हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 635, कुल 742 में से
संदर्भ में पढ़ें६२६ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
सप्तरात्रं तुरङ्गेन्द्र कर्मोत्तममिति स्मृतम् ॥
द्वे मध्यमधमं त्वेकं निषेधेतत्संगकल्पयेत् ॥ ३३ ॥
उत्तमे वोत्तमं ज्ञेयं मध्यमे वाऽपि मध्यमम् ॥
अधमे त्वधमं नित्यं यथावर्णं यथाबलम् ॥ ३४ ॥
सप्ताहात्परतः स्नेहः सात्मीभावाच्च निर्गुणः ॥
तस्य विश्रम्य दातव्यं स्नेहं वा त्र्यहमेव वा ॥ ३५ ॥
कालस्तु दानाद्द्विगुणः परिहारो विधीयते ॥
बलवर्णसमाधौ च ततः सर्वं समाचरेत् ॥ ३६ ॥
व्यायामं भारहरणं गमनं सहसाऽध्वनि ॥
अतिस्यानं च शयनं युद्धव्यायाममेव च ॥ ३७ ॥
दुःस्थानमथ दुःशय्यां तथाऽत्यशनमेव च ॥
असात्म्यभोजनं वाऽपि तथा भोजनमेव च ॥ ३८ ॥
अत्युष्णमतिशीतं च तथा वर्षानिलानपि ॥
शब्दादीनि च सर्वाणि प्रतिकुलानि यानि च ॥ ३९ ॥
बस्तौ दत्ते न सेवेत परिहारे तथैव च ॥
बलवर्णसमग्रो हि सहते विषमान्यपि ॥ ३४० ॥
एतत्सर्वं समाख्यातं यथोद्दिष्टं विशां पते ॥
बस्तिकर्मविधानं हि कृत्स्नं तुभ्यमरिंदम ॥ ४१ ॥
तत्र श्लोकः—
इमं विधिं यो निखिलेन कुर्याद्विधातुमापत्सु च यो न सीदति ॥
स भूमिपालेन विधातुमौषधं गजेषु कार्यो भिषजां वरस्तदा ॥ ४२ ॥
इति ॥
इति श्रीपालकाप्यविरचिते हस्त्यायुर्वेदमहाप्रवचने श्रीपाठे चतुर्थ उत्तर-
स्थाने बस्तिदानकथनं नाम पञ्चमोऽध्यायः ॥ ५ ॥
————
अथ षष्ठोऽध्यायः ।
अथ भगवन्तं पालकाप्यमाश्रमस्थमङ्गराजोऽभिवन्द्याब्रवीत् 'भगवन्
कीदृशे भूमिभागे कस्यां दिशि हस्तिनः शाला कर्तव्या, किं प्रमाणम्, कीदृशी,
किं संस्थानम्, उपाभागो द्वारं वा कस्यां दिशि हस्तिशालायाः कथं वा कस्मि-
न्ऋतौ विधानमेतदिच्छामि वेदितुं तदशेषेण भगवन् व्याख्यातुमर्हसि' ॥