सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 625, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 625

६०४ पालकाप्यमुनिविरचितो— [४ उत्तरस्थाने—
स्थूलाश्च कुष्ठिनो ये च मेदुराः पाण्डुरोगिणः ॥
कर्षणो दोषहरणो देयस्तेषां यथा हितः ॥ ८७ ॥
दन्ती द्रवन्ती श्यामाकं कुटजं कृमिवेधनम् ॥
अपामार्गं हस्तिकर्णं जीमूतं सकुटन्नटम् ॥ ८८ ॥
शतपुष्पा च कुष्ठं च तगरं चतुरङ्गुलम् ॥
सप्तलां च गवाक्षीं च शङ्खिनी केषुकं तथा ॥ ८९ ॥
अजशृङ्गयजगन्धे च कपिलां तुलसीं तथा ॥
प्रकीर्यामुदकीर्यां च गवाक्षीं च समाहरेत् ॥ १९० ॥
वातिकेनेव विधिना बस्तिर्दत्तो न शीतलः ॥
संशोधनीयः श्रेष्ठः स्याद्वन्विते कुपितेषु च ॥ ९१ ॥
क्षीरवृक्षा च रोधं च पिण्डीरुककसेरुके ॥
अभीरुपत्रिका श्यामा धवं खदिरमेव च ॥ ९२ ॥
तुरन्ती चाग्निमन्थं च नीपं कट्फलवेतसम् ॥
षढी सुवर्णक्षीरी च वज्रजम्बू सघातुकी ॥ ९३ ॥
तिलांश्च पद्मकोशीरमित्येतानि समाहरेत् ॥
पित्तकेनेव विधिना बस्तिर्दत्तस्तु शीतलः ॥ ९४ ॥
भवेच्छु(त्सु)तपुरीषस्य वृद्धसंग्रहणो हितः ॥
पयस्यां च मृनालं च शृङ्गाटककसेरुकम् ॥ ९५ ॥
बलामतिबलां चैव स्वयंगुप्ताफलानि च ॥
विदारी मधुकं चैव मृद्वीका क्षीरमोरटम् ॥ ९६ ॥
यवगोधूमचूर्णानि तथा मधुकराणि च ॥
अविच्छन्नामतिच्छन्नामित्येतानि समाहरेत् ॥ ९७ ॥
पित्तकेनेव विधिना वाजीकरणमुच्यते ॥
अश्वगन्धाविदारीभ्यां युक्त एष पुनः पुनः ॥ ९८ ॥
बृंहणीयो भवेद्बस्तिरभ्यस्तस्तत्त्वबुद्धिना ॥
·संशोधनीयो निष्काथः सिद्धार्थकवचान्वितः ॥ ९९ ॥
उष्णः सतैलतीक्ष्णः स्यादानाहे बस्तिरुत्तमः ॥
सहोदुम्बरबीजैस्तु पंचकोलसमीकृतः ॥ १०० ॥
कोविदारस्य निम्बस्य नीपस्य च तथा पुनः ॥
कोष्ठकस्याथ निष्काथो मूत्रयुक्तो न शीतलः ॥ २०१ ॥
१ क. °स्तिर्देयस्तु ।