सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 388, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 388

१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । १६९
निम्बार्करजनीपत्रैर्मृगाक्ष्या मूलसंयुतैः ॥
पचेत्तैलं भिषग्धौरो व्रणरोपणमुत्तमम् ॥ २६५ ॥
एतैरेवौषधैः सर्वैः शिशपासारमिश्रितैः ।
दुष्टव्रणेषु राजेन्द्र तैलं रोपणमुत्तमम् ॥ ५६ ॥
—:०:—
प्रियङ्गुका सर्जरसः पुष्पकासीसमञ्जनम् ॥
रोचना मधुकं रोध्रं चूर्ण रोपणमिष्यते ॥ ५७ ॥
—:०:—
तिनिसाऽर्जुनसर्जानां शिशपासोमवल्कयोः ॥
खदिरस्य च निष्क्वाथो निम्बस्य च समावपेत् ॥ ५८ ॥
रसाञ्जनं रोहिणीं च मातुलुङ्गरसस्तथा ॥
कासीसं हरितालं च रोपणी स्याद्रसक्रिया ॥ ५९ ॥
(†व्रणदोषाविरोधेन यथासात्म्यं यथावयः ॥
यथाग्नि चेति कर्तव्या क्षीणानां बृंहणक्रिया ॥ २६० ॥ )
गौरी हरिद्रे मधुकं मञ्जिष्ठा नीलमुत्पलम् ॥
पटोलारिष्टपत्राणि मालतीनक्तमालयोः ॥ ६१ ॥
घोण्टाफलत्वङ्मञ्जिष्ठा फांलनी रोध्रमेव च ॥
एतेनैव विधानेन क्रमयुक्तेन दन्तिनाम् ॥ ६२ ॥
स्थूलानां हासनं कार्यं व्रणिनां भिषजा भवेत् ॥
सोमवल्कप्रवालानि मदयन्ती मनःशिला ॥
मधुकं चेति जानीयाद्व्रणवर्णप्रसादनम् ॥ ६३ ॥
मधुकं मधु मञ्जिष्ठा क्षुद्रैला गोशकृद्धृतम् ॥
सवर्णकरणं ज्ञेयं दूर्वा सकटशर्करा ॥ ६४ ॥
इतीदं पालकाप्येन द्विव्रणीयस्य लक्षणम् ॥
कृत्स्नं भगवता प्रोक्तमङ्गराजाय धीमते ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ २६५ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने श्रीपाठे वृद्धोपदेशे तृतीये
शल्यस्थाने द्विव्रणीयो नाम प्रथमोऽध्यायः ॥ १ ॥
† कपुस्तके त्रुटितम् ।
१ ख. ॰तुलिङ्ग॰ ।
४७