सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 381, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 381

पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
स बध्नीयान्न शिथिलो बन्धः स्तब्धो न वामतः ॥
अपीडया सुखं रोहेन्नापि पित्तहतो भवेत् ॥ ६६ ॥
निवसेदौषधं बन्धाद्वायुः श्लेष्मा च शाम्यति ॥
नाबन्धनाय बन्धं च वातिबन्धं च सारिकम् ॥ ६७ ॥
बद्धाबद्धं ने शिथिलं श्वध्री(?) जानाति मापत्तिम्(?) ॥
न रोपयेन्न पीडेत वस्त्रेण बाध्यते च तत् ॥ ६८ ॥
सायाह्ने चौषधैनैन सम्यक्शुद्धस्य वै गुणाः ॥
अशुद्धं साधयेच्चास्य शुद्धं तु रोपयत्यपि ॥ ६९ ॥
संगृह्णात्यौषधं वाऽपि सम्यग्बद्धस्य लक्षणम् ॥
हेमन्ते शिशिरे चैव वसन्ते च विमोक्षयेत् ॥ १७० ॥
द्व्यहात्त्र्यहाच्छरद्ग्रीष्मे वर्षास्वपि च बुद्धिमान् ॥
पोतैः कार्पासकैः क्षौमैः कौशेयैश्च विचक्षणः ॥ ७१ ॥
पत्रैर्वल्कैश्च ताम्रैश्च तथा स्याल्लोहपट्टकैः ॥
व्रणा बन्ध्या यथालाभमुपनाहैश्च तत्त्वतः ॥ ७२ ॥
येन येन च बन्धेन यो व्रणः सुखबन्धनः ॥
स तेन तेन बन्धेन बन्धितव्यो विजानता ॥ ७३ ॥
इत्येवं बन्धकल्पस्तु व्याख्यातस्ते यथाक्रमम् ॥
व्रणाः शिशिरसात्म्यानां नागानां बन्धनोष्मणा ॥ ७४ ॥
प्रायैः शुषिरमांसत्वाद्विसर्पन्ति समन्ततः ॥
तस्माच्चे स्वेदेनः साध्द्यास्तान्व्रणान्नबन्धयेद्भिषक् ॥ १७५ ॥
बन्धयोगवहां बुद्धिं कृत्वैषां प्रविचक्षणः ॥
उपरूढस्तु वैवर्ण्य यदि वातादिभिर्भवेत् ॥ ७६ ॥
व्रणस्तस्य भवेत्कार्यं वैद्यैर्वर्णप्रसादनम् ॥
सवर्णकरणं कार्यमुपरूढे व्रणे भवेत् ॥ ७७ ॥
इत्येते शास्त्रतः प्रोक्ता व्रणसिद्धावुपक्रमाः ॥
उपक्रमाणामेषां तु यथोक्तानां विभागशः ॥ ७८ ॥
१ क. च । २ क. पिण्डेत । ३ क. ॰धे चैव स॰। ४ क. ख. ॰यः सुशिर॰।
५ क. ॰दनेऽसा॰ ।