सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 645, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 645

६२६ पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने-
कपोलपायुमन्यासु शोफः सोऽपि न जीवति ॥
समाभीको मेहनस्तु यस्य सू(श्व)यति लोहितः ॥ ३४ ॥
उरश्चांसौ च सहसा विगत्य प्रतिपद्यते ॥
संगदे च यदा प्राप्तः स शोफस्तस्य दन्तिनः ॥ ३५ ॥
तदा तेन सशोफेन मासादूर्ध्वं न जीवति ॥
क्षीणशोणितमांसस्य श्रूयेते यस्य हस्तिनः ॥ ३६ ॥
अष्ठीष्ठौ सहसा यस्य मासादूर्ध्वं न जीवति ॥
मन्ययोर्यस्य लक्षेत (लक्ष्येत) श्वयथुर्जैलवचञ्चलः ॥ ३७ ॥
दौर्मनस्यं च सहसा सोऽष्टरात्रं न जीवति ॥
शब्दं स्पर्शं न जानाति ताडितं नावबुध्यते ॥ ३८ ॥
न च वेदयते गन्धं न स जीवति तादृशः ॥
अकस्माद्यो भवेच्छूनः कृशोऽकस्माच्च जायते ॥ ३९ ॥
प्रकृतिश्चातिवर्तेत स सप्ताहं न जीवति ॥
एवमेतान्यरिष्टानि व्याख्यातानि यथायथम् ॥ ४० ॥