सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 629, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 629

क्षणान्ते वलयस्तस्मात्तस्मान्नातिप्रवेशयेत् ॥
सवलीके कृते बस्तौ पीडिते वा पुनः पुनः ॥ ४५ ॥
कोष्ठे वायुप्रवेशः स्यात्तस्मान्नैवं समाचरेत् ॥
अभ्यर्धे पीडिते बस्तौ नेत्रे वाऽपि प्रवेशिते ॥ ४६ ॥
पक्वाशयातिसारी स्याद्वेदनांर्तो महीपते ॥
ईषत्तु पीडिते बस्तौ विषमं च प्रवेशिते ॥ ४७ ॥
नेप्सितं देशमाप्नोति स्याच्च बस्तिर्न कारकः ॥
औषधानां विपर्यासे यथास्वं दोषवर्धनम् ॥ ४८ ॥
तस्य वा प्रशमो व्याधेरन्येषां जन्मभावतु(तः) ॥
हीनमात्रे तु भेषज्ये कार्यस्यासाधनं भवेत् ॥ ४९ ॥
अतिमात्रे तु मात्रं तु दोषस्य हरणं भवेत् ॥
तेन दोर्बल्यमाप्नोति संज्ञानाशोऽपि वा भवेत् ॥ २५० ॥ .
उपद्रवाणां चोत्पत्तिर्मरणं वा ततो भवेत् ॥
कालातिनयतोऽप्येवं नियतं दोषवर्धनम् ॥ ५१ ॥
अन्येषां वा विकाराणामुत्पत्तिस्तदुपेक्षणात् ॥
अग्रेऽतिकर्कशं स्थूलमसमं चैव यद्भवेत् ॥ ५२ ॥
तन्नेत्रं वेदनां घोरां हस्तिनामुपपादयेत् ॥
अधुना स्रोतसा तस्य चिरात्स्नेहः प्रसिच्यते ॥ ५३ ॥
अर्धदत्ते कथंचिच्च सहसाऽस्य निवर्तयेत् ॥
तत्र वेगविघातात्तु जायन्ते गुदमेढ्रयोः ॥ ५४ ॥
वस्तौ चोपद्रवाः कष्टास्तस्मादेतन्न शस्यते ॥
भिषगातुरयोश्चैव तथैव परिकर्मिणः ॥ २५५ ॥
यथोक्तमेतद्विज्ञेयमसिद्धौ लक्षणं नृप ॥
अन्या(या) व्यापदा सिद्धौ सिद्धयश्च ततः परम् ॥ ५६ ॥
प्रवक्ष्यामि पृथक्त्वेन या युक्ताः पार्थिव यतः ॥
तत्र वातेन पित्तेन श्लेष्मणा वाऽपि भूयसा ॥ ५७ ॥
पुरीषेणाथवाऽत्यल्पो बस्तिः स्नेहः कथंचन ॥
संपृक्तो गत एकत्वं न चेदतिनिवर्तते ॥ ५८ ॥
मृदुश्चाल्पश्च विच्छिन्नस्नेहो नैव निवर्तते ॥
असंशुद्धशरीरस्य मार्गदोषेण संवृतो ॥ ५९ ॥