सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 385, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 385

३६६ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
एतद्व्रणानां विज्ञेयं समांसं(शं) चूर्णशोधनम् ॥
सैन्धवक्षौमशस्त्राणि लेखनं त्रिविधं स्मृतम् ॥ १९ ॥
तत्र वक्ष्यामि यो येन व्रणो लेखनमर्हति ॥
उत्सन्नं कठिनौष्ठं च व्रणं शस्त्रेण लेखयेत् ॥ २२० ॥
श्यावं नीलासभासं च सैन्धवेनावलेखयेत् ॥
व्रणं क्षौमेण मृदुना सरुजं लेखयेन्मृदु ॥ २१ ॥
इत्येतदभिनिर्दिष्टं त्रिविधं व्रणलेखनम् ॥
सर्षपा लशुनं चैव वार्त्ताकी सौरसो रसः ॥ २२ ॥
नागरं गृहधूमश्च फणिज्जकरसस्तथा ॥
एतद्रोमूत्रसंयुक्तं सुव्यक्तलवणीकृतम् ॥ २३ ॥
कण्डूविलयनं श्रेष्ठं दन्तिनामरुजां भवेत् ॥
मरिचान्यजशृङ्गी च सर्षपाः सफणिज्जकाः ॥ २४ ॥
सैन्धवं लशुनं चैव कृमिघ्नः स्यादुपक्रमः ॥
—:(०):—
कषायैर्विधिना लैपैश्चूर्णयोगैश्च कारयेत् ॥ २२५ ॥
व्रणानां मृदुमांसानां निपुणां दारणक्रियाम् ॥
कषायवृक्षचूर्णेन भस्मना गोमयस्य च ॥ २६ ॥
—:(०):—
भस्मना तु नवानां वा शोणितस्थापनं भवेत् ॥
तत्रासिद्धौ भवेत्कार्यमसृक्स्थापनमग्निना ॥ २७ ॥
—:(०):—
तोपिकाफालजाम्बवौष्ठैस्तप्ततैलेन वा पुनः ॥
तालपत्री विडङ्गानि मञ्जिष्ठा मधुकस्तथा ॥ २८ ॥
रजनी मधुपर्णी च तथाऽपामार्गतण्डुलाः ॥
उत्सादनं भवेदेतद्व्रणानां घृतसंयुतम् ॥ २९ ॥
इमामन्यां प्रवक्ष्यामि पुनरुत्सादनक्रियाम् ॥
काकादनी शुकनासा सुवहा तालपत्रिका ॥ ३३० ॥

१ ख. °मवस्त्रा° । २ क. लेषये° । ३ क. °लेषनम् । ४ ख. कखायै° ।
५ क. गोपयितस्य । ६ क. तालिका° ।