हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३६७
तत्र जिह्वातलसमः पद्माभो लाजगन्धिकः ॥
व्रणः शुद्धोऽभिविज्ञेयो व्रणोपद्रववर्जितः ॥ ९६ ॥
व्रणस्त्वशुद्धो विज्ञेयो यः शुद्धस्य गुणोदयैः ॥
गन्धवर्णश्र(स्र)वाकारैर्विपरीतैः समन्वितः ॥ ९७ ॥
व्यायामं चातिमांसं च यः सर्वं सहते व्रणः ॥
रोहमाणं भिषग्विद्यान्नीरुजं निरुपद्रवम् ॥ ९८ ॥
ईषत्सञ्जातरोमाश्चत्वक्सवर्णश्च यो भवेत् ॥
एतच्छास्त्रविनिर्दिष्टं संरूढस्य हि लक्षणम् ॥ ९९ ॥
─:०:─
व्रणस्योपक्रमो ज्ञेयस्त्रिविधस्त्रिविधात्मनः ॥
शोधनं रोपणं चैव सवर्णकरणं तथा ॥ १०० ॥
तत्राशुद्धो भवेत्साध्यः शुद्धे रोपणमिष्यते ॥
संरूढस्याथ कर्तव्या सवर्णकरणक्रिया ॥ १ ॥
─:०:─
उपक्रमस्यापि भवेद्योनिस्त्रिविधलक्षणा ॥
आयसी चौषधी चैव या च निर्वापणाश्रया ॥ २ ॥
आयसी स्विह या योनिः प्रथमा संप्रकीर्त्यते ॥
शस्त्रयन्त्रैषणीसूच्यस्तस्या भेदश्चतुर्विधः ॥ ३ ॥
तत्र च्छेद्यं च भेद्यं च लेख्यं विस्राव्यमेव च ॥
दालनं चैव विज्ञेयं कर्म शस्त्रस्य पञ्चधा ॥ ४ ॥
एषण्याऽन्वेषणं कर्म व्रणावस्थाविकल्पितम् ॥
याः सूच्यस्त्रिविधाः प्रोक्ताः शस्त्राध्याये तु संस्थिताः ॥ १०५ ॥
नागदन्ताकृतिर्वृत्ता त्रिकोणा चेति निश्चयात् ॥
अस्थ्याश्रितं नागदन्त्या मांसजं च त्रिकोणया ॥ ६ ॥
त्वक्स्नायुधमनीस्थं च शिराजं चैव वृत्तया ॥
आहार्यं सर्वयन्त्राणां सूच्या सीवनमिष्यते ॥ ७ ॥
सूत्रस्नायुशणद्रव्यैरेभिः संसीवनं भवेत् ॥
वृद्धिपत्रेण नागानां कुर्याच्छेदनभेदने ॥ ८ ॥
लेखनं मण्डलाग्रेण कर्तव्यं दन्तिनां भवेत् ॥
श्र(स्र)वणं पाटनं चैव कुर्याद्वीहिमुखेन तु ॥ ९ ॥
१ क. ॰पद्मभासो॰ । २ क. ॰वेच्छोध्यः। ३ क. तु ॥ अस्थिषु॰
३५६ पालकाप्यमुनिविरचितो- [ १ शल्यस्थाने-
स्थिरा मृद्वी च कर्तव्या व्रणानामेषणी भवेत् ॥
वृत्ता गण्डूपदमुखी प्रमाणे त्रिंशदङ्गुली ॥ ११० ॥
सुवर्णरूप्यताम्राणामायसी शृङ्गजाऽपि वा ॥
दन्तास्थिवेणुदारूणामेषणी दारुणा भवेत् ॥ ११ ॥
एते त्वष्टाविह ज्ञेया व्रणस्योपक्रमाः पृथक् ॥
आयसीं संसृ(श्रि)ता योनिं शृणु चैषामुपक्रमम् ॥ १२ ॥
यो न गच्छेत्प्रशमनं स्व(श्व)यथुः प्रविलापनैः ॥
तस्य विश्रा(स्रा)वणं कार्यं भवेत्पक्वस्य भेदनम् ॥ १३ ॥
दालनं विषमे पाके बहुलौष्ठस्य लेखनम् ॥
उद्रमस्य कटस्थस्य सर्वैत्राऽऽच्छेदनं हितम् ॥ १४ ॥
यथायोगं तु कर्तव्यं गतेरन्वेषणं व्रणे ॥
द्विविधस्य तु शल्यस्य यन्त्रैराहरणं भवेत् ॥ ११५ ॥
सूच्या संसीवनं कार्यं तत्र भागेषु दन्तिनाम् ॥
दारितानां व्रणकरैः सद्यः सरुधिरे व्रणे ॥ १६ ॥
शस्त्रं सुतिर्यगूर्ध्वं वा भिषगस्थिगतं तथा ॥
सिरामर्माभिघाताद्वा प्रमादान्निपातयेत् ॥ १७ ॥
यस्तु यन्त्रशरैर्वाऽपि दन्तैर्वा प्रतिहस्तिनाम् ॥
स्याद्व्रणश्छिद्रपिशितो मर्म वा किंचिदाश्रितः ॥ १८ ॥
तस्मात्प्रच्छन्नपिशिते कार्यं कार्यवशाद्भवेत् ॥
उन्मार्गच्छेदनं वैवैर्मर्मसंरक्षणाद्व्रणे ॥ १९ ॥
इत्येते शास्त्रनिर्दिष्टा व्रणसिद्धावुपक्रमाः ॥
—:०:—
आयसीप्रभवा राजन्कार्या नानाविधात्मकाः ॥ १२०॥
शस्त्रकर्मणि नियुक्ते बलिहोममयी क्रिया ॥
व्रणशान्तिर्भवेत्कार्या यथोक्ता यज्ञकर्मणि ॥२१॥
औषधीसंश्रिता योनिः पृथक्शोधनरोपणे ॥
इमे विशेषा विज्ञेयास्त्वष्टौ शास्त्रविनिश्चयात् ॥ २२ ॥
वर्तिः कषायः कल्कश्च घृतं तैलं रसक्रिया ॥
चूर्णं धूपनमित्याहुर्विभागादष्टमं पदम् ॥ २३ ॥
१ क. मता । २ क. ॰वैशश्छेद॰ । ३ क. ॰च्छिन्नपि॰ । ४ ख. निर्द्दिष्टे ।
५ क. ॰पायकल्कस्य घृ॰ । ६ क. रसक्रिये ।
१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३६९
उपक्रमविधिस्त्वन्यः शास्त्रयोगात्मेवक्ष्यते ॥
─:०:─
ओषधीसंश्रिता योनिस्त्रयोविंशतिलक्षणा ॥ २४ ॥
विलायनं पाचनं च भेदनं पीडनं तथा ॥
सादनोत्सादने चैव कृमिघ्नमथ चापरम् ॥ १२५ ॥
लेपः स्वेदोऽगदः क्षारो मृदुदारणयोः क्रिया ॥
बृंहणं चापकर्षश्च संधानं शिशिरक्रिया ॥ २६ ॥
शोणितस्थापनं चैव कण्डूघ्नं धावनं तथा ॥
२प्रसादनं च वर्ण्यश्च सवर्णकरणं तथा ॥ २७ ॥
बन्धकल्पश्च विज्ञेयश्चतुर्विंशतिमं पदम् ॥
व्रणावस्थान्तराच्चैषां प्रयोगः संप्रवक्ष्यते ॥ २८ ॥
श्वयथोरविदग्धस्य कार्यं स्यात्प्रविलायनम् ॥
विदह्यमाने कर्तव्यं श्वयथोः पाचनं भवेत् ॥ २९ ॥
पक्वस्य तु भवेच्छेदस्तथा शोधनरोपणम् ॥
छवीसवर्णात्कठिनं परुषं वाऽपि वर्णतः ॥ १३० ॥
मन्दोष्माणं तथा स्तब्धमाममित्यभिलक्षयेत् ॥
विवर्णं नातिकठिनं सोष्माणं वेदनादितम् ॥ ३१॥
विदह्यमानं जानीयाच्छ्वयथुं कुशलो भिषक् ॥
सर्वतो मार्दवं शैत्यं पाण्डुता शीर्णरोमता ॥ ३२ ॥
वेदनोपशमश्चैव श्वयथोः पक्वलक्षणम् ॥
दुष्टकृशातिभीरूणां व्रणान्संवृतदेशजान् ॥ ३३ ॥
सूक्ष्मांश्चानतिपक्वांश्च भेदनीयैरूपाचरेत् ॥
वेदनाबहुले दृष्टे शिरामर्मसमाश्रिते ॥ ३४ ॥
संधिजे वाऽपि कर्तव्यं दन्तिनां पीडनं व्रणे ॥
केवलं यस्तु संधानमल्पदोषो न गच्छति ॥ १३५॥
संधानं तस्य कर्तव्यं संधानीयैरुपक्रमैः ॥
अस्थिस्नायुगतं दुष्टं तनु ४स्वल्पमुखं व्रणम् ॥ ३६ ॥
गतिमन्तमजिह्मं च शोधयेद्वर्त्तिशोधनैः ॥
पिच्छिलं विस्तृतं क्लिन्नं ५दुर्गन्धि पूतिवद्व्रणम् ॥ ३७ ॥
१ क. ०त्यचक्षते । २ क. प्रमादनं । ३ क. ०मिधीयते ॥ वि० । ४ ख.
०ल्पसुखं । ५ क. ०न्धं प्रोतव० ।
३६० पालकाप्यमुनिविरचितो— [१ शल्यस्थानम्]
प्रचलं पूतिमांसं च कषायैः शोधयेद्भिषक् ॥
आवृतं पूतिभिर्मांसैः स्नायुजालसमाकुलम् ॥ ३८ ॥
सस्फोटमवदीर्णं च शोधयेत्कल्कशोधनैः ॥
एवमेवातिसंरब्धं गम्भीरमतिवेदनम् ॥ ३९ ॥
संवृतं रुधिराश्रा(स्रा)वं शोधयेद्घृतशोधनैः ॥
सहसा न प्ररोहन्तं तनुदोषमवेदनम् ॥१४०॥
व्रणं मार्दवसंपन्नं शोधयेत्तैलशोधनैः ॥
स्नायुर्वा यत्र मांसं वा प्राग्दुष्टं नापनीयते ॥ ४१ ॥
कषायशोधनैस्तत्र कर्तव्यं चूर्णशोधनम् ॥
सपूतिमांसः सास्रावो यो व्रणो नोपरोहति ॥ ४२ ॥
उर्त्ताना तत्र कर्तव्या शोधनार्थं रसक्रिया ॥
बहुदुष्टपरिश्रा(स्रा)वे कुर्यात्प्रक्षालनक्रियाम् ॥ ४३ ॥
कण्डूमत्यपि कर्तव्यः कण्डूघ्नः स्यादुपक्रमः ॥
गतिमत्कठिनौष्ठं च कण्डूमन्तं प्रभेदिनम् ॥ ४४ ॥
दुष्टमांसाङ्कुरयुतं क्षारेणोपचरेद्व्रणम् ॥
अतिप्रवृत्ते रुधिरे शोणितस्थापनं भवेत् ॥ १४५ ॥
कृमिभिर्भक्ष्यमाणस्य कृमिघ्नः स्यादुपक्रमः ॥
उत्सन्नस्य भवेत्सादः सन्नस्योत्सादनक्रिया ॥ ४६ ॥
स्थिरत्वं मृदुतः कार्यं मार्दवं कठिनस्य च ॥
उष्णदोषातुरे शैत्यं स्वेदः शीतानिलातुरे ॥ ४७ ॥
नाभिरोहति वातार्ते व्रणे धूपनमिष्यते ॥
मेदसा युतमांसानां पवनः परिकुप्यति ॥ ४८ ॥
स्थूलानां व्रणमांसेषु तंस्तस्तानपकर्षयेत् ॥
क्षीणानां न प्ररोहन्ति व्रणा मांसविवर्जिताः ॥ ४९ ॥
तस्मात्तेषां भवेत्कार्यं बृंहणं क्रमयुक्तिः ॥
वातादीनां तु ये लिङ्गा दोषैः पाङ्गुर्विवर्जिताः ॥ १५० ॥
जिह्वातलसमः शुद्धस्तं व्रणं रोपयेद्भिषक् ॥
तत्राल्पदोषप्रस्रावं गतिमन्तमवेदनम् ॥ ५१ ॥
१ क. ॰वेदिनं । २ क. ॰दुष्टमप॰ । ३ क. ॰तिनामा संश्रावो । ४ ख.
॰त्तानस्तत्र । ५ ख. उष्णो दो॰ । ६ क. ॰तुरैः शै॰ । ७ ख. तु यो लिङ्गं दो॰ ।
१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३६१
वर्त्या संरोपयेद्वैद्यो हस्तिनां व्रणमुत्थितम् ॥
ईषत्तु विषमं निम्नं मृदुमांसमवेदनम् ॥ ५२ ॥
अशीघ्ररोहिणं चैव कषायेणोपरोपयेत् ॥
व्रणं पाकात्प्रसर्पन्तमतिस्नेहादरोहणम् ॥ ५३ ॥
मांसे वा त्वचि वा जातं रोपयेत्कल्करोपणैः ॥
निम्नमीषद्विश्र(स्र)वेण किंचिपित्तसमन्वितम् ॥ ५४ ॥
स्थैर्यादनुपरोहन्तं रोपयेत्सर्पिषा व्रणम् ॥
ईषद्रातातुरं सिद्धं भिषग्व्रणमवेदनम् ॥ ५५ ॥
रोपणीयेन तैलेन शास्त्रदृष्टेन साधयेत् ॥
प्रशान्तोपद्रवं स्निग्धमतिस्नेहाद्विसर्पिणम् ॥ ५६ ॥
रोपयेत्स्थिरमांसं च व्रणं चूर्णेन दन्तिनाम् ॥
मृदुमांसस्त्वतिस्नेहाद्यो व्रणो नोपरोहति ॥ ५७ ॥
स रसक्रियया साध्यो मृदुमांसश्च संधिजः ॥
वातश्लेष्मोच्चयात्कृच्छ्रं रोपयेद्रूप योगतः ॥ ५८ ॥
शुद्धाशुद्धे भवेद्येयो दन्तिनामगदो व्रणे ॥
यथा स्वमष्टवर्गेण सम्यग्वर्त्यादिना भवेत् ॥ ५९ ॥
सिरास्नाव्यस्थिकोष्ठेषु तथा संधिषु च व्रणाः ॥
गम्भीरा विषमस्थूलावस्तवगाढा गुरुक्रमाः ॥ १६० ॥
साध्या बेन्धादिना त्वेते बन्धस्तु व्रणशोधनः ॥
समो गाढोऽथ शिथिलो व्रणबन्धः प्रकीर्तितः ॥ ६१ ॥
कण्ठे मेण्ढ्रे तथा नाभ्यां पार्ष्ण्योर्ग्रीवासु पार्श्वयोः ॥
बस्तिशीर्षे च राजेन्द्र समो बन्धस्तथोदरे ॥ ६२ ॥
गाढः शिरसि कर्तव्यः स्फिकक्षे च सैपिण्डके ॥
हन्वोः पृष्ठे गुदे कण्ठे बाह्वोः स्कन्धे तथा त्रिके ॥ ६३ ॥
व्रणबन्धस्तु कर्तव्यः शिथिलः सर्वसंधिषु ॥
सोष्माणो रक्तपित्ताभ्यां संरब्धाः सविषाश्च ये ॥ ६४ ॥
व्रणा विसर्पिणो ये च बन्धस्तेषां न शस्यते ॥
यो बन्धमवबन्धं च विचात्सम्पग्विचक्षणः ॥ १६५ ॥
१ क. संगोप० । २ क. ०गदे व्र० । ३ क. ०णाः । यथा । गम्भीरवि० ।
४ क. गुरुक्रमैः । ५ क. बध्यादि० । ६ क. सपिण्डकौ ।
४६
पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
स बध्नीयान्न शिथिलो बन्धः स्तब्धो न वामतः ॥
अपीडया सुखं रोहेन्नापि पित्तहतो भवेत् ॥ ६६ ॥
निवसेदौषधं बन्धाद्वायुः श्लेष्मा च शाम्यति ॥
नाबन्धनाय बन्धं च वातिबन्धं च सारिकम् ॥ ६७ ॥
बद्धाबद्धं ने शिथिलं श्वध्री(?) जानाति मापत्तिम्(?) ॥
न रोपयेन्न पीडेत वस्त्रेण बाध्यते च तत् ॥ ६८ ॥
सायाह्ने चौषधैनैन सम्यक्शुद्धस्य वै गुणाः ॥
अशुद्धं साधयेच्चास्य शुद्धं तु रोपयत्यपि ॥ ६९ ॥
संगृह्णात्यौषधं वाऽपि सम्यग्बद्धस्य लक्षणम् ॥
हेमन्ते शिशिरे चैव वसन्ते च विमोक्षयेत् ॥ १७० ॥
द्व्यहात्त्र्यहाच्छरद्ग्रीष्मे वर्षास्वपि च बुद्धिमान् ॥
पोतैः कार्पासकैः क्षौमैः कौशेयैश्च विचक्षणः ॥ ७१ ॥
पत्रैर्वल्कैश्च ताम्रैश्च तथा स्याल्लोहपट्टकैः ॥
व्रणा बन्ध्या यथालाभमुपनाहैश्च तत्त्वतः ॥ ७२ ॥
येन येन च बन्धेन यो व्रणः सुखबन्धनः ॥
स तेन तेन बन्धेन बन्धितव्यो विजानता ॥ ७३ ॥
इत्येवं बन्धकल्पस्तु व्याख्यातस्ते यथाक्रमम् ॥
व्रणाः शिशिरसात्म्यानां नागानां बन्धनोष्मणा ॥ ७४ ॥
प्रायैः शुषिरमांसत्वाद्विसर्पन्ति समन्ततः ॥
तस्माच्चे स्वेदेनः साध्द्यास्तान्व्रणान्नबन्धयेद्भिषक् ॥ १७५ ॥
बन्धयोगवहां बुद्धिं कृत्वैषां प्रविचक्षणः ॥
उपरूढस्तु वैवर्ण्य यदि वातादिभिर्भवेत् ॥ ७६ ॥
व्रणस्तस्य भवेत्कार्यं वैद्यैर्वर्णप्रसादनम् ॥
सवर्णकरणं कार्यमुपरूढे व्रणे भवेत् ॥ ७७ ॥
इत्येते शास्त्रतः प्रोक्ता व्रणसिद्धावुपक्रमाः ॥
उपक्रमाणामेषां तु यथोक्तानां विभागशः ॥ ७८ ॥
१ क. च । २ क. पिण्डेत । ३ क. ॰धे चैव स॰। ४ क. ख. ॰यः सुशिर॰।
५ क. ॰दनेऽसा॰ ।
१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३६३
योगान्वक्ष्यामि यो येन सुप्रयुक्तेन सिध्यति ॥
काकादनी शुकनासा तथाऽपामार्गतण्डुलाः ॥ ७९ ॥
रोहिषाहिंस्रवरणं बिल्वं कुष्ठं पुनर्नवा ॥
शार्ङ्गेष्टारग्वधैः काला बृहत्यौ देवदारु च ॥ १८० ॥
कपित्थबाणटिण्डुकतगराइमन्तकाशिका ॥
मेदा च कृष्णगन्धा च हरिद्रा तालपत्रिका ॥ ८१ ॥
त्रिफला नीलपुष्पी च शतपुष्पा त्रिकण्टकम् ॥
कदरः सोमवल्कश्च कुबेराक्ष्यस्थिरोहिणी ॥ ८२ ॥
तालपत्री च कुष्ठं च फलानि निचुलस्य च ॥
एभिः कार्यं यथालानं श्वयथोः प्रविलापनम् ॥ ८३ ॥
—:०:—
सुपिष्टैश्च सुखोष्णैश्च निरूपैर्वाऽपि कारयेत् ॥
कुलत्थयवगोधूममाषकिण्वातसीतिलाः ॥ ८४ ॥
बीजा्न्येरण्डशणयोः कर्पास्य मूलकस्य च ॥
सर्षपाश्चेति पिष्टानि प्रलेपः पाचनो भवेत् ॥ १८५ ॥
श्वयथोरुष्णलवणस्निग्धश्चाम्लश्च दन्तिनाम् ॥
किणिही चित्रकश्चैव निकुम्भः सुरदारु च ॥ ८६ ॥
तगरं मातुलुङ्गं च त्रिवृता च संमांशतः ॥
गोमूत्रपिष्टैर्योगोऽयं स्व(श्व)यथूनां प्रपाचनः ॥ ८७ ॥
करवीरोञ्चटामूलं मूलं धत्तूरकस्य च ॥
लाङ्गली हरितालं च शुकगोमूत्रपेषितम् ॥ ८८ ॥
श्वयथोर्विषयुक्तस्य भवेत्पाचनमुत्तमम् ॥
—:०:—
चित्रकश्चिरबिल्वं च कोशातक्याः फलानि च ॥ ८९ ॥
मुष्ककः शृङ्गवेरं च लाङ्गलक्यक्षपीलुकौ ॥
सुवर्णक्षीरिणी चैव स्नुह्यर्कक्षीरमेव च ॥ १९० ॥
सुधा सुवर्चिका चैव तुरङ्गी कटैशर्करा ॥
कंपोतोन्दुरगृध्राणां विष्ठा पारापतस्य च ॥ ९१ ॥
१ क. ॰धः सारिवावृ॰ । २ क. ॰टिण्टुक॰ । ३ ख. मातुलिङ्गं । ४ क.
समांसतः । ५ क. प्रपाचनम् । ६ क. ॰ङ्गलीकक्षपी॰ । ७ क. ॰टकर्क॰ । ८ क.
कपातोदूर॰ ।
३६४ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
अग्निको गृहधूमश्च भवेद्भेदनमेकशः ॥
काकनासाक्षिविट्क्षारैर्भेदयेच्छस्त्रवर्जितम् ॥ ९२ ॥
—:०:—
शाल्मली शल्लकी गोजी कर्णिकारोधधन्वनः ॥ ९३ ॥
मधूकोश्मन्तकाकोलरोहिषं धातकी तथा ॥
मधुकं मधुपर्णी च जीवकर्षभकावुभौ ॥ ९४ ॥
बला विदारी मञ्जिष्ठा पथ्यालाभं प्रपीड़नम् ॥
सूच्या चैवौषधैश्चैव संधानं द्विविधं स्मृतम् ॥ १९५ ॥
तत्र वक्ष्यामि संधानमौषधैर्यत्प्रकीर्तितम् ॥
प्रपौण्डरीकं मधुकं मञ्जिष्ठा रोध्रमञ्जनम् ॥ ९६ ॥
प्रियङ्गुवोषपत्तङ्गं व्रणसंधानमिष्यते ॥
दन्ती श्यामा यवक्षारः स्वर्जिका चित्रकः सुधा ॥ ९७ ॥
क्षवकः शेल्लुका किण्वं महावृक्षार्कयोः पयः ॥
लाङ्गलिक्याक्षिकौ चैव पिप्पलीमूलमेव च ॥ ९८ ॥
एतन्मधुसमायुक्तं व्रणशोधनमुत्तमम् ॥
कृष्णमुष्ककपत्राणि महावृक्षत्वगेव च ॥ ९९ ॥
दन्त्यर्कमूले लवणं मकट्छमूत्रपेषितम् ॥
हरितस्मर्कयैर्युक्तं व्रणशोधनमुत्तमम् ॥ २०० ॥
शोभाञ्जनकेमूलं च तिलक्षारं तथैव च ॥
भल्लातकं यवक्षारं क्षारमिक्षुरकस्य च ॥ १ ॥
कुष्ठं चातिविषां चैव दन्ती कटुकरोहिणी ॥
तेजोवती हरिद्रे द्वे श्लक्ष्णकल्कं प्रदापयेत् ॥ २ ॥
सैन्धवेन समायुक्तो नाड्याश्च(?) व्रणशोधनम् ॥
विदारी करवीरश्च नक्तमालेऽथ मार्कवः ॥ ३ ॥
सुरसाखदिरौ निम्बो भाण्डी जाती वटस्तथा ॥
तर्कार्यङ्कोलशङ्खिन्यः सप्तपर्णो हरीतकी ॥ ४ ॥
हरिद्रा चाश्वगन्धा च कषायः शोधनं भवेत् ॥
चित्रकस्त्रिवृता दन्ती श्यामा लाङ्गुलकी तथा ॥ २०५ ॥
१ क. शङ्खिनी । २ क. ॰कचूर्णं च । ३ क. भार्ङ्गी ।
१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३६५
पटोली काकजङ्घी च द्रवन्ती कृतवेधना ॥
हरिद्रा निम्बपत्राणि तथा कटुकरोहिणी ॥ ६ ॥
अजेगुल्यश्वपत्राणि घृताक्तं कल्कशोधनम् ॥
तृ(त्रि)वृता शृङ्गवेरं च स्नुह्यर्कक्षीरमेव च ॥ ७ ॥
तेजोवती लाङ्गलकी कुष्ठं हिंस्रा च चित्रकः ॥
रजनी सैन्धवं चैव तथा कटुकरोहिणी ॥ ८ ॥
पिप्पलीमूलनिर्यूहैः शुद्धं सर्पिर्विशोधनम् ॥
बृहती कटुका रोधं कोशातक्याः फलानि च ॥ ९ ॥
मदनं त्रपुसी काला सर्षपा रजनी तथा ॥
पिप्पल्यश्वावगन्धा च मूर्वा पोतांऽथ चित्रकः ॥ २१० ॥
दुष्टानामरुजामेतत्तैलं शोधनमिष्यते ॥
त्रिफलातगरोशीरं हरिद्रा तालपत्रिका ॥ ११ ॥
मुस्ता दारुहरिद्रा च (※कर्पासीपत्रमेव
३६६ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
एतद्व्रणानां विज्ञेयं समांसं(शं) चूर्णशोधनम् ॥
सैन्धवक्षौमशस्त्राणि लेखनं त्रिविधं स्मृतम् ॥ १९ ॥
तत्र वक्ष्यामि यो येन व्रणो लेखनमर्हति ॥
उत्सन्नं कठिनौष्ठं च व्रणं शस्त्रेण लेखयेत् ॥ २२० ॥
श्यावं नीलासभासं च सैन्धवेनावलेखयेत् ॥
व्रणं क्षौमेण मृदुना सरुजं लेखयेन्मृदु ॥ २१ ॥
इत्येतदभिनिर्दिष्टं त्रिविधं व्रणलेखनम् ॥
सर्षपा लशुनं चैव वार्त्ताकी सौरसो रसः ॥ २२ ॥
नागरं गृहधूमश्च फणिज्जकरसस्तथा ॥
एतद्रोमूत्रसंयुक्तं सुव्यक्तलवणीकृतम् ॥ २३ ॥
कण्डूविलयनं श्रेष्ठं दन्तिनामरुजां भवेत् ॥
मरिचान्यजशृङ्गी च सर्षपाः सफणिज्जकाः ॥ २४ ॥
सैन्धवं लशुनं चैव कृमिघ्नः स्यादुपक्रमः ॥
—:(०):—
कषायैर्विधिना लैपैश्चूर्णयोगैश्च कारयेत् ॥ २२५ ॥
व्रणानां मृदुमांसानां निपुणां दारणक्रियाम् ॥
कषायवृक्षचूर्णेन भस्मना गोमयस्य च ॥ २६ ॥
—:(०):—
भस्मना तु नवानां वा शोणितस्थापनं भवेत् ॥
तत्रासिद्धौ भवेत्कार्यमसृक्स्थापनमग्निना ॥ २७ ॥
—:(०):—
तोपिकाफालजाम्बवौष्ठैस्तप्ततैलेन वा पुनः ॥
तालपत्री विडङ्गानि मञ्जिष्ठा मधुकस्तथा ॥ २८ ॥
रजनी मधुपर्णी च तथाऽपामार्गतण्डुलाः ॥
उत्सादनं भवेदेतद्व्रणानां घृतसंयुतम् ॥ २९ ॥
इमामन्यां प्रवक्ष्यामि पुनरुत्सादनक्रियाम् ॥
काकादनी शुकनासा सुवहा तालपत्रिका ॥ ३३० ॥
१ ख. °मवस्त्रा° । २ क. लेषये° । ३ क. °लेषनम् । ४ ख. कखायै° ।
५ क. गोपयितस्य । ६ क. तालिका° ।
काकोली क्षीरकाकोली जीवकर्षभकावुभौ ॥
मोषपर्ण्यश्वगन्धा च मुद्गपर्णी तथैव च ॥ ३१ ॥
एतदप्यभिज्ञानीयाद्घृतमिश्रं प्रलेपनम् ॥
सर्पिर्मांसरसः सर्वे(?)क्षीरं वाऽपि तथौदनः ॥ ३२ ॥
सुखोष्णं कालयोगेन मृदूकरणमिष्यते ॥
एष एव भवेदुष्णः स्वेदः शीतांतुरे व्रणे ॥ ३३ ॥
अजाक्षीरेण वा सिद्धः पायसः स्वेदनो भवेत् ॥
वचा विषघ्ना कुष्ठं च तिलकल्कः ससैन्धवः ॥ ३४ ॥
व्रणे तच्छोधनं ज्ञेयं दन्तिनां विषदूषिते ॥
नलवेतसमूलानि चन्दनोशीरसारिवा(ः) ॥ २३५ ॥
मृणालोत्पलपत्रं च पद्मिन्याश्चैव कर्दमः ॥
यानि धान्यानि शीतानि तैर्घृताक्तैः प्रलेपयेत् ॥ ३६ ॥
गतोष्मणामत ऊर्ध्वं क्षारयोगः प्रवक्ष्यते ॥
पाटला चारिमेदश्च स्फूर्जको धवमुष्ककौ ॥ ३७ ॥
करवीरं कदम्बश्च मधूकः सर्ज एव च ॥
एतेषां भस्मना क्षारः कर्तव्यस्तत्र चोऽऽवपेत् ॥ ३८ ॥
सैन्धवं च विडं चैव क्षारोऽयं व्रणशोधनः ॥
खदिरः शिंशपासारो निर्मूलाऽथ प्रियङ्गुवः ॥ ३९ ॥
भद्रमुस्ता विडङ्गानि तगरं चन्दनागुरू ॥
अलक्तकं नागपुष्पं तथा चाशोकरोहिणी ॥ २४० ॥
शतपुष्पा शिलापुष्पं पटोलं निम्बमेव च ॥
श्रीवेष्टकः सर्जरसः स्थौणेयं नलदं तथा ॥ ४१ ॥
एष कार्यो यथायोगं धूपः स्याद्व्रणरोपणः ॥
(*विदारमूलचूर्णानि क्षौमं च घृतसंयुतः ॥ ४२ ॥
* खपुस्तके त्रुटितः ॥
१ क. माखप० । २ क. ०प्यवजा० । ३ क. ०तारुणे ब्र० । ४ क. स्फूर्ज-बेधचशुष्ककौ । ५ क. वाजयेत् ।
३६८ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने-
एषोऽपि विहितो धूपो गजानां व्रणरोपणः) ॥
—:०:—
बला चातिबला चैव कुशमूलं तथोषटा ॥ ४३ ॥
मधुगन्धाऽश्वगन्धा च वर्तिः स्यात्तुष्टिरोहिणी ॥
जीवन्ती चाश्वकर्णश्च कुम्भी काक्षीव एव च ॥ ४४ ॥
विदारी चारिमेदश्च पलाशः किणिही धवः ॥
आरग्वधोऽथ टिण्टूको मञ्जिष्ठा मधुकं तथा ॥ ४५ ॥
अश्वगन्धा च गोजी च क्षीरवृक्षत्वचस्तथा ॥
एष कल्को भवेद्देयो रोपणो घृतसंयुतः ॥ ४६ ॥
—:०:—
स(श)ल्लकी क्षीरवृक्षश्च मधूकारमन्तकासनाः ॥
जीवन्ती चारिमेदश्च कुम्भी काक्षीव एव च ॥ ४७ ॥
आदारी चाँश्वकर्णश्च पलाशः कुटजस्तथा ॥
व्रणानां रोपणं चैव कषायं कथितं भवेत् ॥ ४८ ॥
—:०:—
भार्गी सर्पपगन्धा च मञ्जिष्ठा रजनीद्वयम् ॥
स्वयंगुप्ता च पाठा च घृतं रोपणमिष्यते ॥ ४९ ॥
एतैस्तु कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत् ॥
जलाढके समावाप्य शनैर्मन्दानिना पचेत् ॥ २५० ॥
छिन्नभिन्नेषु विद्धेषु नाडीदुष्टव्रणेषु च ॥
※दिग्धविद्धेषु वाऽप्येतद्घृतं शोधनरोपणम् ॥ ५१ ॥
चन्दनागुरुमञ्जिष्ठाशतपुष्पाप्रियङ्गवः ॥
बला कालानुसारी च शतपुष्पाः हरेणवः ॥ ५२ ॥
ताँलीपत्नं च तगरं रोध्रं व्याघ्रनखं ( तथा ॥
भद्रदारु ) तथैला च द्वे हरिद्रे पुनर्नवा ॥ ५३ ॥
कुष्ठं प्रपौण्डरीकं च अञ्जनं मधुकं मधु ॥
मधूच्छिष्टेन संयुक्तं तैलं रोपणमिष्यते ॥ ५४ ॥
- 'दग्ध' इति प्रतिभाति । † कपुस्तके त्रुटितम् ॥
१ क. स्यात्कुष्ठरो० । २ क. ०श्वगन्धा च कु०। ३ ख. ०चाश्वकर्णश्च ।४ ख.
चारिमेदश्च । ५ क. चैतत्कषा० । ६ क. हरीतकी । ७ क. तालीसपत्रं त० । ८ क.
०थैचले द्वे ।
१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । १६९
निम्बार्करजनीपत्रैर्मृगाक्ष्या मूलसंयुतैः ॥
पचेत्तैलं भिषग्धौरो व्रणरोपणमुत्तमम् ॥ २६५ ॥
एतैरेवौषधैः सर्वैः शिशपासारमिश्रितैः ।
दुष्टव्रणेषु राजेन्द्र तैलं रोपणमुत्तमम् ॥ ५६ ॥
—:०:—
प्रियङ्गुका सर्जरसः पुष्पकासीसमञ्जनम् ॥
रोचना मधुकं रोध्रं चूर्ण रोपणमिष्यते ॥ ५७ ॥
—:०:—
तिनिसाऽर्जुनसर्जानां शिशपासोमवल्कयोः ॥
खदिरस्य च निष्क्वाथो निम्बस्य च समावपेत् ॥ ५८ ॥
रसाञ्जनं रोहिणीं च मातुलुङ्गरसस्तथा ॥
कासीसं हरितालं च रोपणी स्याद्रसक्रिया ॥ ५९ ॥
(†व्रणदोषाविरोधेन यथासात्म्यं यथावयः ॥
यथाग्नि चेति कर्तव्या क्षीणानां बृंहणक्रिया ॥ २६० ॥ )
गौरी हरिद्रे मधुकं मञ्जिष्ठा नीलमुत्पलम् ॥
पटोलारिष्टपत्राणि मालतीनक्तमालयोः ॥ ६१ ॥
घोण्टाफलत्वङ्मञ्जिष्ठा फांलनी रोध्रमेव च ॥
एतेनैव विधानेन क्रमयुक्तेन दन्तिनाम् ॥ ६२ ॥
स्थूलानां हासनं कार्यं व्रणिनां भिषजा भवेत् ॥
सोमवल्कप्रवालानि मदयन्ती मनःशिला ॥
मधुकं चेति जानीयाद्व्रणवर्णप्रसादनम् ॥ ६३ ॥
मधुकं मधु मञ्जिष्ठा क्षुद्रैला गोशकृद्धृतम् ॥
सवर्णकरणं ज्ञेयं दूर्वा सकटशर्करा ॥ ६४ ॥
इतीदं पालकाप्येन द्विव्रणीयस्य लक्षणम् ॥
कृत्स्नं भगवता प्रोक्तमङ्गराजाय धीमते ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ २६५ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने श्रीपाठे वृद्धोपदेशे तृतीये
शल्यस्थाने द्विव्रणीयो नाम प्रथमोऽध्यायः ॥ १ ॥
† कपुस्तके त्रुटितम् ।
१ ख. ॰तुलिङ्ग॰ ।
४७
१७० पालकाप्यमुनिविरचितो— [१ शल्यस्थाने
अथ द्वितीयोऽध्यायः।
प्रतपन्निव भास्वन्तं मयूरकवचं दिवि।
ऋषिं ब्रह्मविदां श्रेष्ठमादित्यसमतेजसम् ॥
अङ्गराजो महाबुद्धिः पालकाप्यं स्म पृच्छति।
द्विविधस्य व्रणस्येह निदानं सचिकित्सितम् ॥
गजानां ब्रूहि तत्त्वेन तत्त्वार्थकुशलो ह्यसि।
इत्येवमुक्तः शिष्येण ब्रह्मर्षिरखिलं ततः ॥
व्याजहारोत्तरं श्रीमान्वाक्यं वाक्यविदां वरः ॥
अथातः सद्यःक्षतं नामाध्यायं व्याख्यास्यामः। इति ह स्माऽऽह भगवान्पा-
लकाप्यः।
इह खलु भो(१) सद्यःक्षतमखिलमादावेव शृणु भद्रमुख, शरशक्त्यृष्टितोम-
रपरश्वधविषाणाद्यभिहतशरीरा रुधिरमुद्वमन्त इह गजा दृश्यन्ते व्रणेभ्यः,
व्याघ्रसिंहनखदंष्ट्रावलुप्ताश्च। तेषां व्रणाभिघातलक्षणमशेषेण स्थानगतिसंस्था-
नप्रमाणविशेषांश्च वक्ष्यामः।
तत्र द्विविधो ह्यात्मा व्रणानाम्—आगन्तुः शरीरसमुत्थश्च। तत्राऽऽगन्तुरेकः।
स तु नानास्त्राभिघातविशेषादनेकाकृतिविशेषान्पुष्णाति। तत्राऽऽकृष्टशरास-
नविप्रमुक्तस्येषोश्चतुर्विधो गतिविकारः प्रादुर्भवति—विद्धस्तुण्डितोऽतिविद्धो
निर्विद्ध इति। तत्र पञ्चविधसंस्थानगतिविचारमाचष्टे तं कर्णिकार्नालिकानारा-
चार्चचन्द्रवत्सद्दन्तैर्गम्भीरगतिविषममेकतो गतिभेदमपगतं विद्धं विद्यात्।
(*तुल्यवेगमर्तिसंस्थानप्रचारमीषत्पतनत्वचो विशेषगतिर्निर्भिन्नान्तरत्वचमुत्तु-
ण्डितं विद्यात्। उभयतो निर्भिन्नसायकं त्वङ्मांसशिरास्नायू''''''''दमभिविद्धं
विद्यात्। एवमेव विद्धोत्तुण्डिताभिविद्धगतिमतीत्य शरीरमपास्य यत्सायको
व्रजति तं निर्विद्धम्।
प्रायस(श)स्तु महाकायत्वाद्वारणानाम्, अल्पप्राणत्वाद्ध्यश्वकानामुत्तुण्डिताभि-
विद्धनिर्विद्धानि मन्दमुपलभ्यन्ते ॥
उद्भान्तविस्रुतातिविद्धनिस्रुतां गतिमुपगच्छतां व्रणानां छिन्नविच्छिन्नदा-
रितावनष्ठोन्नष्टानामित्यत्र पञ्चविधो व्रणविच्छेदविशेषोऽभिवर्तते। तत्र यदङ्गं
* कपुस्तकत्रुटितोऽयं पाठः॥
१ क. ॰र्षिस्तं ततः पुनः॥ व्या०। २ क. ॰रमन्तर्देहा ग०। ३ क. ॰तोऽ-
भिवि०। ४ क. ॰नालीकाकारावर्ध०।
२ सद्यःक्षताध्यायः ] हस्त्यायुर्वेदः । ३७१
परशुपट्टिशकरपत्रैरशेषं निवर्त्यते तच्छिन्नमिति विद्यात् । तत्र तत्रैवानेक-
शोऽङ्गे तिर्यगुपगतः प्रहारसंनिपातो यत्र दृश्यते तद्विच्छिन्नमिति विद्यात् ।
अङ्गुल्यग्राभ्यन्तरे हस्ते लाङ्गूले नखे शिरसि कर्णयोर्वा यत्र द्विधा भेदमभि-
वर्तते तं दारितं विद्यात् । यदनुलोमं यावदस्थि कृत्यते मांसमेदःशिरास्नायूप-
पगतं तदवनष्टं विद्यात् । अवनष्टाद्विशेषेण केवलं प्रतिलोममुन्मृष्टं विद्यात् । )
तत्र तदवच्छिन्नं विच्छिन्नं दारितमवनष्टमुन्मृष्टमतिविद्धावकृत्तसंभवानि ( ? ) ।
अवमृष्टं द्विविधम्—गम्भीरान्तरगतत्वाद्दिपुलमुखत्वाच्च । व्रणस्यावकृन्त-
नात्सहसाऽन्त्राण्यवसरन्ति तदा छिन्नान्त्रं क्लिष्टान्त्रं वा विद्यात् । छिन्नान्त्रस्य
रुधिरं मेहनात्प्रवर्तते, सर्वशश्चादभीक्ष्णमुद्विजति, अन्नं चोष्णमुद्गमति, उन्न-
द्धकुक्षिः क्षितितलमभिगम्य पतति भूमाविति, मुहुर्मुहुर्हस्तं गृह्णाति । अस्य
विपर्यये क्लिष्टान्त्रम् । क्लिष्टान्त्रे¹ तु क्रियां प्रयुञ्जीत ।
तत्र तावदवकृत्तमाचार्यास्त्रिविधमुपदिशन्ति—विरक्तावपाटितावगाढम् ।
तत्रान्तर्लोहितमुपगतमांसश्वेतमीषत्संचयोपगतं² विरक्तं विद्यात् । अण्डकोश-
बस्त्युदरगुदेषु पार्श्वयोर्मूर्ध्नि गात्रापरे हस्ते वा यावदामांसमवगतमवपाटितं
विद्यात् । परशुपट्टिशकरपत्रादिघातैरङ्गमप्रत्यङ्गेषु यावदस्थ्यनुपगतमवगाढं
विद्यात् ।
गात्रापरे³ग्रैवेयरज्जुभिर्गाढबन्धननिमित्तैः................⁴रंस्या भागोपगतै-
श्चातिकर्कशैर्निघृष्टं भवति ।
तत्राशनिपतनजतुमधूच्छिष्ठगुडा मेध्यपाचकार्काशीर्वि(वि)षाङ्गारैर्दग्धमुत्प-
द्यते। तत्र ज्वालाङ्गारपरंपराबाष्पसंतापात्मकं पञ्चविधं दग्धं ब्रुवन्त्याचार्याः। तत्र
पञ्चविधस्याग्नि(पि)दग्धस्य पिपासा त्वक्शोषो वेपथुः श्वयथुरिति सामान्यवे-
दनात्मकानि लिङ्गानि भवन्ति ।
अथ त्वग्गतोष्मण्यभ्यन्तरगतेऽग्नौ नात्यर्थदाहस्फोटाः संभवन्ति त्वग्गताः ।
मांसगते त्वनले प्रकुथितमांसेजाऽसृगतिगमनं च भवति ।
यदा त्वङ्मांसमभिभूय शिरास्नायूपगतो भवत्यनलः, तदा मूर्छति, अत्यर्थं
कालपर्यायाच्च⁵ व्रणेषु संरोहत्सु⁶ सिरास्नायूनां संकुचनं भवति ॥
त्वङ्मांसशिरास्नायुमार्गमतीत्य यदा हुतभुगभिभवत्यनेकपं, तदा दाहमू-
र्छाभ्रमकम्पप्रमोहा यथोक्तानि च त्वङ्मांसशिरास्नायुलिङ्गानि भवन्ति ।
१ क. ०न्त्रेषु क्रि० । २ क. ०तमिक्षसंच०। ३ ०ररागैरयं र०। ख. ०रग्रैवेयं
र०। ४ क. रास्योप० । ५ क. ०त्यर्कं कालपर्याया० । ६ क. संहरत्सु ।
तृतीय स्थान: शल्य स्थान (गज-शल्य क्रिया, अस्त्र-व्रण एवं बन्धन-विधि)
३७२ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने—
मर्मगते यथोक्तानां मर्मणां लिङ्गानि भवन्ति । प्राणवियोगश्चात्यर्थद-
ग्धस्य वारणस्य ॥
यदा तु गोपुराट्टालकाद्यभिभवंतो वारणस्योल्काज्वालावलीढं भवति शरी-
रम्, तदा रोमत्वेग्ज्वलनं भवति । अङ्गारामेष्वगुडमधूच्छिष्टस्य जतुभिरव-
लीढगात्रस्य भूयो भूयः श्यावता भवति । तत्र द्विविधमेव परंपरादाहमि-
च्छन्ति—द्रवेण वा स्थिरेण वा । तयोस्तु लिङ्गसामान्यं .........भिहतदेहानां
विद्युद्विस्फोटनाङ्गैरवं स्वरमभिशृण्वतां हृदयमवदीर्यते द्विरदानां केषांचित् ।
घोरघोषत्वात्केचिद्वाधिर्यमेवाऽऽप्नुवन्ति । केचित्त्वभिहतदेहा गतासवो भवन्ति ।
अत्यर्थाध्वगमनाद्दिवसकरकराभिहतदेहस्य संतापाद्रुद्धेभ्यो रुधिरागमः, पिपा-
सात्वक्संकोचोरुस्तम्भाः, श्र(स्र)स्तकरचरणकर्णवालमेहनत्वं च भवति । स
दिवसकरकरदग्धतनुर्यदा ग्रहणमुपगतो भवति द्विरदपतिः, ततोऽस्य मन-
स्तापः, यवसकवलकुवलानामपयुक्तानां स विदाहमुपजनयति । स विदग्धो
धातुत्वङ्मांसधमनीसिरास्नायूनां भूयो भूयो विदाहमभिनिर्वर्तयति । तस्य
संतापद्ग्धोत्पन्नास्तीक्ष्णवेदनाः शरीरे कृष्णपर्यन्ताः सिताः स्फोटाः शोषरुग्दा-
हप्राया भवन्ति । इत्येतत्संतापद्ग्धस्य लक्षणम् ॥
अभ्यासादाशीर्वि(वि)षाणां निःश्वासग्रहणनयनैः संमूर्च्छितकोपानां संनिपाता-
द्विरदपतिगात्रेषु रक्तमण्डलानि प्रादुर्भवन्ति। प्रियङ्गुतण्डुलवर्णैः स्फोटैरुपचयोऽ-
प्रतिकारोदस्य मांससादः पिपासा वेपथुर्वमथुरभीक्ष्णं संभवति । इत्येतदाशी-
र्वि(वि)षदग्धलक्षणं भवति । इति सद्यःक्षतदग्धमशेषेणोक्तमस्माभिः ॥
व्रणस्तु सर्व एव किंचित्कालमागन्तुर्भूत्वा दोषाणामन्यतमसंसर्गमुपगम्य
सदोषो भवति । तस्याऽऽकृतिविशेषाद्व्रणकरणाविशेषाणामन्यतमेनाऽऽहतस्य
तांचिकित्सितमुपदेक्ष्यामः—
अथ सद्यःक्षतं मधुघृताभ्यक्तं कृत्वा विमलशिशिरसलिलं द्विरदमवगाहये-
द्चिरात्रम् । एवं क्रमेणानुबध्नीयात् । ततः क्लिन्नोत्थितव्रणमपि विज्ञेयपूतिमां-
सावनद्धमुत्सङ्गयुक्तं गत्या वा ततः शस्त्रेण पूतिमांसं विशोध्यैषण्याऽन्वेषणमसंमूढः
कृत्वा, यत्रैषण्या गतिर्नावरुध्यते ततो व्रणं निरुत्सङ्गं सालिलानवस्थाथिनं
कुर्यात् । सालिलं हि रक्तमूर्च्छितं वायुनोच्छ्रितत्वं पूयत्वं च व्रजति । पूयः
स दोषमूर्च्छितो गतिमापादयांत । तं घृतेनावासिच्य गजशकृतेन किण्वलवण-
१ क. °त्वक्चल° । २ क. °र्थमुपलभन्ते । के° । ३ क. °ताक्ष्णोशोष° ।
४ क. °भ्यासन्नैर्दाशी° । ५ क. °रास्पद° । ६ क. °कित्सामु° । ७ क °स्त्रेणा-
त्यमां° ।
[-षं सद्यःक्षताध्यायः ] हस्त्यायुर्वेदः । ३७३
संयुक्तेन पूरयेत् । उपचरति मासार्धव्य(?) येष्वपि पूरणं दद्यात् । तृतीये
चाहनि यथोक्तेन प्रक्षालनेन प्रक्षाल्य व्रणं घृतेन परिषेचयेत् । अनेनैव
विधिना व्रणमुपाचरेदाक्लेदात् । ततः शोधनादिकल्कैरुपक्रमेत्, घृतपानं च
दद्यात् । घृतसंयुक्तं शाल्योदनं मुद्गयूषेण संसृष्टं दद्यात् ॥
अथ सिंहव्याघ्रनखदंष्ट्रावलुप्तमभिविज्ञाय शतधौतेन घृतेनाभ्यज्य पञ्चकषा-
येण विमलशिशिरसलिलेन परिषेचयेत् । शीतैस्तु प्रदेहैर्घृतसंयुक्तैश्च प्रदेहयेत् ।
व्रणांश्च व्रणोपक्रमैरुपक्रमेत् ॥
अग्निदग्धं तु शतधौतेन घृतेनाभ्यज्य निर्वापयेत्पयःसुराभ्योऽन्यतरेण वा
शीतैश्च प्रदेहैः, मञ्जिष्ठायष्टीमधुकचन्दनोशीरपद्मकनलवञ्जुलशालिमूलसारिवा-
र्जुनोदुम्बरप्लक्षैः, वटनालिकानलजविशमृणालोत्पलपद्मिनीकर्दमभद्रमुस्ततृण-
शूल्यैश्च सुरादधिघृतयुक्तैः प्रदेहं कुर्यात् । कषायोदकपिष्टैः परिषेकांश्च कुर्यात् ।
व्यपगताग्निमभिज्ञाय विमलशिशिरसलिलेऽवगाहयेत् । निवृत्तमवगाहाद्घृतेन
परिषेचयेत् । व्रणं च पूर्वोक्तैरुपक्रमैरुपक्रमेत् । गुडजतुमधूच्छिष्टामेध्यदग्ध-
( *ऽनलदग्धसमानक्रियं तस्योपक्रमं कुर्यात् ।) घृतेनाभ्यज्य शीतैः प्रदेहैरुप-
क्रमेत् ॥
अर्कविद्युत्सन्तापदिग्धस्य............ *समानमुपक्रमं कुर्यात् । संतापदिग्धं
तु विशेषेणाऽऽहारैः सात्म्यकालाविरुद्धैरुपाचरेत् । घृतयुक्तं च शालीनामोदनं
मुद्गयूषरसंयुक्तं दद्यात् ॥
क्षारदग्धं च द्विव्रणीयेन क्षारकर्मण्युपदिष्टेनोपक्रमेत् । घृतमधुघृतेनाभ्यज्य
शीतैः प्रदेहैरुपक्रमेत् ॥
विषदग्धं च शस्त्रकर्मादिभिरुपक्रमेत् । दग्धं चाऽऽशीविषनिःश्वासैः शत-
धौतेन घृतेनाभ्यज्य विषजग्धोद्दिष्टैः प्रदेहैरुपक्रमेत् । घृतपानं च दद्यात्, शीत-
परिषेकं च कुर्यात् । भोजनं विषजग्धोद्दिष्टं दद्यात् ॥
तत्र श्लोकः—
क्षतं दग्धं च यो नागे(गं) विधिना समुपाचरेत् ।
पूज्यः स नियतं राज्ञा दानमानपरिग्रहैः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यरोगस्थाने
सद्यःक्षतलव(क्ष)णं नाम द्वितीयोऽध्यायः ॥ २ ॥
* खपुस्तके त्रुटितः ।
१ क. ॰दिभिः क॰ । २ क. ॰गाह्ये॰ । ३ क. ॰दग्धं ।
३७४ पालकाप्यमुनिविरचितो- [३ शल्यस्थाने-
अथ तृतीयोऽध्यायः ।
नन्दनोपवने पुण्ये नानाद्विजसमाकुले ॥
आश्रमे स्वर्गसोपाने महर्षिगणसेविते ॥ १ ॥
हुताग्निहोत्रमासीनं ज्वलन्तमिव पावकम् ॥
पालकाप्यं महातेजा अङ्गराजो महायशाः ॥ २ ॥
प्रणम्य शिरसा तस्मै संशयं परिपृष्टवान् ॥
सद्यःक्षतविधानं तु भगवन्वक्तुमर्हसि ॥ ३ ॥
छिन्नविच्छिन्ननिर्विद्धं सावनष्टाविदारिते ॥
उत्तुण्डितेऽतिविद्धे च तथा विद्धावमृष्टयोः ॥ ४ ॥
दग्धे दूषीविषे चैव क्षतेषु विविधेषु च ॥
विध्यं(धिं) सद्यःक्षते नागे कृपया वक्तुमर्हसि ॥ ५ ॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥
शृणु भद्रमुख स्वस्थो यत्त्वं पृच्छसि संशयम् ॥ ६ ॥
अतिदीर्णव्रणानां तु विधिरन्यः प्रवक्ष्यते ॥
पतङ्गं मधुसर्पिभ्यां संयुक्तं मनुजाधिप ॥ ७ ॥
सद्यःक्षतेषु नागानां संधानं हितमुत्तमम् ॥
गम्भीराणां तु सर्वेषामेषण्या निर्दहेदसृक् ॥ ८ ॥
श्वेताभासो व्रणो यस्तु तस्मिन्नक्तं न निःस्रवेत् ॥
वृक्षोत्सङ्गी व्रणो यस्तु तस्मिन्नक्तमतिश्रु(स्रु)तम् ॥ ९ ॥
दूषयेत्तु प्रदुष्टं तत्स्व(च्छ्र)पथुं च नियच्छति ॥
संतापयति तिष्ठन्तं पाकं चाऽऽशु नियच्छति ॥ १० ॥
तस्माद्व्रणं शोधयित्वा घृतेन परिषेचयेत् ॥
संसृष्टां मधुसर्पिभ्यां वर्ति चात्र प्रवेशयेत् ॥ ११ ॥
अथ निष्कृष्य तां वर्तिमिमं विधिमुपाचरेत् ॥
कुमुदोत्पलपत्राणि हीवेरं च कुटंनटम् ॥ १२ ॥
करवीरस्य पत्राणि क्षीरवृक्षत्वचस्तिलान् ॥
कृष्णमृत्तिकया सार्धं दृषद प्रतिपेषयेत् ॥ १३ ॥
घृतेन शतधौतेन संप्रोज्याथ प्रलेपनम् ॥
शीतक्रियांमिमां वाऽन्यां यथावत्समुपाचरेत् ॥ १४ ॥
१ क. वृत्तोत्सङ्गी । २ क. प्रदिष्टं । ३ क. संसृष्टं ।
कन्दैर्बिशमृणालानां क्षीरवृक्षत्वचाऽन्वितैः ॥
छायायां परिषेकं हि कारयेद्विधिवद्भिषक् ॥ १५ ॥
अभ्यङ्गैः परिषेकैश्च शीतैः पानैर्घृतस्य च ॥
सुखमस्य भवेत्तेन न च दोषः प्रबाधते ॥ १६ ॥
अभिघाताद्विषाद्वाऽपि द्विपस्य श्वयथुर्यदा ॥
उत्पद्यते भिषग्वीरस्तदेनं कारयेद्विधिम् ॥ १७ ॥
चन्दनं पद्मकं पत्रं १शैवलं सुनिषण्णकम् ॥
क्षीरपिष्टानि सर्वाणि घृतेनैतत्प्रलेपनम् ॥ १८ ॥
सर्पिषाऽभ्यञ्जनं कार्यं प्रदेहो वा न संशयः ॥
अथवैतेन कल्पेन विशेषो नोपलभ्यते ॥ १९ ॥
कुठाराकृतिकशस्त्रेण तत२स्तं प्रच्छयेद्भिषक् ॥
नातिगाढं न च लघुं न घनं विरलं न च ॥ २० ॥
पदे पदं न दद्याच्च शिरासंधींश्च वर्जयेत् ॥
जम्बूशीरपलाशैश्च पद्मिन्याश्चैव कर्दमैः ॥ २१ ॥
लेपयेद्धृतसंयुक्तैस्ततः संपद्यते सुखी ॥
ईषत्कषायमधुराः कषायास्तु रसास्तिलाः ॥ २२ ॥
रक्तपित्तानिलहरास्तेषां कल्कः प्रशस्यते ॥
कषायात्तु रसाच्छ्लेष्मा माधुर्यात्पित्तमेव च ॥ २३ ॥
स्नेहाच्च शमयेद्वातं तस्मात्कल्कोऽपमिष्यते ॥
घृष्टेदष्टविदग्धानां क्षीरवृक्षत्वचाऽन्वितः ॥ २४ ॥
हितो गजानामत्यर्थं लेपः सद्यःक्षतेषु च ॥
उद्गमो द्विविधो राजन्यदि मर्माश्रितो भवेत् ॥ २५ ॥
सुपक्वं छेदयेदाशु नापकं तु कदाचन ॥
मर्मसंरक्षणार्थं च यत्नं कृत्वा तु दन्तिनाम् ॥ २६ ॥
दोषमन्तरतः कृत्वो ततः शस्त्रं निपातयेत् ॥
मर्मण्यभिहतो यस्माद्द्विपो मरणमृच्छति ॥ २७ ॥
मर्मेति मारणादुक्तं नैरुक्तेनैव हेतुना ॥
निमित्तैर्विविधैर्देहं गजानां विवृणोति यत् ॥ २८ ॥
तस्माद्धि वारणेन्द्राणां व्रण इत्यभिधीयते ॥
रूढेऽपि हि व्रणे यस्माद्व्रणवस्तु न नश्यति ॥ २९ ॥
१ क. शैलेयं । २ क. ०स्तं पृच्छ० । ३ क ०दृष्ट० ।
Here is the Devanagari text transcription of the Sanskrit verses from the provided image:
३७६ पालकाप्यमुनिविरचितो- [३ शल्यस्थाने-
आ देहधारणादेव व्रण इत्यभिशब्दितः ॥
अर्बुदा गलगण्डाश्च ये च संधिगता व्रणाः ॥ ३० ॥
एतान्क्षारैरुपक्रान्मेन्नेतांञ्छस्त्रैरूपाचरेत् ॥
संनिपातैस्तु दन्तानां ( *दारितानां ) द्विपादिभिः ॥ ३१ ॥
भिण्डिमालैः सकणयैरसिशक्त्यृष्टितोमरैः ॥
भिन्नमर्मशिरा गाढं वहन्ति यदि शोणितम् ॥ ३२ ॥
अतिप्रवृत्ते रुधिरे लभेयुरपतानकम् ॥
मूर्छां वा दारुणां नागाः क्षयं मरणमेव वा ॥ ३३ ॥
तेष्वसृक्स्थापनं कार्यमेभिः सर्वैरुपक्रमैः ॥
कषायवृक्षचूर्णैर्वा भस्मना गोमयस्य च ॥ ३४ ॥
भस्मना तान्तवानां वा शोणितस्थापनं भवेत् ॥
(†शीतैः पानैश्च सेकैश्च शोणितस्थापनं भवेत्) ॥ ३५ ॥
अथवैतेन कल्पेन शोणितं नैव तिष्ठति ॥
अग्निकर्म ततः कुर्यात्क्षारं चात्र प्रदापयेत् ॥ ३६ ॥
न चातिक्रामयेद्वेलां समुद्रः समये स्थितः ॥
न चातिक्रमितुं शक्यमग्निक्षारादसृग्बलात् ॥ ३७ ॥
अत्यम्ललवणात्युष्णादत्याशात्यम्बुसेवनात् ॥
असृक्स्थितं चिरमपि वारणस्य प्रवर्तते ॥ ३८ ॥
नात्यम्लं नातिलवणं नात्युष्णं नातिभोजनम् ॥
नात्यर्थमम्बुपानं च तस्मान्नागाय दापयेत् ॥ ३९ ॥
अभिघातात्प्रकुप्येत वायुः पित्तं च दन्तिनः ॥
तस्मात्सद्यःक्षते नागे घृतमेव हितं भवेत् ॥ ४० ॥
पञ्चाहं सप्तरात्रं वा व्रणं स्नेहेन सेचयेत् ॥
दोषातिरिक्तं विज्ञाय व्रणं प्रकृतिसात्म्यतः ॥ ४१ ॥
क्रियापथं प्रयुञ्जीत पंथ्यश्वास्मै प्रदापयेत् ॥
ततोऽङ्गराजः पप्रच्छ विनयात्पुनरुत्थितः ॥ ४२ ॥
किमर्थं दीयते क्षीरं व्रणितेभ्यो महामुने ॥
इत्येवमुक्तः शिष्येण पालकाप्यस्ततोऽब्रवीत् ॥ ४३ ॥
- कपुस्तके त्रुटितः । † खपुस्तके नोपलभ्यते ।
१ क. भिण्डिपालैः । २ क. अथास्यैते° । ३ क. पथ्यं चास्मै । ४ क. ख.
शेषेण ।