हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 641, कुल 742 में से
संदर्भ में पढ़ें६२२ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
चण्डवातहतं शुष्कमल्पवीर्यं च संभवेत् ॥
चैत्रे मासे महाराज नागानां च न रोचते ॥ २० ॥
भूमौ निपतितं शुष्कं विच्छिन्नं विरसं तृणम् ॥
मांसे करीषप्रतिमं वैशाखे जायते ध्रुवम् ॥ २१ ॥
दावाग्निदग्धे तु तृणे प्रायशो वृक्षभोजनाः ॥
न तृप्तिमधिगच्छन्ति ज्येष्ठे मासे मतङ्गजाः ॥ २२ ॥
कोमलं पल्लवं वल्लीसंजातमनुवृष्टिभिः ॥
कन्दमूलानि चाऽऽषाढे भक्षयन्ति मतङ्गजाः ॥ २३ ॥
तृणावस्था महाराज विज्ञातव्या विचक्षणैः ॥
सुरभि कुरुविन्दं वा प्रमोदाः श्वेतपत्रिकाः ॥ २४ ॥
मृदुशुण्ठी करीरं च तथा वानरपुच्छिका ॥
सौवस्तिका विचितिका तथालोहितपत्रिका ॥ २५ ॥
रसादनी गिरितृणं तथा पर्णगुहा रसा ॥
एतानि मधुराण्याहुर्विपाके कटुकानि च ॥ २६ ॥
वातकोपीनि भूयिष्ठं श्लेष्मपित्तहराणि च ॥
गिरिकाशी वंशपत्री(?) नृत्यकन्दी तथैव च ॥ २७ ॥
(*इच्छानु गङ्गपत्री च तृणपल्लविकाऽपि च ॥ )
अर्जुनश्वोपलं चैव दण्डशूकममोदकाः ॥ २८ ॥
वृणपर्णामृतश्चैव तथा काकपरूषकाः ॥
एतानि मधुराण्याहुर्विपाके तु मनीषिणः ॥ २९ ॥
पित्तश्लेष्मानिलार्तेभ्यो वारणेभ्यः प्रदीयते ॥
आर्द्रपत्री मरुवकं जूर्णामर्थविभाञ्जिकम् ॥ ३० ॥
स्थलजं रक्तदण्डं च कुंपलांश्चेव पत्रिकाम् ॥
कङ्कुवैरकलोणीककरेणुसुपवीतृणम् ॥ ३१ ॥
˙ सुपर्णशारिवेल्लं च काशं कुशतुणं† तथा ॥
उलूखलं प्रतिरसं तथा पुच्छकमेव च ॥ ३२ ॥
- धनुश्चिह्नान्तरगतः पाठो नास्ति कपुस्तके । † कपुस्तके तु 'काशमथापि
वा' इत्युत्तरमेकपृष्ठं रिक्तमेव रक्षित्वा द्वितीयपृष्ठप्रारम्भे 'तृणं तथा । उलूखलं' इत्याद्ये-
व यथाश्रुतमुपलभ्यते ।