हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 630, कुल 742 में से
संदर्भ में पढ़ेंबहु भुक्तवते बस्तिर्यत्रैव परिवर्तते ॥
दूरं बस्तेः प्रविष्टस्य स्नेहमात्रासमेन तु ॥ २६० ॥
समा विद्या न सा जातु पुनः प्रतिनिवर्तते ॥
निदानेषु यथा प्रोक्तं दोषाणां व्यञ्जनं मया ॥ ६१ ॥
तेन तेनान्वितो बस्तिर्यथास्वं स्यात्सुलक्षणः ॥
संसृष्टेन पुरीषेण बस्तो कुक्षिविपद्यते ॥ ६२ ॥
निश्वासस्य च पूतित्वमाध्मानः शूलमेव च ॥
पक्वाशयगुरुत्वं च गात्रसादश्च जायते ॥ ६३ ॥
बस्तावेतत्पुरीषेण ग्रथिते भवति क्षणम् ॥
अन्नेन चेव संसृष्टे छर्दिर्मूर्च्छाऽङ्गोरवम् ॥ ६४ ॥
आमाशयविशुद्धिश्च हिक्का श्वासस्तथैव च ॥
शूलं मानावनिन्दितवं वायोरूर्द्धप्रवर्तनम् ॥ २६५ ॥
मुखप्रंस्ता(स्रा)व इत्येवं लिङ्गमन्नेन संहते ॥
अत्युन्नतशरीरस्य पीडितोऽत बहुद्रवः ॥ ६६ ॥
अल्पाहारस्य भिषजा काये पूर्वं विशोधिते ॥
भूयश्चोच्छ्वासवेगेन संपृक्तो बस्तिरुद्धतः ॥ ६७ ॥
सज्जमानोऽथवा नेत्रे मुखं वा प्रतिपद्यते ॥
'अभ्युन्नतशरीरस्य बस्तिर्वातसमीरितः ॥ ६८ ॥
बस्तिमेव प्रपद्येत ततः स्नेहः प्रवर्तते ॥
अल्पतैलविधानेन हृदयोपद्रवो भवेत् ॥ ६९ ॥
• अल्पत्वान्मादॆवाच्चैव न दोषहरणं भवेत् ॥
दोषः संमूर्च्छितो वाऽपि कोष्ठ एव विलीयते ॥ २७० ॥
अल्पो वा हृदये दोषान्होनमात्रैस्तु बस्तिभिः ॥
दाहं तृष्णां च मूर्छां च तीक्ष्णो बस्तिरुदीरयेत् ॥ ७१ ॥
कुर्याच्चाऽप्यतियोगेन जीवादानं न संशयः ॥
अजीर्णे बस्तिदानेन गुदे दोषः प्रवर्तते ॥ ७२ ॥
छर्दिर्मूर्च्छा च शूलं च गात्रसादश्च जायते ॥
। उच्छ्वासस्याविशुद्धिश्च जृम्भणं परिवर्तनम् ॥ ७३ ॥
प्रवारणं परिस्रावो निस्तम्भो रोमहर्षणम् ॥
अशुभानि भवन्त्येवमजीर्णे यः प्रयच्छति ॥ ७४ ॥