सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 377, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 377

३५६ पालकाप्यमुनिविरचितो- [ १ शल्यस्थाने-
स्थिरा मृद्वी च कर्तव्या व्रणानामेषणी भवेत् ॥
वृत्ता गण्डूपदमुखी प्रमाणे त्रिंशदङ्गुली ॥ ११० ॥
सुवर्णरूप्यताम्राणामायसी शृङ्गजाऽपि वा ॥
दन्तास्थिवेणुदारूणामेषणी दारुणा भवेत् ॥ ११ ॥
एते त्वष्टाविह ज्ञेया व्रणस्योपक्रमाः पृथक् ॥
आयसीं संसृ(श्रि)ता योनिं शृणु चैषामुपक्रमम् ॥ १२ ॥
यो न गच्छेत्प्रशमनं स्व(श्व)यथुः प्रविलापनैः ॥
तस्य विश्रा(स्रा)वणं कार्यं भवेत्पक्वस्य भेदनम् ॥ १३ ॥
दालनं विषमे पाके बहुलौष्ठस्य लेखनम् ॥
उद्रमस्य कटस्थस्य सर्वैत्राऽऽच्छेदनं हितम् ॥ १४ ॥
यथायोगं तु कर्तव्यं गतेरन्वेषणं व्रणे ॥
द्विविधस्य तु शल्यस्य यन्त्रैराहरणं भवेत् ॥ ११५ ॥
सूच्या संसीवनं कार्यं तत्र भागेषु दन्तिनाम् ॥
दारितानां व्रणकरैः सद्यः सरुधिरे व्रणे ॥ १६ ॥
शस्त्रं सुतिर्यगूर्ध्वं वा भिषगस्थिगतं तथा ॥
सिरामर्माभिघाताद्वा प्रमादान्निपातयेत् ॥ १७ ॥
यस्तु यन्त्रशरैर्वाऽपि दन्तैर्वा प्रतिहस्तिनाम् ॥
स्याद्व्रणश्छिद्रपिशितो मर्म वा किंचिदाश्रितः ॥ १८ ॥
तस्मात्प्रच्छन्नपिशिते कार्यं कार्यवशाद्भवेत् ॥
उन्मार्गच्छेदनं वैवैर्मर्मसंरक्षणाद्व्रणे ॥ १९ ॥
इत्येते शास्त्रनिर्दिष्टा व्रणसिद्धावुपक्रमाः ॥
—:०:—
आयसीप्रभवा राजन्कार्या नानाविधात्मकाः ॥ १२०॥
शस्त्रकर्मणि नियुक्ते बलिहोममयी क्रिया ॥
व्रणशान्तिर्भवेत्कार्या यथोक्ता यज्ञकर्मणि ॥२१॥
औषधीसंश्रिता योनिः पृथक्शोधनरोपणे ॥
इमे विशेषा विज्ञेयास्त्वष्टौ शास्त्रविनिश्चयात् ॥ २२ ॥
वर्तिः कषायः कल्कश्च घृतं तैलं रसक्रिया ॥
चूर्णं धूपनमित्याहुर्विभागादष्टमं पदम् ॥ २३ ॥
१ क. मता । २ क. ॰वैशश्छेद॰ । ३ क. ॰च्छिन्नपि॰ । ४ ख. निर्द्दिष्टे ।
५ क. ॰पायकल्कस्य घृ॰ । ६ क. रसक्रिये ।