सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 387, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 387

३६८ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने-
एषोऽपि विहितो धूपो गजानां व्रणरोपणः) ॥
—:०:—
बला चातिबला चैव कुशमूलं तथोषटा ॥ ४३ ॥
मधुगन्धाऽश्वगन्धा च वर्तिः स्यात्तुष्टिरोहिणी ॥
जीवन्ती चाश्वकर्णश्च कुम्भी काक्षीव एव च ॥ ४४ ॥
विदारी चारिमेदश्च पलाशः किणिही धवः ॥
आरग्वधोऽथ टिण्टूको मञ्जिष्ठा मधुकं तथा ॥ ४५ ॥
अश्वगन्धा च गोजी च क्षीरवृक्षत्वचस्तथा ॥
एष कल्को भवेद्देयो रोपणो घृतसंयुतः ॥ ४६ ॥
—:०:—
स(श)ल्लकी क्षीरवृक्षश्च मधूकारमन्तकासनाः ॥
जीवन्ती चारिमेदश्च कुम्भी काक्षीव एव च ॥ ४७ ॥
आदारी चाँश्वकर्णश्च पलाशः कुटजस्तथा ॥
व्रणानां रोपणं चैव कषायं कथितं भवेत् ॥ ४८ ॥
—:०:—
भार्गी सर्पपगन्धा च मञ्जिष्ठा रजनीद्वयम् ॥
स्वयंगुप्ता च पाठा च घृतं रोपणमिष्यते ॥ ४९ ॥
एतैस्तु कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत् ॥
जलाढके समावाप्य शनैर्मन्दानिना पचेत् ॥ २५० ॥
छिन्नभिन्नेषु विद्धेषु नाडीदुष्टव्रणेषु च ॥
※दिग्धविद्धेषु वाऽप्येतद्घृतं शोधनरोपणम् ॥ ५१ ॥
चन्दनागुरुमञ्जिष्ठाशतपुष्पाप्रियङ्गवः ॥
बला कालानुसारी च शतपुष्पाः हरेणवः ॥ ५२ ॥
ताँलीपत्नं च तगरं रोध्रं व्याघ्रनखं ( तथा ॥
भद्रदारु ) तथैला च द्वे हरिद्रे पुनर्नवा ॥ ५३ ॥
कुष्ठं प्रपौण्डरीकं च अञ्जनं मधुकं मधु ॥
मधूच्छिष्टेन संयुक्तं तैलं रोपणमिष्यते ॥ ५४ ॥

  • 'दग्ध' इति प्रतिभाति । † कपुस्तके त्रुटितम् ॥
    १ क. स्यात्कुष्ठरो० । २ क. ०श्वगन्धा च कु०। ३ ख. ०चाश्वकर्णश्च ।४ ख.
    चारिमेदश्च । ५ क. चैतत्कषा० । ६ क. हरीतकी । ७ क. तालीसपत्रं त० । ८ क.
    ०थैचले द्वे ।