सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 628, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 628

५ बस्तिदानाध्यायः ] हस्त्यायुर्वेदः। १७१
नाडीछिद्रप्रमाणेण दीर्घाष्टाष्टाङ्गुलं भिषक् ॥
बृहतीफलनिर्यासास्तथाऽपामार्गतण्डुलाः ॥ ३१ ॥
निर्गुण्ड्यारग्वधानां च तथा सहचरस्य च ॥
सुरसस्य च पत्राणि पिप्पल्या मरिचानि च ॥ ३२ ॥
आगारधूम इत्येषां वर्तिर्मूत्रप्रवर्तिनी ॥
ततस्तीक्ष्णतरां वर्तिमपानेऽन्यां प्रवेशयेत् ॥ ३३ ॥
लवणत्रयूषणमयीमपानप्रतिपूरणीम् ॥
द्वादशाङ्गुलमात्रां तु दीर्घत्वेन प्रवेशयेत् ॥ ३४ ॥
स्वभ्यक्तस्य च (*नागस्य) पूर्वमेव यथाविधि ॥
निःस्रुतः स्रोतसो वाऽपि प्रदेया नुं विशां पते ॥ २३५ ॥
उपास्य नु मुहूर्तं च तथैवान्यां प्रवेशयेत् ॥
आस्थापनीयवच्चापि सर्वेष्वेव विधिर्हितः ॥ ३६ ॥
बस्तिदानप्रमाणेन वक्ष्यन्ते परतस्ततः ॥
नेत्रबस्तिः कृताँस्वेवं चतुष्पादकृतास्तथा ॥ ३७ ॥
षड्विधा व्यापदस्तदासां योनिशुद्धिश्च वक्ष्यते ॥
अतिमात्रप्रवेशं च हीनमात्रं तथैव च ॥ ३८ ॥
तिर्यगूर्ध्वमधश्चापि नेत्रस्य क्षेपणे तथा ॥
पुनः पुनस्तथोऽत्यर्थं मृदु यच्चापि पीडितम् ॥ ३९ ॥
अतिमात्रं तथा हीनं व्यत्यासाद्भेषजस्य च ॥
कालातिनयनं चैव बन्धशैथिल्यमेव च ॥ ४० ॥
भिषग्दोषकृता ज्ञेयास्तासां दोषमतः शृणु ॥
तत्र नेत्रे विचालिते बलात्क्षिप्ते ततस्ततः ॥ ४१ ॥
प्रतिनिष्पीडिते नेत्रे क्षण्यन्ते वलयोऽपि वा ॥
असंमाप्तेऽथवा तिस्रो वलीनेत्रे च पीडिते ॥ ४२ ॥
प्रतिनिष्पीड्यते बस्तिर्वायुवेगेरितस्तथा ॥
गतेऽपि वा गुदमुखं पुरीषे प्रतिहन्यते ॥ ४३ ॥
दुर्बले बस्तिनेत्रे वा दुर्बले वाऽपि सिञ्चति ॥
अतिमात्रप्रवृत्तेषु वेदना स्यात्परा गुदे ॥ ४४ ॥

  • ख. घ. पुस्तिकयोर्नोपलभ्यते ।
    १ क. तु । २ ख. घ. सर्वस्वेव । ३ क. ॰धिर्मतः । ४ ख. घ. ॰तास्त्वेवं ।
    ५ क. ॰थाऽभ्यर्थं । ६ क. क्षणाम्ते ।