हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 642, कुल 742 में से
संदर्भ में पढ़ें९ अरिष्टज्ञानाध्यायः ] हस्त्यायुर्वेदः । ६२५
पुरुषं वरसोमं च तथैव चारुपत्रिकाम् ॥
सुतं च बिल्वजाश्चैव चिकिणी रक्तकुण्डकम् ॥ ३३ ॥
रूक्षाणि मधुराण्याहुर्विपाके कटुकानि च ।
वातकोपीनि भूयिष्ठं श्लेष्मपित्तहराणि च ॥ ३४ ॥
एतज्जाङ्गलमुद्दिष्टं तृणजातमसंशयम् ॥
*आनूपजं प्रवक्ष्यामि रसदोषविपाकतः ॥ ३५ ॥
श्यामाकं जूर्णपादं च शिल्पकं कारभीतृणम् ॥
तिलपर्णी मञ्जरिका महामृदुलिका तथा ॥ ३६ ॥
महाश्यामाकमेवाथ तथैव शकटातृणम् ॥
प्रशान्तिका मञ्जरिका इक्षुपर्णी नलस्तथा ॥ ३७ ॥
श्लक्ष्णाकरपरा चैव तथा परुषपत्रिका ॥
पिठकारालगुडकं कलायं शतपत्रिका ॥ ३८ ॥
मृतवीरकपत्नी च तथा मेषविषाणिका ॥
गुच्छं तृणं श्लक्ष्णगुच्छं तथा चैवेक्षुवालिका ॥ ३९ ॥
कदलीमिक्षुरेरण्डनारिकेलं नलस्तथा ॥
खर्जूरीपिण्डकं चैवै⁺ .... .... .... .... ॥ ४० ॥
.... .... .... .... .... .... .... .... .... .... .... ॥
.... .... .... .... .... .... .... .... .... .... ॥
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
अरिष्टानि गजेन्द्राणां भगवन्वक्तुमर्हसि ॥ १ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
'अरिष्टानि महाराज शृणु वक्ष्यामि यानि ते ॥ २ ॥
येषामालोकनान्मृत्युं भिषग्जानाति दन्तिनाम् ॥
दृढं यस्य विपद्येत गजस्यौषधिभाजनम् ॥ ३ ॥
न तस्मै क्रियते कृत्यमिति वृद्धानुशासनम् ॥
क्रव्यादा यस्य विहगा व्याधितस्येह दन्तिनः ॥ ४ ॥
- 'अनूपजं' इति स्यात् । † इत उत्तरम् 'किंचित्रुटितमस्ति' इति खपुस्तके
लिखितमुपलभ्यते ।
१ क. ण्ड्लम् । २ क. ᵒकजम् ॥ ३५ ॥ ३ क. ᵒहामञ्जरिका । ४
ख. घ. मृ....वीरकᵒ । ५ ख. घ. ᵒरेरं च नाᵒ । ६ क. ᵒण्डकी चैᵒ । ७ क. ᵒव देया
वै दन्तिनां सदा ।