हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 622, कुल 742 में से
संदर्भ में पढ़ेंकफान्तं वातपित्तान्तं कुक्षिशैथिल्यलाघवम् ॥
गात्रापरमृदुत्वं च व्याधेरपि विनिग्रहः ॥ ४२ ॥
लक्षणं तु निरूढस्य मूत्रशुद्धिकृदेव च ॥
लक्षणं दुर्निरूढस्य आनाहो रक्तमूत्रता ॥ ४३ ॥
विद्वातनिग्रहं शूलमाध्मानं व्याधिवर्धनम् ॥
निष्पुरीषस्य नागस्य निरूढस्यातियोगतः ॥ ४४ ॥
वायुर्गात्राणि कुक्षिं च शूलेनऽऽवेष्टयेद्भृशम् ॥
तस्मान्निरूहयेत्सम्यक्सिद्धिकामो विचक्षणः ॥ १४५ ॥
अपकर्षति वासेभ्यः क्षारः सर्वं यथामलम् ॥
अपकर्षति दोषान्वै आस्थापनमनेकधा ॥ ४६ ॥
बल्यं वृष्यं बृंहणीयमिन्द्रियाणां प्रसादनम् ॥
जीवकृज्जीवनं मेध्यं गजस्याऽऽस्थापनं मतम् ॥ ४७ ॥
क्षुत्पीडितो मदाविष्टो बालो वृद्धो गदातुरः ॥
स्नातः पीतोदकश्चैव भुक्तवांस्तृषितश्च यः ॥ ४८ ॥
वितृष्णो जीर्णभक्तश्च दुर्मना यश्च वारणः ॥
भीरुश्चैवाप्यनास्थाप्यः श्वासी यश्च मतङ्गजः ॥ ४९ ॥
एतेषामनुपूर्वेण शास्त्रमार्गानुसारिणा ॥
चिकित्सकेन क्षीरेण देयाः स्युः क्षीरबस्तयः ॥ १५० ॥
मात्रा बस्तेर्विधिरतः क्षीरबस्तिश्च वक्ष्यते ॥
अशनादुत्तरं पीतो यथा स्नेहोऽभियोगतः ॥ ५१ ॥
पूर्वकापस्य विहितः स्नेहनः शास्त्रदर्शनेः ॥
स्नेहनः सर्वतस्तद्वद्विज्ञेयो दोषनाशनः ॥ ५२ ॥
अनन्ययोगजानां तु मात्रा बस्तिः प्रशस्यते ॥
क्षीणधातुकृशा नागा-वृद्धाः क्षीणबलाश्च ये ॥ ५३ ॥
पश्चात्सूपहताश्चापि मदक्षीणास्तथैव च ॥
एषामग्नेर्विवृद्ध्यर्थं ग्रीष्मे प्रावृषि वा हितः ॥ ५४ ॥
द्देयः प्रायोगिको बस्तिर्विशेषेण तु दन्तिनः ॥
पूर्वाह्णे स्नातपीताय भुक्तायं च विधानतः ॥ १५५ ॥
रसायनं परं नित्यं पूर्वोक्तविधियोजितम् ॥
भतः परं प्रवक्ष्यामि क्षीरबस्तिविधिं शुभम् ॥ ५६ ॥