सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 640, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 640

८. यवसाध्यायः ] हस्त्यायुर्वेदः । ४२१
वर्षासु स्थलजं देयं जलजं च विवर्जयेत् ॥
हेमन्ते जाङ्गलं भूयः स्थलजं च महीपते ॥ ६ ॥
वसन्ते तु तृणं दद्यात्कषायकटुकं रसे ॥
ग्रीष्मे तृणं शेषमार्द्रं दापयेच्च गुडोदकम् ॥ ७ ॥
कुल्माषमोदकं चैव सानुपानं प्रदापयेत् ॥
प्रावृट्काले महाराज दांपयेत्पिष्टमोदकम् ॥ ८ ॥
छवि रोमप्रसादार्थं पञ्चमेऽहनि दापयेत् ॥
अनूपजानि शरदि प्रदद्याच्छाद्वलानि वै ॥ ९ ॥
हेमन्ते स्थलजं दद्यात्प्रसक्तां चांचिरस्थिताम् ॥
प्रदद्याच्चवसान्येव बुद्धिमान्शास्त्रनिश्चयात् ॥ १० ॥
ऋतुष्वेवं महीपाल योगसात्म्यैरदन्तिनम् ॥
ओषध्यः फलपाकान्तास्तासां सर्वगतो रसः ॥ ११ ॥
भवत्यजातवीर्याणामम्लः श्लेष्मविवर्धनः ॥
अजातकाण्डं तरुणं पत्रलं शस्यमुच्यते ॥ १२ ॥
श्रावणे तु तृणं मासे भाद्रपदे जातपर्वकम् ॥
ईषन्मधुरमम्लं च जायते प्राणवर्धनम् ॥ १३ ॥
गर्भमाश्वयुजे मासे सगर्भं मधुरं भवेत् ॥
विमुक्तमम्लभावेन जायते मांसवर्धनम् ॥ १४ ॥
कार्तिके तु तृणं मासे जातवीर्यरसं भवेत् ॥
मांसशोणितमज्जानां बृंहणं प्राणवर्धनम् ॥ १५ ॥
मार्गशीर्षे तृणं राजन्व्यक्तं परिणतं दृढम् ॥
'शुक्रवृद्धिकरं राजञ्जायते प्राणवर्धनम् ॥ १६ ॥
परिशुष्कार्द्रपत्रं च ❊शीर्षं पुष्पं फलं तथा ॥
पौषमासे तृणं विद्यान्नागानां मेदसो हितम् ॥ १७ ॥
तुषारपाताभिहतं सूर्येणोपहतं भवेत् ॥
माघमासे तृणं प्रायः संशुष्कमुपजायते ॥ १८ ॥ .
तृणमल्परसं चापि न वा. प्राणविवर्धनम् ॥
क्वचिदार्द्रं क्वचिच्छुष्कं फाल्गुने मासि जायते ॥ १९ ॥
❊ 'शीर्षपुष्पफलं' इति भवेत् ॥
१ ख. घ. चारिर° ।