हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 627, कुल 742 में से
संदर्भ में पढ़ेंशेषानुदाहरिष्यामि गुणानुत्तरबस्तिषु ॥
राजंस्तत्र विकारेषु येद्रुव्याधिषु वेप्यते ॥ १७ ॥
बस्तेरुत्तरसंज्ञस्य प्रयोगः सिद्धिकाङ्क्ष(ङ्क्षि)णः ॥
मूत्रकृच्छ्रप्रमेहेषु मूत्रवातेषु बाधिकम् ॥ १८ ॥
मूत्रसङ्गे जठरके यथान्यायं महीपते ॥
वातकुण्डलीकार्या च शोणितं यः प्रमेहति ॥ १९ ॥
एतेषु वै विकारेषु प्रशस्तो बस्तिरुत्तरः ॥
पुष्पनेत्रस्य बस्तेश्च प्रमाणं यद्वयस्य च ॥ २२० ॥
तदुत्तरं प्रवक्ष्यामि यथाशास्त्रं महीपते ॥
चतुर्दोषसमुत्थेषु संसृष्टेष्वितरेषु च ॥ २१ ॥
यथास्वमौषधैः सम्यक्स्नेहमात्रां तु साधयेत् ॥
यथोक्तं पूर्ववद्धाप्यं पयः पीतवतः शृतम् ॥ २२ ॥
बस्तेर्गमनमार्गार्थं यवागूं च घृतप्लुताम् ॥
मेद्रप्रमाणमादाय नेत्रमुत्तरबस्तिकम् ॥ २३ ॥
वृत्तं श्रो(स्रो)तःप्रमाणेण श्लक्ष्णं कुर्यात्समीहितम् ॥
अनुवासनमात्रायास्तस्यांशं षोडशं भवेत् ॥ २४ ॥
स्नेहप्रमाणमेतत्स्यात्कार्यमुत्तरबस्तिषु ॥
पुरस्तादुच्छ्रिते स्थाने विधिवद्यन्त्रिताय च ॥ २२५ ॥
ऋतुस्थिताय स्वस्थाप लघवे पूजिताय च ॥
अवालेप(?)भिषङ्गेत्रं प्रणयेत्सुसमाहितम् ॥ २६ ॥
प्रमाणमार्गमेशण्या श्रो(स्रो)तोमार्गमनुव्रजेत् ॥
नाड्यां समूत्रि(?) संत्राप्य ततस्तत्र शनैः शनैः ॥ २७ ॥
पीडयेच्च यथा प्रोक्तमास्थापनविधौ यथा ॥
निष्कृष्य च ततो नेत्रं नाडी(स्थान)मतः सृजेत् ॥ २८ ॥
आकाङ्क्षेत मुहूर्तं च बस्तेः प्रतिनिवर्त्तनम् ॥
. सर्वश्चास्य विधिः कार्यो यथोक्तः पूर्वमेव हि ॥ २९ ॥
आदाने विनिवृत्तौ च संस्कारक्रम एव च ॥
भानायाति यथाकालं वर्तिममुविधापयेत् ॥ २३० ॥
- खपुस्तकयोर्नोपलभ्यते ।
१ क. °कृच्छ्रे प्रमेहे च मूत्रवाते ततोऽधि° । २ क. °न्समाहित° ।