हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 634, कुल 742 में से
संदर्भ में पढ़ें५ बस्तिदानाध्यायः ] हस्तिआयुर्वेदः । ३१५
स्नेहप्रमाणमुद्दिष्टं यथावत्प्रविभागशः ॥
भूयोऽङ्गराजः पप्रच्छ कालकाप्यं महामुनिम् ॥ १८ ॥
अभुक्तं वा निरूहेत भुक्तं वा चानुवास्यते ॥
यदि तत्कस्य हेतोस्तु भगवन्प्रब्रवीतु मे ॥ १९ ॥
इत्युक्तस्तेन विनयात्तस्मै प्रोवाच तत्त्वतः ॥
अभुक्तवान्यदा नागः पूर्वमेवानुवास्यते ॥ ३२० ॥
तदाऽस्याऽऽमाशयं स्नेहः शून्यकोष्ठस्य गच्छति ॥
आमाशयस्थे स्नेहे तु पश्चाद्भोजयते द्विपम् ॥ ३२१ ॥
स्नेहेनाऽऽमाशयस्थे तु हृदयं तस्य पीड्यते ॥
संमूर्च्छितो विह्वलति तथाऽऽध्मानं नियच्छति ॥ २२ ॥
स भोजनविमिश्रस्तु नैवाधः प्रतिपीड्यते ॥
तेनाग्नेर्दुर्बलीभावः सहसैवास्य जायते ॥ २३ ॥
मन्दाग्निभावात्पित्तं च कफश्चास्य प्रकुप्यति ॥
तौ प्रदुष्टौ तु सहसा चाऽऽममार्गं निरुन्धतः ॥ २४ ॥
अन्तर्वाताभिभूतस्य स्नेहो नैव निवर्तते ॥
अनिवृत्तः स्थितः स्नेहो धमनीं तस्य दापयेत् ॥ ३२५ ॥
अधःश्रो(स्रो)तःसु रुद्धेषु वायुश्चोर्ध्वं प्रधावति ॥
चक्षुः श्रोत्रं शिरश्चास्य घ्राणं चैव रुणद्धि तु ॥ २६ ॥
तस्माद्भुक्तवते बस्तिः स्नेहस्तस्य विधीयते ॥
अभुक्तस्य निरूहः स्यादतिरूक्षस्तु भुक्तवान् ॥ २७ ॥
यदा तु भुक्तवान्नागो निरूहेत विजानता ॥
बहून्रोगांस्तदा साप्यस्तन्निमित्तं नियच्छति ॥ २८ ॥
अत्यर्थं पाकलं तृष्णामतीसारमरोचकम् ॥
मूर्छां ग्लानिं मदं तन्द्रां मरणं वापि गच्छति ॥ २९ ॥
उष्णस्तीक्ष्णश्च सहसा निरूहस्तु विशां पते ॥
पक्वाशयमपक्वं च भुक्तं तस्यापकर्षति ॥ ३० ॥
अभुक्तवति तस्मात्तु स्निग्धपूर्वोऽनुवासनैः ॥
उपपन्नो निरूहस्तु यथोक्तं कार्यसिद्धये ॥ ३१ ॥
अपवादांश्च बुद्ध्वैव यथोक्तानवधारयेत् ॥
ऊहापोहो यथायुक्ति दृष्ट्वा कार्योंऽऽशुराणि तु ॥ ३२ ॥