सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 384, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 384

१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३६५
पटोली काकजङ्घी च द्रवन्ती कृतवेधना ॥
हरिद्रा निम्बपत्राणि तथा कटुकरोहिणी ॥ ६ ॥
अजेगुल्यश्वपत्राणि घृताक्तं कल्कशोधनम् ॥
तृ(त्रि)वृता शृङ्गवेरं च स्नुह्यर्कक्षीरमेव च ॥ ७ ॥
तेजोवती लाङ्गलकी कुष्ठं हिंस्रा च चित्रकः ॥
रजनी सैन्धवं चैव तथा कटुकरोहिणी ॥ ८ ॥
पिप्पलीमूलनिर्यूहैः शुद्धं सर्पिर्विशोधनम् ॥
बृहती कटुका रोधं कोशातक्याः फलानि च ॥ ९ ॥
मदनं त्रपुसी काला सर्षपा रजनी तथा ॥
पिप्पल्यश्वावगन्धा च मूर्वा पोतांऽथ चित्रकः ॥ २१० ॥
दुष्टानामरुजामेतत्तैलं शोधनमिष्यते ॥
त्रिफलातगरोशीरं हरिद्रा तालपत्रिका ॥ ११ ॥
मुस्ता दारुहरिद्रा च (※कर्पासीपत्रमेव