हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
कफान्तं वातपित्तान्तं कुक्षिशैथिल्यलाघवम् ॥
गात्रापरमृदुत्वं च व्याधेरपि विनिग्रहः ॥ ४२ ॥
लक्षणं तु निरूढस्य मूत्रशुद्धिकृदेव च ॥
लक्षणं दुर्निरूढस्य आनाहो रक्तमूत्रता ॥ ४३ ॥
विद्वातनिग्रहं शूलमाध्मानं व्याधिवर्धनम् ॥
निष्पुरीषस्य नागस्य निरूढस्यातियोगतः ॥ ४४ ॥
वायुर्गात्राणि कुक्षिं च शूलेनऽऽवेष्टयेद्भृशम् ॥
तस्मान्निरूहयेत्सम्यक्सिद्धिकामो विचक्षणः ॥ १४५ ॥
अपकर्षति वासेभ्यः क्षारः सर्वं यथामलम् ॥
अपकर्षति दोषान्वै आस्थापनमनेकधा ॥ ४६ ॥
बल्यं वृष्यं बृंहणीयमिन्द्रियाणां प्रसादनम् ॥
जीवकृज्जीवनं मेध्यं गजस्याऽऽस्थापनं मतम् ॥ ४७ ॥
क्षुत्पीडितो मदाविष्टो बालो वृद्धो गदातुरः ॥
स्नातः पीतोदकश्चैव भुक्तवांस्तृषितश्च यः ॥ ४८ ॥
वितृष्णो जीर्णभक्तश्च दुर्मना यश्च वारणः ॥
भीरुश्चैवाप्यनास्थाप्यः श्वासी यश्च मतङ्गजः ॥ ४९ ॥
एतेषामनुपूर्वेण शास्त्रमार्गानुसारिणा ॥
चिकित्सकेन क्षीरेण देयाः स्युः क्षीरबस्तयः ॥ १५० ॥
मात्रा बस्तेर्विधिरतः क्षीरबस्तिश्च वक्ष्यते ॥
अशनादुत्तरं पीतो यथा स्नेहोऽभियोगतः ॥ ५१ ॥
पूर्वकापस्य विहितः स्नेहनः शास्त्रदर्शनेः ॥
स्नेहनः सर्वतस्तद्वद्विज्ञेयो दोषनाशनः ॥ ५२ ॥
अनन्ययोगजानां तु मात्रा बस्तिः प्रशस्यते ॥
क्षीणधातुकृशा नागा-वृद्धाः क्षीणबलाश्च ये ॥ ५३ ॥
पश्चात्सूपहताश्चापि मदक्षीणास्तथैव च ॥
एषामग्नेर्विवृद्ध्यर्थं ग्रीष्मे प्रावृषि वा हितः ॥ ५४ ॥
द्देयः प्रायोगिको बस्तिर्विशेषेण तु दन्तिनः ॥
पूर्वाह्णे स्नातपीताय भुक्तायं च विधानतः ॥ १५५ ॥
रसायनं परं नित्यं पूर्वोक्तविधियोजितम् ॥
भतः परं प्रवक्ष्यामि क्षीरबस्तिविधिं शुभम् ॥ ५६ ॥
विधिवत्कथितं क्षीरमुभयोः पञ्चमूलयोः ॥
कल्कैर्युक्तं तिलोशीरपद्मकोत्पलचन्दनैः ॥ ५७ ॥
रास्नामपौण्डरीकाभ्यां मुस्तकेन तथैव च ॥
मृद्वीकाशर्करामांसीमञ्जिष्ठामधुसंयुतैः ॥ ५८ ॥
मधुरैर्जीवनीयैश्च देयो बस्तिः समन्वितः ॥
विधिवत्पृथिवीपाल दन्तिनां बलवर्धनः ॥ ५९ ॥
पित्तरक्तविकारेषु ग्रीष्मे शरदि वा हितः ॥
पाकलेषु बहिर्दाहे दाहे चान्तर्गते तथा ॥ १६० ॥
मूर्च्छाभ्रमे तथा श्वासे क्षीणे घर्मभ्रमेषु च ॥
बस्तिर्हितोऽयं राजेन्द्र तथा वाऽप्यभितोऽपि च ॥ ६१ ॥
निरूढानां च नागानामारण्यानां तथैव च ॥
गजास्त्वभ्यन्तरस्वेदाः शीतसात्म्या विशेषतः ॥ ६२ ॥
(❊तस्मात्प्रशस्यते त्वेष बस्तिरूष्मानिलापहः ॥
पयसः प्रथमो बस्तिर्हितस्तु रसरक्तयोः ॥ ६३ ॥
मांसास्थिमेदसां वृद्धौ द्वितीयः क्षारयोजितः ॥
आप्यायते शुक्रमज्जास्तृतीयः पयसेव तु ॥ ६४ ॥
निहन्ति दोषानुत्कृष्टान्सुमनो जठरस्य तु ॥
स्नेहबस्तिर्यदा शीघ्रं दत्तमात्रो निवर्तते ॥ १६५ ॥
न हीनगुणमाप्नोति स्नेहस्याऽऽशु निवर्तनात् ॥
तमेव दापयेत्स्नेहं पुनरेव भिषग्वरः ॥ ६६ ॥
महाबलास्तु मातङ्गा वातप्रायास्तु दन्तिनः ॥
प्रवहन्ति तदा स्नेहं शीघ्रं तेन निवर्तते ॥ ६७ ॥
तस्मान्न दोषो दत्ते तु द्वितीये नात्र संशयः ॥
इत्येष सर्वबस्तीनां विधिरुक्तो विशेषतः ॥ ६८ ॥
विपरीते तु जायन्ते व्यापदो विविधात्मिकाः ॥
नेत्रबस्तिकृताश्चैव भूयश्च भिषजा कृताः ॥ ६९ ॥
इमं तत्र प्रवक्ष्यामि निरूहप्रणधौ विधिम् ॥
यथास्वं सर्वदोषाणां कषायाणि घृतं वसा ॥ १७० ॥
चतुष्पदानां मूत्राणि तैलं दधि सुरा मधु ॥
बदराम्लं च दुग्धं च धान्योदकतुषोदकम् ॥ ७१ ॥
❊ धनुश्चिह्नान्तरगतः पाठो नास्ति कपुस्तके ।
फलानि लवणं चैव निरूहद्रव्यमिष्यते ॥
सुरयोष्णाम्बुना मूत्रैस्तैलेन लवणेन च ॥ ७२ ॥
स्ववर्गैयैस्तु संयुक्तैः श्लेष्माण्युष्णा हिता गजे ॥
धान्याम्लफलनिष्क्वाथैः सकुलत्थयवैः शुभैः ) ॥ ७३ ॥
स्ववर्गैश्चानिले पथ्याः स्निग्धा लवणमूर्च्छिताः ॥
पयोरसघृतैर्युक्ताः स्ववर्गैयैश्च शीतलाः ॥ ७४ ॥
कषायमधुरा पित्ते बस्तयः स्युः सशर्कराः ॥
अपामार्गस्य च फलं तथा जीमूतकस्य च ॥ १७५ ॥
मदनस्य च पिष्टं स्यादावापं सर्वबस्तिषु ॥
सर्षपाः सरला रास्ना कुष्ठं तेजोवती तथा ॥ ७६ ॥
पिप्पल्यः शतपुष्पा च मृद्वीका मधुकं मधु ॥
भद्रदारु तथैला च सैन्धवं चेति बस्तिषु ॥ ७७ ॥
निरूहस्य भवेदेयः स्वावापः पटुसैन्धवः ॥
श्लक्ष्णकल्कैः समायुक्ताः सुपक्वथितभेषजाः ॥ ७८ ॥
सुस्निग्धलवणा व्यक्ताः खजावमथिता हिताः ॥
कषायभागाश्चत्वारः कुर्यात्स्नेहस्य पञ्चमम् ॥ ७९ ॥
अष्टमं भेषजानां तु लवणस्य तु षोडश ॥
पूर्वमेवं तु ये प्रोक्तास्तत्रौषधगणा मया ॥ १८० ॥
यथालाभं यथावच्च तांस्तानादाय शास्त्रवित् ॥
कषायाणि निरूहाणां कल्कचूर्णानि यानि च ॥ ८१ ॥
अनुवासे च तत्सर्वं वर्गं समैधु योजयेत् ॥
˙ श्यामा कुटन्नटं चैव त्रिफला चित्रकं तथा ॥ ८२ ॥
तथा दारुहरिद्रा च फलानि मदनस्य च ॥
जीमूतकानि दन्ती च द्रवन्ती सर्पिषा तथा ॥ ८३ ॥
शृङ्गवेरं वचा चैव तगरं देवदारु च ॥
पिप्पली भद्रमुस्ता च द्विगुणं चैव सैन्धवम् ॥ ८४ ॥
बलां चतुर्गुणां कृत्वा श्लक्ष्णकल्कं प्रपेषयेत् ॥
मूत्रैर्गजखरोष्ट्राणां दध्यम्लैः सुरयाऽपि च ॥ १८५ ॥
१ धान्याम्लबदरौ द्वेदतिकतैलैः समन्वितैः ॥
कटुको ऽष्कलवणः श्लेष्मघ्नो बस्तिरिष्यते ॥ ८६ ॥
पादटिप्पणी:
१ क. ॰यथास्वं च । २ क. ॰मनुयो॰ । ३ क. ॰काऽथ द॰ ।
६०४ पालकाप्यमुनिविरचितो— [४ उत्तरस्थाने—
स्थूलाश्च कुष्ठिनो ये च मेदुराः पाण्डुरोगिणः ॥
कर्षणो दोषहरणो देयस्तेषां यथा हितः ॥ ८७ ॥
दन्ती द्रवन्ती श्यामाकं कुटजं कृमिवेधनम् ॥
अपामार्गं हस्तिकर्णं जीमूतं सकुटन्नटम् ॥ ८८ ॥
शतपुष्पा च कुष्ठं च तगरं चतुरङ्गुलम् ॥
सप्तलां च गवाक्षीं च शङ्खिनी केषुकं तथा ॥ ८९ ॥
अजशृङ्गयजगन्धे च कपिलां तुलसीं तथा ॥
प्रकीर्यामुदकीर्यां च गवाक्षीं च समाहरेत् ॥ १९० ॥
वातिकेनेव विधिना बस्तिर्दत्तो न शीतलः ॥
संशोधनीयः श्रेष्ठः स्याद्वन्विते कुपितेषु च ॥ ९१ ॥
क्षीरवृक्षा च रोधं च पिण्डीरुककसेरुके ॥
अभीरुपत्रिका श्यामा धवं खदिरमेव च ॥ ९२ ॥
तुरन्ती चाग्निमन्थं च नीपं कट्फलवेतसम् ॥
षढी सुवर्णक्षीरी च वज्रजम्बू सघातुकी ॥ ९३ ॥
तिलांश्च पद्मकोशीरमित्येतानि समाहरेत् ॥
पित्तकेनेव विधिना बस्तिर्दत्तस्तु शीतलः ॥ ९४ ॥
भवेच्छु(त्सु)तपुरीषस्य वृद्धसंग्रहणो हितः ॥
पयस्यां च मृनालं च शृङ्गाटककसेरुकम् ॥ ९५ ॥
बलामतिबलां चैव स्वयंगुप्ताफलानि च ॥
विदारी मधुकं चैव मृद्वीका क्षीरमोरटम् ॥ ९६ ॥
यवगोधूमचूर्णानि तथा मधुकराणि च ॥
अविच्छन्नामतिच्छन्नामित्येतानि समाहरेत् ॥ ९७ ॥
पित्तकेनेव विधिना वाजीकरणमुच्यते ॥
अश्वगन्धाविदारीभ्यां युक्त एष पुनः पुनः ॥ ९८ ॥
बृंहणीयो भवेद्बस्तिरभ्यस्तस्तत्त्वबुद्धिना ॥
·संशोधनीयो निष्काथः सिद्धार्थकवचान्वितः ॥ ९९ ॥
उष्णः सतैलतीक्ष्णः स्यादानाहे बस्तिरुत्तमः ॥
सहोदुम्बरबीजैस्तु पंचकोलसमीकृतः ॥ १०० ॥
कोविदारस्य निम्बस्य नीपस्य च तथा पुनः ॥
कोष्ठकस्याथ निष्काथो मूत्रयुक्तो न शीतलः ॥ २०१ ॥
१ क. °स्तिर्देयस्तु ।
९ बस्तिदानाध्यायः ] हस्त्यायुर्वेदः [ १०७
सतैललवणो बस्तिः शीघ्र इत्यभिनिश्चितः ॥
वृत्तो नातिद्रवः क्वाथो वृक्षा ये पिच्छिलाः स्मृताः ॥ २ ॥
शमीवृक्षस्य शाल्मल्या धन्वनंस्य तथैव च ॥
वृत्तो नातिद्रवः क्वाथो वृक्षा ये पिच्छिलाः स्मृताः ॥ ३ ॥
श्लेष्मातकया परूषस्या ऐरावत्यास्तथैव च ॥
गाङ्गेरुकाया इत्येष बस्तिस्तेषां तु पिच्छलः ॥ ४ ॥
शशेणोरभ्रबस्तानां वराहस्याथ पक्षिणाम् ॥
रुधिरैर्महिषाणां च रक्तबस्तिर्विधीयते ॥ २०५ ॥
यश्च शोणितजो बस्तिः पिच्छिलो यश्च कीर्तितः ॥
एतौ संग्रहणीयत्वात्पूजितावतिसारिणाम् ॥ ६ ॥
सर्वांश्चैवौषधिगणानतीसारनिवर्तकान् ॥
एवं यथास्वं युञ्जीत यथायोगं समीक्षितुम् ॥ ७ ॥
पूर्वमेव यथोद्दिष्टा येऽस्माभिः स्नेहबस्तयः ॥
तेषां वक्ष्यामि सर्वेषां पुष्कलं साधने विधिम् ॥ ८ ॥
पादभागौषधिगणैः परिपक्वं समं द्रवम् ॥
चत्वारोऽशा द्रवस्यास्य स्नेहांशः पञ्चमो भवेत् ॥ ९ ॥
बिल्वमात्रस्य कल्कस्य यत्र नास्ति महागणः ॥
महतीत्यौषधिगणैस्ततोऽर्धः संमितो भवेत् ॥ २१० ॥
तृतीयभागमर्धं वा समीक्ष्य गुरुलाघवम् ॥
एतत्सर्वं समानीय कृतं निर्गुणितं शुचिम् ॥ ११ ॥
मज्जाभिश्च वसाभिश्च क्षारैश्च सह साधितम् ॥
• जाङ्गलैश्च रसैर्युक्तं जलैश्चापि विशेषतः ॥ १२ ॥
उदश्विदधिमण्डैश्च क्वाथैश्चापि पृथग्विधौ ॥
पचेन्मृद्वग्निना किंचिद्वस्त्यर्थं मधुसंयुतम् ॥ १३ ॥
खरपाकं भवेत्क्वाथमभ्यङ्गार्थं महीपते ॥
पानार्थं वापि कर्तव्यं मृदुरेव तु जानता ॥ १४ ॥
सम्यक्सिद्धं तु कर्तव्यं बस्तिकर्म निरुहयोः ॥
मुखतो नश्य(स्य)तश्चैव पायुतो मेढ्रतस्तथा ॥ २१५ ॥
! कटतो मूक्षणार्थं च प्रदानं षड्विधं भवेत् ॥
तत्र बस्तिगुणास्तावत्पुरस्तात्परिकीर्तिताः ॥ १६ ॥
• १ क. गणस्यास्य । २ ख. घ. ॰वेत्कार्यम॰।
शेषानुदाहरिष्यामि गुणानुत्तरबस्तिषु ॥
राजंस्तत्र विकारेषु येद्रुव्याधिषु वेप्यते ॥ १७ ॥
बस्तेरुत्तरसंज्ञस्य प्रयोगः सिद्धिकाङ्क्ष(ङ्क्षि)णः ॥
मूत्रकृच्छ्रप्रमेहेषु मूत्रवातेषु बाधिकम् ॥ १८ ॥
मूत्रसङ्गे जठरके यथान्यायं महीपते ॥
वातकुण्डलीकार्या च शोणितं यः प्रमेहति ॥ १९ ॥
एतेषु वै विकारेषु प्रशस्तो बस्तिरुत्तरः ॥
पुष्पनेत्रस्य बस्तेश्च प्रमाणं यद्वयस्य च ॥ २२० ॥
तदुत्तरं प्रवक्ष्यामि यथाशास्त्रं महीपते ॥
चतुर्दोषसमुत्थेषु संसृष्टेष्वितरेषु च ॥ २१ ॥
यथास्वमौषधैः सम्यक्स्नेहमात्रां तु साधयेत् ॥
यथोक्तं पूर्ववद्धाप्यं पयः पीतवतः शृतम् ॥ २२ ॥
बस्तेर्गमनमार्गार्थं यवागूं च घृतप्लुताम् ॥
मेद्रप्रमाणमादाय नेत्रमुत्तरबस्तिकम् ॥ २३ ॥
वृत्तं श्रो(स्रो)तःप्रमाणेण श्लक्ष्णं कुर्यात्समीहितम् ॥
अनुवासनमात्रायास्तस्यांशं षोडशं भवेत् ॥ २४ ॥
स्नेहप्रमाणमेतत्स्यात्कार्यमुत्तरबस्तिषु ॥
पुरस्तादुच्छ्रिते स्थाने विधिवद्यन्त्रिताय च ॥ २२५ ॥
ऋतुस्थिताय स्वस्थाप लघवे पूजिताय च ॥
अवालेप(?)भिषङ्गेत्रं प्रणयेत्सुसमाहितम् ॥ २६ ॥
प्रमाणमार्गमेशण्या श्रो(स्रो)तोमार्गमनुव्रजेत् ॥
नाड्यां समूत्रि(?) संत्राप्य ततस्तत्र शनैः शनैः ॥ २७ ॥
पीडयेच्च यथा प्रोक्तमास्थापनविधौ यथा ॥
निष्कृष्य च ततो नेत्रं नाडी(स्थान)मतः सृजेत् ॥ २८ ॥
आकाङ्क्षेत मुहूर्तं च बस्तेः प्रतिनिवर्त्तनम् ॥
. सर्वश्चास्य विधिः कार्यो यथोक्तः पूर्वमेव हि ॥ २९ ॥
आदाने विनिवृत्तौ च संस्कारक्रम एव च ॥
भानायाति यथाकालं वर्तिममुविधापयेत् ॥ २३० ॥
- खपुस्तकयोर्नोपलभ्यते ।
१ क. °कृच्छ्रे प्रमेहे च मूत्रवाते ततोऽधि° । २ क. °न्समाहित° ।
५ बस्तिदानाध्यायः ] हस्त्यायुर्वेदः। १७१
नाडीछिद्रप्रमाणेण दीर्घाष्टाष्टाङ्गुलं भिषक् ॥
बृहतीफलनिर्यासास्तथाऽपामार्गतण्डुलाः ॥ ३१ ॥
निर्गुण्ड्यारग्वधानां च तथा सहचरस्य च ॥
सुरसस्य च पत्राणि पिप्पल्या मरिचानि च ॥ ३२ ॥
आगारधूम इत्येषां वर्तिर्मूत्रप्रवर्तिनी ॥
ततस्तीक्ष्णतरां वर्तिमपानेऽन्यां प्रवेशयेत् ॥ ३३ ॥
लवणत्रयूषणमयीमपानप्रतिपूरणीम् ॥
द्वादशाङ्गुलमात्रां तु दीर्घत्वेन प्रवेशयेत् ॥ ३४ ॥
स्वभ्यक्तस्य च (*नागस्य) पूर्वमेव यथाविधि ॥
निःस्रुतः स्रोतसो वाऽपि प्रदेया नुं विशां पते ॥ २३५ ॥
उपास्य नु मुहूर्तं च तथैवान्यां प्रवेशयेत् ॥
आस्थापनीयवच्चापि सर्वेष्वेव विधिर्हितः ॥ ३६ ॥
बस्तिदानप्रमाणेन वक्ष्यन्ते परतस्ततः ॥
नेत्रबस्तिः कृताँस्वेवं चतुष्पादकृतास्तथा ॥ ३७ ॥
षड्विधा व्यापदस्तदासां योनिशुद्धिश्च वक्ष्यते ॥
अतिमात्रप्रवेशं च हीनमात्रं तथैव च ॥ ३८ ॥
तिर्यगूर्ध्वमधश्चापि नेत्रस्य क्षेपणे तथा ॥
पुनः पुनस्तथोऽत्यर्थं मृदु यच्चापि पीडितम् ॥ ३९ ॥
अतिमात्रं तथा हीनं व्यत्यासाद्भेषजस्य च ॥
कालातिनयनं चैव बन्धशैथिल्यमेव च ॥ ४० ॥
भिषग्दोषकृता ज्ञेयास्तासां दोषमतः शृणु ॥
तत्र नेत्रे विचालिते बलात्क्षिप्ते ततस्ततः ॥ ४१ ॥
प्रतिनिष्पीडिते नेत्रे क्षण्यन्ते वलयोऽपि वा ॥
असंमाप्तेऽथवा तिस्रो वलीनेत्रे च पीडिते ॥ ४२ ॥
प्रतिनिष्पीड्यते बस्तिर्वायुवेगेरितस्तथा ॥
गतेऽपि वा गुदमुखं पुरीषे प्रतिहन्यते ॥ ४३ ॥
दुर्बले बस्तिनेत्रे वा दुर्बले वाऽपि सिञ्चति ॥
अतिमात्रप्रवृत्तेषु वेदना स्यात्परा गुदे ॥ ४४ ॥
- ख. घ. पुस्तिकयोर्नोपलभ्यते ।
१ क. तु । २ ख. घ. सर्वस्वेव । ३ क. ॰धिर्मतः । ४ ख. घ. ॰तास्त्वेवं ।
५ क. ॰थाऽभ्यर्थं । ६ क. क्षणाम्ते ।
क्षणान्ते वलयस्तस्मात्तस्मान्नातिप्रवेशयेत् ॥
सवलीके कृते बस्तौ पीडिते वा पुनः पुनः ॥ ४५ ॥
कोष्ठे वायुप्रवेशः स्यात्तस्मान्नैवं समाचरेत् ॥
अभ्यर्धे पीडिते बस्तौ नेत्रे वाऽपि प्रवेशिते ॥ ४६ ॥
पक्वाशयातिसारी स्याद्वेदनांर्तो महीपते ॥
ईषत्तु पीडिते बस्तौ विषमं च प्रवेशिते ॥ ४७ ॥
नेप्सितं देशमाप्नोति स्याच्च बस्तिर्न कारकः ॥
औषधानां विपर्यासे यथास्वं दोषवर्धनम् ॥ ४८ ॥
तस्य वा प्रशमो व्याधेरन्येषां जन्मभावतु(तः) ॥
हीनमात्रे तु भेषज्ये कार्यस्यासाधनं भवेत् ॥ ४९ ॥
अतिमात्रे तु मात्रं तु दोषस्य हरणं भवेत् ॥
तेन दोर्बल्यमाप्नोति संज्ञानाशोऽपि वा भवेत् ॥ २५० ॥ .
उपद्रवाणां चोत्पत्तिर्मरणं वा ततो भवेत् ॥
कालातिनयतोऽप्येवं नियतं दोषवर्धनम् ॥ ५१ ॥
अन्येषां वा विकाराणामुत्पत्तिस्तदुपेक्षणात् ॥
अग्रेऽतिकर्कशं स्थूलमसमं चैव यद्भवेत् ॥ ५२ ॥
तन्नेत्रं वेदनां घोरां हस्तिनामुपपादयेत् ॥
अधुना स्रोतसा तस्य चिरात्स्नेहः प्रसिच्यते ॥ ५३ ॥
अर्धदत्ते कथंचिच्च सहसाऽस्य निवर्तयेत् ॥
तत्र वेगविघातात्तु जायन्ते गुदमेढ्रयोः ॥ ५४ ॥
वस्तौ चोपद्रवाः कष्टास्तस्मादेतन्न शस्यते ॥
भिषगातुरयोश्चैव तथैव परिकर्मिणः ॥ २५५ ॥
यथोक्तमेतद्विज्ञेयमसिद्धौ लक्षणं नृप ॥
अन्या(या) व्यापदा सिद्धौ सिद्धयश्च ततः परम् ॥ ५६ ॥
प्रवक्ष्यामि पृथक्त्वेन या युक्ताः पार्थिव यतः ॥
तत्र वातेन पित्तेन श्लेष्मणा वाऽपि भूयसा ॥ ५७ ॥
पुरीषेणाथवाऽत्यल्पो बस्तिः स्नेहः कथंचन ॥
संपृक्तो गत एकत्वं न चेदतिनिवर्तते ॥ ५८ ॥
मृदुश्चाल्पश्च विच्छिन्नस्नेहो नैव निवर्तते ॥
असंशुद्धशरीरस्य मार्गदोषेण संवृतो ॥ ५९ ॥
बहु भुक्तवते बस्तिर्यत्रैव परिवर्तते ॥
दूरं बस्तेः प्रविष्टस्य स्नेहमात्रासमेन तु ॥ २६० ॥
समा विद्या न सा जातु पुनः प्रतिनिवर्तते ॥
निदानेषु यथा प्रोक्तं दोषाणां व्यञ्जनं मया ॥ ६१ ॥
तेन तेनान्वितो बस्तिर्यथास्वं स्यात्सुलक्षणः ॥
संसृष्टेन पुरीषेण बस्तो कुक्षिविपद्यते ॥ ६२ ॥
निश्वासस्य च पूतित्वमाध्मानः शूलमेव च ॥
पक्वाशयगुरुत्वं च गात्रसादश्च जायते ॥ ६३ ॥
बस्तावेतत्पुरीषेण ग्रथिते भवति क्षणम् ॥
अन्नेन चेव संसृष्टे छर्दिर्मूर्च्छाऽङ्गोरवम् ॥ ६४ ॥
आमाशयविशुद्धिश्च हिक्का श्वासस्तथैव च ॥
शूलं मानावनिन्दितवं वायोरूर्द्धप्रवर्तनम् ॥ २६५ ॥
मुखप्रंस्ता(स्रा)व इत्येवं लिङ्गमन्नेन संहते ॥
अत्युन्नतशरीरस्य पीडितोऽत बहुद्रवः ॥ ६६ ॥
अल्पाहारस्य भिषजा काये पूर्वं विशोधिते ॥
भूयश्चोच्छ्वासवेगेन संपृक्तो बस्तिरुद्धतः ॥ ६७ ॥
सज्जमानोऽथवा नेत्रे मुखं वा प्रतिपद्यते ॥
'अभ्युन्नतशरीरस्य बस्तिर्वातसमीरितः ॥ ६८ ॥
बस्तिमेव प्रपद्येत ततः स्नेहः प्रवर्तते ॥
अल्पतैलविधानेन हृदयोपद्रवो भवेत् ॥ ६९ ॥
• अल्पत्वान्मादॆवाच्चैव न दोषहरणं भवेत् ॥
दोषः संमूर्च्छितो वाऽपि कोष्ठ एव विलीयते ॥ २७० ॥
अल्पो वा हृदये दोषान्होनमात्रैस्तु बस्तिभिः ॥
दाहं तृष्णां च मूर्छां च तीक्ष्णो बस्तिरुदीरयेत् ॥ ७१ ॥
कुर्याच्चाऽप्यतियोगेन जीवादानं न संशयः ॥
अजीर्णे बस्तिदानेन गुदे दोषः प्रवर्तते ॥ ७२ ॥
छर्दिर्मूर्च्छा च शूलं च गात्रसादश्च जायते ॥
। उच्छ्वासस्याविशुद्धिश्च जृम्भणं परिवर्तनम् ॥ ७३ ॥
प्रवारणं परिस्रावो निस्तम्भो रोमहर्षणम् ॥
अशुभानि भवन्त्येवमजीर्णे यः प्रयच्छति ॥ ७४ ॥
॥Wait, let's look at line 18:उत्क्षिप्य रोपयेद्देशं यत्र स्यादुन्मुखो गजः ॥Wait! Is itयत्र स्यादुन्मुखो गजः? Let's read letter by letter: य त्र(orप त्र?) Wait! Look at यत्र: Wait, the first letter of that word: is it पorय? Wait! यinयथा(line 15) has a notch. In line 18:प त्र? Wait, look at पत्र: Wait, look at रोपयेद्देशं पत्र स्यादुन्मुखोorयत्र स्यादुन्मुखोorयत्र पादुरुन्मुखो? WAIT! Look at the words after रोपयेद्देशं: Letter 1: पLetter 2:त्र? Letter 3:स्? No! Look at: प त्र स् पा दु न्मु खो??? Wait! Let's read carefully:प(orय?) Wait, look at: प त्र- no, look at the space:रोपयेद्देशं(space)प त्र(space)स्पा
५ बस्तिज्ञानाध्यायः ] हस्त्यायुर्वेदः । ६१३
प्रणिदध्याच्च विधिवत्समं त्रिहृतया सह ॥
तैलं विपकमित्येष बस्तिस्तूर्णं प्रवेशितः ॥ ८९ ॥
तस्मिन्दत्तो निरूहस्तु बस्तिस्तेन प्रवर्तते ॥
पुनरेवानुवास्याथ यथोक्तेन क्रमेण तु ॥ २९० ॥
त्रिफलारम्यकं स्नेहः शालिमूलं तथैव च ॥
चिरबिल्वश्च विज्ञेयः श्यामामूलं च सर्वतः ॥ ९१ ॥
हृद्योपद्रवे दद्यात्संशोधनमिदं भिषक् ॥
( *ततो बस्तिविधानं तु कार्यमाहुस्ततः परम् ॥ ९२ ॥
विसृष्टलवणस्तीक्ष्णः किंचिदुष्णतरस्ततः ॥
चतुर्थोऽंशः प्रदातव्यस्तृतीयो वाऽर्धमेव च ॥ ९३ ॥
जीवादानेऽतियोगे च प्रदेया रक्तबस्तयः ॥
पिच्छिलाश्चापि देयाः स्युरेवमेवातिसारिणे ॥ ९४ ॥
भक्ते ग्रासावरोधे च च्छर्द्युद्वारे तथैव च ॥
शूलेन वातिको बस्तिराध्माने च विधीयते ॥ २९५ ॥
बस्तेश्च प्रणिधानं स्यात्ततस्तु परिकीर्त्यते ॥
पिच्छिला स्नेहबस्तिश्च पैत्तिकश्च विधीयते ॥ ९६ ॥
शिरसः पूरणे देयाः शोधनीयाश्च बस्तयः ॥
मूर्च्छायामुपचारस्तु शीत एव न संशयः ॥ ९७ ॥
वाजीकरणसंयुक्ताः शीता धातुक्षये हिताः ॥
कृशस्य बृंहणीयाश्च स्थूलस्य तु विशोधनाः ॥ ९८ ॥
प्रत्यनीकेन कर्तव्यं तस्य बस्तेश्चिकित्सितम् ॥
सर्वत्रैवं विजानीयादित्युद्देशः प्रकीर्तितः ॥ ९९ ॥
स्नेहनः सर्वपूर्वः स्याद्वलिनोऽथ विरेचनः ॥
आस्थापनं स्नेहबस्तिरित्येष क्रम इष्यते ॥ ३०० ॥
कृत्स्नेष्वर्थेष्वभिप्रायमतिदीप्ततराग्निता ॥
इन्द्रियाणां प्रसादश्च सर्वत्र रतिरेव च ॥ ३०१ ॥
सुखस्वप्नावबोधश्च सुखोत्थानस्तथैव च ॥
रोचते चास्य यत्किंचिल्लघुमावहते च यत् ॥ २ ॥
*धनुश्चिह्नान्तर्गतः पाठो नास्ति कपुस्तके ।
१ क. हृद्योपद्रवं विद्यात्संशोधनविधानतः । २ घ. ॰स्य तस्य चिकि॰ ।
ण्येव? Actually, let's look at श्चा+ज्या? No, wait! Look at: स्युर्वैद्यthenश्चा- wait, could it beस्युर्वैद्यश्च त्रीण्येव? Look: स्युर्वैद्यश्च->श्च+ा? श्चा Thenत्री? The character has a loop at top left, then horizontal bar... wait, that's ज! Wait, could it be स्युर्वैद्यश्चाज्याण्येव दापयेत्`? Yes, "अज्यानि" / "आज्यानि" (ghee)?
"अधमायाऽऽढकानि स्युर्वैद्यश्चाज्याण्येव दापयेत्" -> 3 Adhakas of ajya (ghee)?
Wait! "अधमायाऽऽढकानि स्युः" - How many adhakas?
Wait! Line 28:
"उत्तमस्य तु नागस्य भवेत्पञ्चाढकं मतम् ॥ १६ ॥" -> 5 Adhakas.
Line 29:
"मध्यमाय भवेद्देयं नित्यं तु चतुराढकम् ॥" -> 4 Adhakas.
Line 30:
"अधमायाऽऽढकानि स्युर्वैद्यस्त्रीण
५ बस्तिदानाध्यायः ] हस्तिआयुर्वेदः । ३१५
स्नेहप्रमाणमुद्दिष्टं यथावत्प्रविभागशः ॥
भूयोऽङ्गराजः पप्रच्छ कालकाप्यं महामुनिम् ॥ १८ ॥
अभुक्तं वा निरूहेत भुक्तं वा चानुवास्यते ॥
यदि तत्कस्य हेतोस्तु भगवन्प्रब्रवीतु मे ॥ १९ ॥
इत्युक्तस्तेन विनयात्तस्मै प्रोवाच तत्त्वतः ॥
अभुक्तवान्यदा नागः पूर्वमेवानुवास्यते ॥ ३२० ॥
तदाऽस्याऽऽमाशयं स्नेहः शून्यकोष्ठस्य गच्छति ॥
आमाशयस्थे स्नेहे तु पश्चाद्भोजयते द्विपम् ॥ ३२१ ॥
स्नेहेनाऽऽमाशयस्थे तु हृदयं तस्य पीड्यते ॥
संमूर्च्छितो विह्वलति तथाऽऽध्मानं नियच्छति ॥ २२ ॥
स भोजनविमिश्रस्तु नैवाधः प्रतिपीड्यते ॥
तेनाग्नेर्दुर्बलीभावः सहसैवास्य जायते ॥ २३ ॥
मन्दाग्निभावात्पित्तं च कफश्चास्य प्रकुप्यति ॥
तौ प्रदुष्टौ तु सहसा चाऽऽममार्गं निरुन्धतः ॥ २४ ॥
अन्तर्वाताभिभूतस्य स्नेहो नैव निवर्तते ॥
अनिवृत्तः स्थितः स्नेहो धमनीं तस्य दापयेत् ॥ ३२५ ॥
अधःश्रो(स्रो)तःसु रुद्धेषु वायुश्चोर्ध्वं प्रधावति ॥
चक्षुः श्रोत्रं शिरश्चास्य घ्राणं चैव रुणद्धि तु ॥ २६ ॥
तस्माद्भुक्तवते बस्तिः स्नेहस्तस्य विधीयते ॥
अभुक्तस्य निरूहः स्यादतिरूक्षस्तु भुक्तवान् ॥ २७ ॥
यदा तु भुक्तवान्नागो निरूहेत विजानता ॥
बहून्रोगांस्तदा साप्यस्तन्निमित्तं नियच्छति ॥ २८ ॥
अत्यर्थं पाकलं तृष्णामतीसारमरोचकम् ॥
मूर्छां ग्लानिं मदं तन्द्रां मरणं वापि गच्छति ॥ २९ ॥
उष्णस्तीक्ष्णश्च सहसा निरूहस्तु विशां पते ॥
पक्वाशयमपक्वं च भुक्तं तस्यापकर्षति ॥ ३० ॥
अभुक्तवति तस्मात्तु स्निग्धपूर्वोऽनुवासनैः ॥
उपपन्नो निरूहस्तु यथोक्तं कार्यसिद्धये ॥ ३१ ॥
अपवादांश्च बुद्ध्वैव यथोक्तानवधारयेत् ॥
ऊहापोहो यथायुक्ति दृष्ट्वा कार्योंऽऽशुराणि तु ॥ ३२ ॥
६२६ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
सप्तरात्रं तुरङ्गेन्द्र कर्मोत्तममिति स्मृतम् ॥
द्वे मध्यमधमं त्वेकं निषेधेतत्संगकल्पयेत् ॥ ३३ ॥
उत्तमे वोत्तमं ज्ञेयं मध्यमे वाऽपि मध्यमम् ॥
अधमे त्वधमं नित्यं यथावर्णं यथाबलम् ॥ ३४ ॥
सप्ताहात्परतः स्नेहः सात्मीभावाच्च निर्गुणः ॥
तस्य विश्रम्य दातव्यं स्नेहं वा त्र्यहमेव वा ॥ ३५ ॥
कालस्तु दानाद्द्विगुणः परिहारो विधीयते ॥
बलवर्णसमाधौ च ततः सर्वं समाचरेत् ॥ ३६ ॥
व्यायामं भारहरणं गमनं सहसाऽध्वनि ॥
अतिस्यानं च शयनं युद्धव्यायाममेव च ॥ ३७ ॥
दुःस्थानमथ दुःशय्यां तथाऽत्यशनमेव च ॥
असात्म्यभोजनं वाऽपि तथा भोजनमेव च ॥ ३८ ॥
अत्युष्णमतिशीतं च तथा वर्षानिलानपि ॥
शब्दादीनि च सर्वाणि प्रतिकुलानि यानि च ॥ ३९ ॥
बस्तौ दत्ते न सेवेत परिहारे तथैव च ॥
बलवर्णसमग्रो हि सहते विषमान्यपि ॥ ३४० ॥
एतत्सर्वं समाख्यातं यथोद्दिष्टं विशां पते ॥
बस्तिकर्मविधानं हि कृत्स्नं तुभ्यमरिंदम ॥ ४१ ॥
तत्र श्लोकः—
इमं विधिं यो निखिलेन कुर्याद्विधातुमापत्सु च यो न सीदति ॥
स भूमिपालेन विधातुमौषधं गजेषु कार्यो भिषजां वरस्तदा ॥ ४२ ॥
इति ॥
इति श्रीपालकाप्यविरचिते हस्त्यायुर्वेदमहाप्रवचने श्रीपाठे चतुर्थ उत्तर-
स्थाने बस्तिदानकथनं नाम पञ्चमोऽध्यायः ॥ ५ ॥
————
अथ षष्ठोऽध्यायः ।
अथ भगवन्तं पालकाप्यमाश्रमस्थमङ्गराजोऽभिवन्द्याब्रवीत् 'भगवन्
कीदृशे भूमिभागे कस्यां दिशि हस्तिनः शाला कर्तव्या, किं प्रमाणम्, कीदृशी,
किं संस्थानम्, उपाभागो द्वारं वा कस्यां दिशि हस्तिशालायाः कथं वा कस्मि-
न्ऋतौ विधानमेतदिच्छामि वेदितुं तदशेषेण भगवन् व्याख्यातुमर्हसि' ॥
[ ...विंशोऽध्यायः ] ११७
ततः प्रोवाच भगवान्पालकाप्यः शृणु राजन्स्थानविधिमुपदिश्यमानमशे-
षनागानाम्। तत्र शिवे रम्ये बहुवृक्षे भूमिभागे नाविदूरं नगरस्य स्थानं ग्रामं
समाश्रितस्य(?) प्रागुत्तरस्यां दिशि चैत्यश्मशानदेवतायतनयक्षपिशाचराक्षस-
भूतायतनानि दूरतः परिहृत्य कृष्णश्वेतरक्तपीतपाण्डूनां भूमिवर्णानामन्यतमेन
वर्णेनोपपन्नां भूमिं ज्ञात्वा सुस्निग्धभूमिभागं ब(शा)लां वारणस्योपकल्पयेत् ।
हस्ततिष्याश्वयुग्विश्वाश्रवणानामन्यतमे नक्षत्रे, दश्म्येकादशीद्वितीयातृ-
तीयासप्तमीनामन्यतमे दिवसे, सावित्रबालाभिजितामैत्रराक्षसभूतानामन्यतमे
मुहूर्ते, शान्तिं कृत्वा ततोऽक्षतोदकपूर्णकलशैः सचन्दनैः प्रोक्ष्य भूमिभागं
हुन्त्वाऽग्निं ब्राह्मणांस्तर्पयित्वाऽन्नैश्च दक्षिणाभिश्च ततः पुण्याहघोषेण तां समां
शालां मापयेत् ।
त्रिविधस्तु विस्तारः शालानामैष्ठव्यो भवति यथाहस्तिप्रमाणेैन। तत्रोत्तमस्य
चतुर्विंशत्यरत्निविस्तारा, मध्यमस्य द्वाविंशत्यरत्निविस्तारा, जघन्यस्य विंशत्य-
रत्निविस्तारा। द्विगुणायतां प्राग्द्वारामुदग्द्वारां वा प्रकल्पयेच्छालाम् ।
तत्र षट्किष्कूत्सेधहस्तद्वयं किष्कूत्सेधं ज्येष्ठस्य, पञ्चकिष्कूत्सेधं मध्यमस्य,
द्वेचतुःकिष्कूत्सेधं जघन्यस्य । विस्तारार्धमात्रः प्राग्जीवः कर्तव्यः। ततः
शालशाकतिनसार्जुनानामन्यतमेन द्रव्येण सारवन्तमग्रन्थिकोटरममाद्भव(?)सुत-
क्षितमृजुं वृत्तं स्तम्भमनवबाधकं हस्तिनां सगदोरसान्तं चतुरो हस्तान्निपान-
येत्। सुपरिगृहीतं शङ्कुभिश्चतुरस्तात्पार्श्वतश्च। ऽऽदशहस्ताऽनुत्सेधमस्य कुर्यात्।
षट्पञ्चाशदङ्गुलपरिणाहमुत्तमस्य, चतुर्दशाङ्गुलपरिणाहं मध्यमस्य, द्वादशा-
ङ्गुलहीनं जघन्यस्य। तस्याऽऽसनस्योपरि हस्तमात्रे गोस्तनं कारयेत्। अथास्य
स्तम्भमूलेष्वश्लिष्टं पश्चात्प्रवणं सुश्लिष्टकंरकावेधनं (?) कुर्यात् । किंचिन्मध्ये
निम्नोन्नतसंपुरस्ताद्विहस्तमात्रं हस्त(स्ति)विश्रामणार्थं कपिशीर्षं कुर्यात् ।
अवकृष्टं च पृष्ठतोऽग्रयोमनं कर्तव्यम्। पदपर्यन्तश्च हस्तिशालायां सर्वतोर्धको-
ष्ठकः कार्यः सुलिसो मृत्तिकया। ज्याभाग(गं) पूर्वेणोत्तरेण वा कुर्याद्यथाहस्ति-
प्रमाणं किंचिन्मध्यभागे निम्नोन्नतं पार्श्वेषु मृदूनां सूक्ष्मेण च पांथुनाऽवकीर्ण-
म्। एवं द्वौ हस्तिनः स्थाने स्तम्भौ शड्भांगौ च विभज्य कारयेत् ।
ग्रीष्मकाले रात्रौ पुनरागतं कण्टकमुपनेये(नयेत्) प्रवाताथर्म्। पुवं (एवं)
दिवसक्रा(क्ला)न्ती वारणः सुखंमाप्नोति । तानेवोदितसूर्ये कटकान्बन्धयेत्प्र-
च्छादनार्थं(त) येन पार्श्वेनावतप्यागमः। शेषाणि पार्श्वानि विवृतानि कुर्या-
त्प्रवातार्थम्। मातरेवोपलेपयेच्छालाम्। निवृत्तस्य चास्य प्रवरमविष्टस्य मुहु-
७८
६१६ पालकाप्यमुनिविरचितो— [४ उत्तरस्थाने—
मुहुः शीतकेन वारणा सेचयेत् । स्थाने हस्तिकाने पांसुशामिकं कुर्यात् ।
नवान्कुम्भाञ्छीतवारिपूर्णान्सिकत्यायामुपरिस्था(ना)पयेद्वतीर्वां । यवसाध्यायो-
क्तानि षोडशानि यवसानि नित्यं संनिहितानि कर्तव्यानि पक्वानि च विवि-
धान्यानि कुंप(कुकू)लानि च । सायं चैनं निर्वाणात्मत्यायतं बहिः सुखं मुहूर्तं
स्थापयेत् । ग्रीष्मस्थानविधिरुक्तः ।
अथ वर्षास्वपि स्थानं कर्तव्यम् । यथा कश्चिदपि नोपक्लिश्यते तन् बहुविधे-
*स्त्यांभैर्जेयैर्वसैः सुविहितं कर्तव्यम् । प्रवृष्टे च देवे सर्वतः कटकैः संवृतं कुर्यात् ।
निवृत्ते पुनः कटकानपनयेत्प्रवातार्थम् । नित्यं संनिहितश्च धूमः कर्तव्यो दंश-
मशकादिग्रहणार्थम् ।
अथ हेमन्ते शीतवातनिग्रहार्थमथ(र्ध)कुड्योपगता दृढाः कटकाः कार्याः ।
निवातमेव रात्रौ कृत्वाऽतीतायां रजन्यामातपागममभिक्ष्यायापसारयेदातप-
प्रवेशार्थम् । ततो मन्दार्ककिरणैरेव तप्यमानः प्रह्लादमुपगच्छति शरीरे सुख-
माप्नोति द्विरदपतिः सुखं च सलिलमवगाहेत । विचित्रैर्यवसैर्विविधैरपि हित-
मस्य स्थानं कुर्यात्सुमिति ।
तत्र श्लोकौ—
वरं स्थानेषु विहितं यथोक्तं गुणसंपदा ।
कर्तव्यं वारणेन्द्राणां विधानं हितमिच्छता ॥ १ ॥
एवं सुविहिता यस्य राज्ञो राजन्गजोत्तमाः ॥
तस्य युद्धेषु विजयं प्रयच्छन्ति सुखानि च ॥ २ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने वृद्धोपदेश उत्तराभिधाने
परिवारचतुर्थस्थाने शालाविधानं नाम षष्ठोऽ-
ध्यायः (†प्रथमः) ॥ ६ ॥
अथ सप्तमोऽध्यायः ।
अथ भगवन्तं प्रभाभिर्भासयन्तं दिवसकरकरालवपुषमतितपसमनकऋषि-
गणमध्योपविष्टं पप्रच्छ रोमपादः पालकाप्यं 'कथमतिचपलभावानां क्षीणबल-
मांसशोणितानां यात्र(वृ)वशाचातिप्रमणमनपेक्षहरणीयमक्षमीप्वैदनीवपुर्वनी-
- 'बहुविधैर्भूजैयैर्वसैः' इति स्यात् । † 'प्रथमः' इति पाठस्तु पुस्तकद्वयेऽपि
न जाने कथं प्रसक्तः ।
येषु हस्तिपुङ्गवमर्माणाम(नां) च गात्रविक्षोभदन्तप्रतिमानमवक्षसमुत्थाना
नानाविधलिङ्गवेदना विकाराः संभवन्ति । तेषां नस्यविधानादृते न दोषोपशमन-
मस्ति नागानां तन्मे ऽखिलतो नस्यविधानं समुपदेष्टुमर्हसि भगवन्त्येषां व्याधीनां
प्रशमनकरं येषां च वृद्धिमपजनयति यथा येषां च नस्यकर्मानुविधीयते यथा
यच्च स्नेहप्रमाणं यथा चाति(च)पलानां पत्र विधिरनुष्ठीयते यथावस्थितस्यौर्ध्व-
करवारणस्य कर्म विधीयते तदखिलतो भगवन्व्याख्यातुमर्हसि' ।
अथ भगवानुवाच पालकाप्योऽङ्गराजाय रोमपादाय वस्तुजषस्व(?) यदीरितं
वाक्यमिष्टशब्दमव्यपाहतमपुनरुक्तं संस्कृतपदविचित्रार्थम्-नागानां नस्यकर्म-
विधानमिदं भिषजा नित्यमशास्त्रज्ञेनाकर्मकुशलेनादृष्टकर्मणाहष्टविधानेनोहापो-
हाभ्यां विमयुक्तेन न चावि
१२० पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने-
ग्रहोत्कर्षकमन्याग्रहशिरोरोगगात्ररोगाशिरोगानेवमादींश्च पूर्ववेहिकान्विका-
रानिति ।
अथ दुर्विरिक्तलक्षणमनुव्याख्यास्यामः । अतिनिर्धूतदोषस्य संनिरुद्धमार्ग-
प्रचारस्य कर्णशूलो भवत्यतिमात्रम् । तेन शूलेनाभिभूतस्य पर्यस्तु(स्तृ)ता भवति ।
विधुनोति शिरोमात्रम् । ततोऽस्य शिरो धुन्वतो मुखोपरि शोफो भवति ।
ततोऽस्य नेत्रे परिस्रावः प्रवर्तते तीक्ष्णम् । तस्य परिस्रावाभिभूतनयनस्य
दृष्टिराविला भवति ।
अथातिरिक्तलक्षणमनुव्याख्यास्यामः ।
यदा हि भिषजाऽत्यम्लकटुकोष्णातिलवणमतिरिक्तं शिरोविरेचनं मध्मापनं
वा दीयते तदा काष्ठाक्कालानां प्रमाणमतिसेवमानानां नागानामतिधूमपानोच्छ्वा-
सैर्जर्जरीकृतशरीराणां प्रलेपमिवोष्णेनाभिष्यन्दी भवति श्लेष्मा । ततो यथोक्ता
र्निवातलिङ्गा उत्पद्यन्ते तोदभेदपरिघर्षणादयः स्वल्पाङ्गविकारा भवन्ति ।
विशेषश्च शिरो विधुनोत्यभीक्ष्णम् । बृंहति, परिलुतकरश्च भवति, मुहुर्मुहुरति-
दुर्मना द्विरदः ।
अथ सम्यग्विरक्तलक्षणमनुव्याख्यास्यामः । प्रहृष्टकरचरणकर्णवालनयनोऽ-
यमुपसेवते स्वस्थः सर्वाङ्गकरसंचारशरीरो यथाकालं वातमूत्रपुरीषोत्सर्गं करोति
˚ बलवर्णप्रसादपरीतशरीरः सुमनाः शीलादिषु न विकारमापद्यते ॥
इति श्रीपालकाप्येन ऋषिणा दुर्विरिक्तातिरिक्तसम्यग्विरक्तलक्षणमुप-
दिष्टम् । नस्य विधिरन्यत्राभिहितोऽस्ति ।
अभग्नयोगमश्रान्तं वेदव्रतकृतश्रमम् ॥
त्रिदशैः पूजितं नित्यं पालकाप्यं महामुनिम् ॥ १ ॥
रोमपादो महाराजः संशयं परिपृच्छति ॥
तृणसात्म्यास्तृणाहारास्तृणप्राणाश्च वारणाः ॥ २ ॥
तेषां देशमृतुं कालं तृणानां च रसारसम् ॥
वृक्षमल्लांस्तृणांश्चात्मन्भगवन्प्रब्रवीहि मे ॥१ ३ ॥
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
निबोध मे महाराज प्रसन्नेनान्तरात्मना ॥ ४ ॥
पीतोषधिरसे काले आदित्यस्य गभस्तिभिः ॥
प्राणसंजननार्थं च ग्रीष्मे सर्वं प्रयोजयेत् ॥ ५ ॥
१ क. घ. महाप्राज्ञः ।
८. यवसाध्यायः ] हस्त्यायुर्वेदः । ४२१
वर्षासु स्थलजं देयं जलजं च विवर्जयेत् ॥
हेमन्ते जाङ्गलं भूयः स्थलजं च महीपते ॥ ६ ॥
वसन्ते तु तृणं दद्यात्कषायकटुकं रसे ॥
ग्रीष्मे तृणं शेषमार्द्रं दापयेच्च गुडोदकम् ॥ ७ ॥
कुल्माषमोदकं चैव सानुपानं प्रदापयेत् ॥
प्रावृट्काले महाराज दांपयेत्पिष्टमोदकम् ॥ ८ ॥
छवि रोमप्रसादार्थं पञ्चमेऽहनि दापयेत् ॥
अनूपजानि शरदि प्रदद्याच्छाद्वलानि वै ॥ ९ ॥
हेमन्ते स्थलजं दद्यात्प्रसक्तां चांचिरस्थिताम् ॥
प्रदद्याच्चवसान्येव बुद्धिमान्शास्त्रनिश्चयात् ॥ १० ॥
ऋतुष्वेवं महीपाल योगसात्म्यैरदन्तिनम् ॥
ओषध्यः फलपाकान्तास्तासां सर्वगतो रसः ॥ ११ ॥
भवत्यजातवीर्याणामम्लः श्लेष्मविवर्धनः ॥
अजातकाण्डं तरुणं पत्रलं शस्यमुच्यते ॥ १२ ॥
श्रावणे तु तृणं मासे भाद्रपदे जातपर्वकम् ॥
ईषन्मधुरमम्लं च जायते प्राणवर्धनम् ॥ १३ ॥
गर्भमाश्वयुजे मासे सगर्भं मधुरं भवेत् ॥
विमुक्तमम्लभावेन जायते मांसवर्धनम् ॥ १४ ॥
कार्तिके तु तृणं मासे जातवीर्यरसं भवेत् ॥
मांसशोणितमज्जानां बृंहणं प्राणवर्धनम् ॥ १५ ॥
मार्गशीर्षे तृणं राजन्व्यक्तं परिणतं दृढम् ॥
'शुक्रवृद्धिकरं राजञ्जायते प्राणवर्धनम् ॥ १६ ॥
परिशुष्कार्द्रपत्रं च ❊शीर्षं पुष्पं फलं तथा ॥
पौषमासे तृणं विद्यान्नागानां मेदसो हितम् ॥ १७ ॥
तुषारपाताभिहतं सूर्येणोपहतं भवेत् ॥
माघमासे तृणं प्रायः संशुष्कमुपजायते ॥ १८ ॥ .
तृणमल्परसं चापि न वा. प्राणविवर्धनम् ॥
क्वचिदार्द्रं क्वचिच्छुष्कं फाल्गुने मासि जायते ॥ १९ ॥
❊ 'शीर्षपुष्पफलं' इति भवेत् ॥
१ ख. घ. चारिर° ।
६२२ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
चण्डवातहतं शुष्कमल्पवीर्यं च संभवेत् ॥
चैत्रे मासे महाराज नागानां च न रोचते ॥ २० ॥
भूमौ निपतितं शुष्कं विच्छिन्नं विरसं तृणम् ॥
मांसे करीषप्रतिमं वैशाखे जायते ध्रुवम् ॥ २१ ॥
दावाग्निदग्धे तु तृणे प्रायशो वृक्षभोजनाः ॥
न तृप्तिमधिगच्छन्ति ज्येष्ठे मासे मतङ्गजाः ॥ २२ ॥
कोमलं पल्लवं वल्लीसंजातमनुवृष्टिभिः ॥
कन्दमूलानि चाऽऽषाढे भक्षयन्ति मतङ्गजाः ॥ २३ ॥
तृणावस्था महाराज विज्ञातव्या विचक्षणैः ॥
सुरभि कुरुविन्दं वा प्रमोदाः श्वेतपत्रिकाः ॥ २४ ॥
मृदुशुण्ठी करीरं च तथा वानरपुच्छिका ॥
सौवस्तिका विचितिका तथालोहितपत्रिका ॥ २५ ॥
रसादनी गिरितृणं तथा पर्णगुहा रसा ॥
एतानि मधुराण्याहुर्विपाके कटुकानि च ॥ २६ ॥
वातकोपीनि भूयिष्ठं श्लेष्मपित्तहराणि च ॥
गिरिकाशी वंशपत्री(?) नृत्यकन्दी तथैव च ॥ २७ ॥
(*इच्छानु गङ्गपत्री च तृणपल्लविकाऽपि च ॥ )
अर्जुनश्वोपलं चैव दण्डशूकममोदकाः ॥ २८ ॥
वृणपर्णामृतश्चैव तथा काकपरूषकाः ॥
एतानि मधुराण्याहुर्विपाके तु मनीषिणः ॥ २९ ॥
पित्तश्लेष्मानिलार्तेभ्यो वारणेभ्यः प्रदीयते ॥
आर्द्रपत्री मरुवकं जूर्णामर्थविभाञ्जिकम् ॥ ३० ॥
स्थलजं रक्तदण्डं च कुंपलांश्चेव पत्रिकाम् ॥
कङ्कुवैरकलोणीककरेणुसुपवीतृणम् ॥ ३१ ॥
˙ सुपर्णशारिवेल्लं च काशं कुशतुणं† तथा ॥
उलूखलं प्रतिरसं तथा पुच्छकमेव च ॥ ३२ ॥
- धनुश्चिह्नान्तरगतः पाठो नास्ति कपुस्तके । † कपुस्तके तु 'काशमथापि
वा' इत्युत्तरमेकपृष्ठं रिक्तमेव रक्षित्वा द्वितीयपृष्ठप्रारम्भे 'तृणं तथा । उलूखलं' इत्याद्ये-
व यथाश्रुतमुपलभ्यते ।