तराभिधाने
परिवारचतुर्थस्थाने शालाविधानं नाम षष्ठोऽ-
ध्यायः (†प्रथमः) ॥ ६ ॥
अथ सप्तमोऽध्यायः ।
अथ भगवन्तं प्रभाभिर्भासयन्तं दिवसकरकरालवपुषमतितपसमनकऋषि-
गणमध्योपविष्टं पप्रच्छ रोमपादः पालकाप्यं 'कथमतिचपलभावानां क्षीणबल-
मांसशोणितानां यात्र(वृ)वशाचातिप्रमणमनपेक्षहरणीयमक्षमीप्वैदनीवपुर्वनी-
- 'बहुविधैर्भूजैयैर्वसैः' इति स्यात् । † 'प्रथमः' इति पाठस्तु पुस्तकद्वयेऽपि
न जाने कथं प्रसक्तः ।
येषु हस्तिपुङ्गवमर्माणाम(नां) च गात्रविक्षोभदन्तप्रतिमानमवक्षसमुत्थाना
नानाविधलिङ्गवेदना विकाराः संभवन्ति । तेषां नस्यविधानादृते न दोषोपशमन-
मस्ति नागानां तन्मे ऽखिलतो नस्यविधानं समुपदेष्टुमर्हसि भगवन्त्येषां व्याधीनां
प्रशमनकरं येषां च वृद्धिमपजनयति यथा येषां च नस्यकर्मानुविधीयते यथा
यच्च स्नेहप्रमाणं यथा चाति(च)पलानां पत्र विधिरनुष्ठीयते यथावस्थितस्यौर्ध्व-
करवारणस्य कर्म विधीयते तदखिलतो भगवन्व्याख्यातुमर्हसि' ।
अथ भगवानुवाच पालकाप्योऽङ्गराजाय रोमपादाय वस्तुजषस्व(?) यदीरितं
वाक्यमिष्टशब्दमव्यपाहतमपुनरुक्तं संस्कृतपदविचित्रार्थम्-नागानां नस्यकर्म-
विधानमिदं भिषजा नित्यमशास्त्रज्ञेनाकर्मकुशलेनादृष्टकर्मणाहष्टविधानेनोहापो-
हाभ्यां विमयुक्तेन न चावि
१२० पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने-
ग्रहोत्कर्षकमन्याग्रहशिरोरोगगात्ररोगाशिरोगानेवमादींश्च पूर्ववेहिकान्विका-
रानिति ।
अथ दुर्विरिक्तलक्षणमनुव्याख्यास्यामः । अतिनिर्धूतदोषस्य संनिरुद्धमार्ग-
प्रचारस्य कर्णशूलो भवत्यतिमात्रम् । तेन शूलेनाभिभूतस्य पर्यस्तु(स्तृ)ता भवति ।
विधुनोति शिरोमात्रम् । ततोऽस्य शिरो धुन्वतो मुखोपरि शोफो भवति ।
ततोऽस्य नेत्रे परिस्रावः प्रवर्तते तीक्ष्णम् । तस्य परिस्रावाभिभूतनयनस्य
दृष्टिराविला भवति ।
अथातिरिक्तलक्षणमनुव्याख्यास्यामः ।
यदा हि भिषजाऽत्यम्लकटुकोष्णातिलवणमतिरिक्तं शिरोविरेचनं मध्मापनं
वा दीयते तदा काष्ठाक्कालानां प्रमाणमतिसेवमानानां नागानामतिधूमपानोच्छ्वा-
सैर्जर्जरीकृतशरीराणां प्रलेपमिवोष्णेनाभिष्यन्दी भवति श्लेष्मा । ततो यथोक्ता
र्निवातलिङ्गा उत्पद्यन्ते तोदभेदपरिघर्षणादयः स्वल्पाङ्गविकारा भवन्ति ।
विशेषश्च शिरो विधुनोत्यभीक्ष्णम् । बृंहति, परिलुतकरश्च भवति, मुहुर्मुहुरति-
दुर्मना द्विरदः ।
अथ सम्यग्विरक्तलक्षणमनुव्याख्यास्यामः । प्रहृष्टकरचरणकर्णवालनयनोऽ-
यमुपसेवते स्वस्थः सर्वाङ्गकरसंचारशरीरो यथाकालं वातमूत्रपुरीषोत्सर्गं करोति
˚ बलवर्णप्रसादपरीतशरीरः सुमनाः शीलादिषु न विकारमापद्यते ॥
इति श्रीपालकाप्येन ऋषिणा दुर्विरिक्तातिरिक्तसम्यग्विरक्तलक्षणमुप-
दिष्टम् । नस्य विधिरन्यत्राभिहितोऽस्ति ।
अभग्नयोगमश्रान्तं वेदव्रतकृतश्रमम् ॥
त्रिदशैः पूजितं नित्यं पालकाप्यं महामुनिम् ॥ १ ॥
रोमपादो महाराजः संशयं परिपृच्छति ॥
तृणसात्म्यास्तृणाहारास्तृणप्राणाश्च वारणाः ॥ २ ॥
तेषां देशमृतुं कालं तृणानां च रसारसम् ॥
वृक्षमल्लांस्तृणांश्चात्मन्भगवन्प्रब्रवीहि मे ॥१ ३ ॥
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
निबोध मे महाराज प्रसन्नेनान्तरात्मना ॥ ४ ॥
पीतोषधिरसे काले आदित्यस्य गभस्तिभिः ॥
प्राणसंजननार्थं च ग्रीष्मे सर्वं प्रयोजयेत् ॥ ५ ॥
१ क. घ. महाप्राज्ञः ।
८. यवसाध्यायः ] हस्त्यायुर्वेदः । ४२१
वर्षासु स्थलजं देयं जलजं च विवर्जयेत् ॥
हेमन्ते जाङ्गलं भूयः स्थलजं च महीपते ॥ ६ ॥
वसन्ते तु तृणं दद्यात्कषायकटुकं रसे ॥
ग्रीष्मे तृणं शेषमार्द्रं दापयेच्च गुडोदकम् ॥ ७ ॥
कुल्माषमोदकं चैव सानुपानं प्रदापयेत् ॥
प्रावृट्काले महाराज दांपयेत्पिष्टमोदकम् ॥ ८ ॥
छवि रोमप्रसादार्थं पञ्चमेऽहनि दापयेत् ॥
अनूपजानि शरदि प्रदद्याच्छाद्वलानि वै ॥ ९ ॥
हेमन्ते स्थलजं दद्यात्प्रसक्तां चांचिरस्थिताम् ॥
प्रदद्याच्चवसान्येव बुद्धिमान्शास्त्रनिश्चयात् ॥ १० ॥
ऋतुष्वेवं महीपाल योगसात्म्यैरदन्तिनम् ॥
ओषध्यः फलपाकान्तास्तासां सर्वगतो रसः ॥ ११ ॥
भवत्यजातवीर्याणामम्लः श्लेष्मविवर्धनः ॥
अजातकाण्डं तरुणं पत्रलं शस्यमुच्यते ॥ १२ ॥
श्रावणे तु तृणं मासे भाद्रपदे जातपर्वकम् ॥
ईषन्मधुरमम्लं च जायते प्राणवर्धनम् ॥ १३ ॥
गर्भमाश्वयुजे मासे सगर्भं मधुरं भवेत् ॥
विमुक्तमम्लभावेन जायते मांसवर्धनम् ॥ १४ ॥
कार्तिके तु तृणं मासे जातवीर्यरसं भवेत् ॥
मांसशोणितमज्जानां बृंहणं प्राणवर्धनम् ॥ १५ ॥
मार्गशीर्षे तृणं राजन्व्यक्तं परिणतं दृढम् ॥
'शुक्रवृद्धिकरं राजञ्जायते प्राणवर्धनम् ॥ १६ ॥
परिशुष्कार्द्रपत्रं च ❊शीर्षं पुष्पं फलं तथा ॥
पौषमासे तृणं विद्यान्नागानां मेदसो हितम् ॥ १७ ॥
तुषारपाताभिहतं सूर्येणोपहतं भवेत् ॥
माघमासे तृणं प्रायः संशुष्कमुपजायते ॥ १८ ॥ .
तृणमल्परसं चापि न वा. प्राणविवर्धनम् ॥
क्वचिदार्द्रं क्वचिच्छुष्कं फाल्गुने मासि जायते ॥ १९ ॥
❊ 'शीर्षपुष्पफलं' इति भवेत् ॥
१ ख. घ. चारिर° ।
६२२ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
चण्डवातहतं शुष्कमल्पवीर्यं च संभवेत् ॥
चैत्रे मासे महाराज नागानां च न रोचते ॥ २० ॥
भूमौ निपतितं शुष्कं विच्छिन्नं विरसं तृणम् ॥
मांसे करीषप्रतिमं वैशाखे जायते ध्रुवम् ॥ २१ ॥
दावाग्निदग्धे तु तृणे प्रायशो वृक्षभोजनाः ॥
न तृप्तिमधिगच्छन्ति ज्येष्ठे मासे मतङ्गजाः ॥ २२ ॥
कोमलं पल्लवं वल्लीसंजातमनुवृष्टिभिः ॥
कन्दमूलानि चाऽऽषाढे भक्षयन्ति मतङ्गजाः ॥ २३ ॥
तृणावस्था महाराज विज्ञातव्या विचक्षणैः ॥
सुरभि कुरुविन्दं वा प्रमोदाः श्वेतपत्रिकाः ॥ २४ ॥
मृदुशुण्ठी करीरं च तथा वानरपुच्छिका ॥
सौवस्तिका विचितिका तथालोहितपत्रिका ॥ २५ ॥
रसादनी गिरितृणं तथा पर्णगुहा रसा ॥
एतानि मधुराण्याहुर्विपाके कटुकानि च ॥ २६ ॥
वातकोपीनि भूयिष्ठं श्लेष्मपित्तहराणि च ॥
गिरिकाशी वंशपत्री(?) नृत्यकन्दी तथैव च ॥ २७ ॥
(*इच्छानु गङ्गपत्री च तृणपल्लविकाऽपि च ॥ )
अर्जुनश्वोपलं चैव दण्डशूकममोदकाः ॥ २८ ॥
वृणपर्णामृतश्चैव तथा काकपरूषकाः ॥
एतानि मधुराण्याहुर्विपाके तु मनीषिणः ॥ २९ ॥
पित्तश्लेष्मानिलार्तेभ्यो वारणेभ्यः प्रदीयते ॥
आर्द्रपत्री मरुवकं जूर्णामर्थविभाञ्जिकम् ॥ ३० ॥
स्थलजं रक्तदण्डं च कुंपलांश्चेव पत्रिकाम् ॥
कङ्कुवैरकलोणीककरेणुसुपवीतृणम् ॥ ३१ ॥
˙ सुपर्णशारिवेल्लं च काशं कुशतुणं† तथा ॥
उलूखलं प्रतिरसं तथा पुच्छकमेव च ॥ ३२ ॥
- धनुश्चिह्नान्तरगतः पाठो नास्ति कपुस्तके । † कपुस्तके तु 'काशमथापि
वा' इत्युत्तरमेकपृष्ठं रिक्तमेव रक्षित्वा द्वितीयपृष्ठप्रारम्भे 'तृणं तथा । उलूखलं' इत्याद्ये-
व यथाश्रुतमुपलभ्यते ।
९ अरिष्टज्ञानाध्यायः ] हस्त्यायुर्वेदः । ६२५
पुरुषं वरसोमं च तथैव चारुपत्रिकाम् ॥
सुतं च बिल्वजाश्चैव चिकिणी रक्तकुण्डकम् ॥ ३३ ॥
रूक्षाणि मधुराण्याहुर्विपाके कटुकानि च ।
वातकोपीनि भूयिष्ठं श्लेष्मपित्तहराणि च ॥ ३४ ॥
एतज्जाङ्गलमुद्दिष्टं तृणजातमसंशयम् ॥
*आनूपजं प्रवक्ष्यामि रसदोषविपाकतः ॥ ३५ ॥
श्यामाकं जूर्णपादं च शिल्पकं कारभीतृणम् ॥
तिलपर्णी मञ्जरिका महामृदुलिका तथा ॥ ३६ ॥
महाश्यामाकमेवाथ तथैव शकटातृणम् ॥
प्रशान्तिका मञ्जरिका इक्षुपर्णी नलस्तथा ॥ ३७ ॥
श्लक्ष्णाकरपरा चैव तथा परुषपत्रिका ॥
पिठकारालगुडकं कलायं शतपत्रिका ॥ ३८ ॥
मृतवीरकपत्नी च तथा मेषविषाणिका ॥
गुच्छं तृणं श्लक्ष्णगुच्छं तथा चैवेक्षुवालिका ॥ ३९ ॥
कदलीमिक्षुरेरण्डनारिकेलं नलस्तथा ॥
खर्जूरीपिण्डकं चैवै⁺ .... .... .... .... ॥ ४० ॥
.... .... .... .... .... .... .... .... .... .... .... ॥
.... .... .... .... .... .... .... .... .... .... ॥
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
अरिष्टानि गजेन्द्राणां भगवन्वक्तुमर्हसि ॥ १ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
'अरिष्टानि महाराज शृणु वक्ष्यामि यानि ते ॥ २ ॥
येषामालोकनान्मृत्युं भिषग्जानाति दन्तिनाम् ॥
दृढं यस्य विपद्येत गजस्यौषधिभाजनम् ॥ ३ ॥
न तस्मै क्रियते कृत्यमिति वृद्धानुशासनम् ॥
क्रव्यादा यस्य विहगा व्याधितस्येह दन्तिनः ॥ ४ ॥
- 'अनूपजं' इति स्यात् । † इत उत्तरम् 'किंचित्रुटितमस्ति' इति खपुस्तके
लिखितमुपलभ्यते ।
१ क. ण्ड्लम् । २ क. ᵒकजम् ॥ ३५ ॥ ३ क. ᵒहामञ्जरिका । ४
ख. घ. मृ....वीरकᵒ । ५ ख. घ. ᵒरेरं च नाᵒ । ६ क. ᵒण्डकी चैᵒ । ७ क. ᵒव देया
वै दन्तिनां सदा ।
६२१ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
उपर्युपरि गच्छन्ति बहुशः स न जीवति ॥
यस्याग्रहस्ते श्वयथुः पुष्करं नोपसेवते ॥ ५ ॥
तालु मन्ये गळे चैव सोऽपि नागो न जीवति ॥
यस्यैकगात्रं हस्तश्च श्वयते म्लायते तथा ॥ ६ ॥
गच्छच्च रक्तं स्रोतोभ्यो न स जीवति तादृशः ॥
यो नागः संस्तहस्तः स्यादाङ्गुलिश्चापि वेपते ॥ ७ ॥
अधः कायस्य यश्चापि न स जीवति वारणः ॥
वारणो जलमास्येन हस्तेनापि न रोचति (ते) ॥ ८ ॥
पीत्वा वमति भूयश्च न स जीवति (*तादृशः ॥
गच्छतस्तिष्ठतश्चापि यस्य गच्छति शोणितम् ॥ ९ ॥
करकर्णास्यमेढ्रेभ्यो दशाहं स न जीवति ॥ )
यस्यैकगात्रं शूनस्य¹ खनत्येव नखैः क्षितिम् ॥ १० ॥
वेदनातंश्च भवति न स जीवति तादृशः ॥
सूयन्ते² यस्य गात्राणि वलनं नैव दृश्यते ॥ ११ ॥
शिरोग्रीवामणिर्यस्य जृम्भमाणो न जीवति ॥
ह्रस्वमूत्रपुरीषश्च स्वल्पाहारो न जीवति ॥ १२ ॥
स्पष्टानि यस्य रोमाणि निपतन्ति महीतले ॥
करकर्णास्यवालेभ्यो दशाहं सोऽपि जीवति ॥ १३ ॥
गजः कुणपगन्धिर्यो वाति वातानुसारतः ॥
परमोदनकाङ्क्षी च न स जीवति कुञ्जरः ॥ १४ ॥
विरिक्तो यदि वैद्येन स्वयं चाप्यतिसारतः ॥
पुनराध्मायते यस्तु यथा प्रेतस्तथैव च ॥ १५ ॥
श्यामोष्ठश्च विवर्णहक् श्यामताळुकमेहनः ॥
दुर्गन्धो विस्रगन्धिश्च त्रिरात्रं न स जीवति ॥ १६ ॥
गजो विशिष्टदृष्टिर्यो भवेत्संलुलितेक्षणः ॥
(#गजः संशुष्कवदनो न स जीवति तादृशः ॥ १७ ॥
ऊर्ध्वं तिर्यगधश्चैव भीतत्रान्तो मतङ्गजः ॥
विलोकयति सर्वत्र न स जीवति तादृशः ॥ १८ ॥
- धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके ॥ † धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके ।
१ ख. घ. शून्यस्य । २ ख. मूयते । घ. श्रूयते ।
! Wait, does 'व' have an 'i' matra?
Wait, if 'व' has 'i' matra, what is on 'ज'?
'ज' has an 'ī' matra!
Then 'व' has... wait, is that a repha?
No, it's an 'i' matra on 'व'?
Wait! "न स जीर्वात"? No.
Let's look at the dot: there is a dot above 'व'.
Wait, why is there a dot?
Could it be "न स जीवति"? Look closely, is it just a print smudge, or "न स जीविंत"?
Wait, look at "जी": 'ज' with 'ी'. Then 'व' has an 'i' matra?
Wait, why would 'व' have an 'i' matra?
Let's compare:
In L3: "जीवति" - ज has 'ी', व has nothing, त has 'ि'.
In L28:
ज has 'ी'.
Then 'व' has a mark on top, and an anusvara!
Wait, look at 'त': does 'त' have 'ि'?
YES, 'त' has 'ि'!
So what is on 'व'?
Wait, is it a smudge or a broken letter?
It looks like a stray mark / ink splatter, or maybe "जीर्वति"?
No, in Anandashrama texts, broken types often have stray
६२६ पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने-
कपोलपायुमन्यासु शोफः सोऽपि न जीवति ॥
समाभीको मेहनस्तु यस्य सू(श्व)यति लोहितः ॥ ३४ ॥
उरश्चांसौ च सहसा विगत्य प्रतिपद्यते ॥
संगदे च यदा प्राप्तः स शोफस्तस्य दन्तिनः ॥ ३५ ॥
तदा तेन सशोफेन मासादूर्ध्वं न जीवति ॥
क्षीणशोणितमांसस्य श्रूयेते यस्य हस्तिनः ॥ ३६ ॥
अष्ठीष्ठौ सहसा यस्य मासादूर्ध्वं न जीवति ॥
मन्ययोर्यस्य लक्षेत (लक्ष्येत) श्वयथुर्जैलवचञ्चलः ॥ ३७ ॥
दौर्मनस्यं च सहसा सोऽष्टरात्रं न जीवति ॥
शब्दं स्पर्शं न जानाति ताडितं नावबुध्यते ॥ ३८ ॥
न च वेदयते गन्धं न स जीवति तादृशः ॥
अकस्माद्यो भवेच्छूनः कृशोऽकस्माच्च जायते ॥ ३९ ॥
प्रकृतिश्चातिवर्तेत स सप्ताहं न जीवति ॥
एवमेतान्यरिष्टानि व्याख्यातानि यथायथम् ॥ ४० ॥
एषां तथाऽनेकपानां कालातिक्रान्तहेतुभिः ॥
अज्ञानाद्वा प्रमादाद्वा न कृता दन्तकल्पना ॥ ५ ॥
दार्ढ्यं महारिता चैव कल्पितेषु प्रशस्यते ।
न चाविशकलं चापि न च दन्तः प्रहीयते ॥ ६ ॥
आयसाभ्यां च कोशाभ्यां वज्रदन्तो दृढो भवेत् ॥
मुखं च गुप्तं भवति शोभते चापि वारणः ॥ ७ ॥
एतदर्थं गजेन्द्राणां क्रियते दन्तकल्पना ॥
बालवृद्धातुरक्षीणमत्तानां च न कल्पयेत् ॥ ८ ॥
वारणानां विषाणानि यदा सेना समुद्यता ॥
क्षीणे त्वमात्यव्यसनं व्याधिते व्याधितो भयम् ॥ ९ ॥
विवाले च कुमारस्य प्रभिन्नेऽग्निभयं भवेत् ॥
पुरोहितस्य व्यसनं वयोतीते मतङ्गजे ॥ १० ॥
तस्मान्न कारयेत्तेषां दन्तिनां दन्तकल्पनाम् ॥
सप्तमीं समतीतस्य न कुर्याद्दन्तकल्पनाम् ॥ ११ ॥
उद्योगे कल्पिते दन्ते सैन्योद्योगो न सिध्यति ॥
तथा ह्मायसबन्धेन न सिध्येद्दन्तकल्पना ॥ १२ ॥
(*तृणमाश्वयुजे मासे गर्जितं मधुरं हितम् ॥
विमुक्तमम्लभावाच्च जायते प्राणवर्धनम् ॥ १३ ॥
कार्तिके चातिफलदं जातवीर्यरसं तृणम् ॥
मांसशोणितमज्जानां वर्धनं प्राणवर्धनम् ) ॥ १४ ॥
स्निग्धकालश्च भवति यात्राकालस्तथैव च ॥
अत्यर्थं कल्पनायां तु मासद्वयमुदाहृतम् ॥ १५ ॥
अस्मिन्नेव भवेत्काले नवानां परिशोधनम् ॥
क्लृप्तमग्रविषाणी तु भूमौ निपतते यदि ॥ १६ ॥
व्याधिरुत्पद्यते चास्य (†तस्मिन्लुप्तात्तदर्शने ॥
एतदर्थं महीपाल कराभ्यां परिगृह्यते ॥ १७ ॥
शान्तनार्थं तु नागस्य) प्रतिमानं निवेशयेत् ॥
तस्य प्रकृतिपूजार्थं निक्षिपेदक्षतोदके ॥ १८ ॥
- अयं धनुश्चिह्नान्तर्गतः पाठो नैतदध्यायोपयुक्तः, किंतु रसवीर्यविपाकाध्यायान्त-
र्गतं भवेत् ॥ † धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके ॥