सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 389, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 389

१७० पालकाप्यमुनिविरचितो— [१ शल्यस्थाने
अथ द्वितीयोऽध्यायः।
प्रतपन्निव भास्वन्तं मयूरकवचं दिवि।
ऋषिं ब्रह्मविदां श्रेष्ठमादित्यसमतेजसम् ॥
अङ्गराजो महाबुद्धिः पालकाप्यं स्म पृच्छति।
द्विविधस्य व्रणस्येह निदानं सचिकित्सितम् ॥
गजानां ब्रूहि तत्त्वेन तत्त्वार्थकुशलो ह्यसि।
इत्येवमुक्तः शिष्येण ब्रह्मर्षिरखिलं ततः ॥
व्याजहारोत्तरं श्रीमान्वाक्यं वाक्यविदां वरः ॥
अथातः सद्यःक्षतं नामाध्यायं व्याख्यास्यामः। इति ह स्माऽऽह भगवान्पा-
लकाप्यः।
इह खलु भो(१) सद्यःक्षतमखिलमादावेव शृणु भद्रमुख, शरशक्त्यृष्टितोम-
रपरश्वधविषाणाद्यभिहतशरीरा रुधिरमुद्वमन्त इह गजा दृश्यन्ते व्रणेभ्यः,
व्याघ्रसिंहनखदंष्ट्रावलुप्ताश्च। तेषां व्रणाभिघातलक्षणमशेषेण स्थानगतिसंस्था-
नप्रमाणविशेषांश्च वक्ष्यामः।
तत्र द्विविधो ह्यात्मा व्रणानाम्—आगन्तुः शरीरसमुत्थश्च। तत्राऽऽगन्तुरेकः।
स तु नानास्त्राभिघातविशेषादनेकाकृतिविशेषान्पुष्णाति। तत्राऽऽकृष्टशरास-
नविप्रमुक्तस्येषोश्चतुर्विधो गतिविकारः प्रादुर्भवति—विद्धस्तुण्डितोऽतिविद्धो
निर्विद्ध इति। तत्र पञ्चविधसंस्थानगतिविचारमाचष्टे तं कर्णिकार्नालिकानारा-
चार्चचन्द्रवत्सद्दन्तैर्गम्भीरगतिविषममेकतो गतिभेदमपगतं विद्धं विद्यात्।
(*तुल्यवेगमर्तिसंस्थानप्रचारमीषत्पतनत्वचो विशेषगतिर्निर्भिन्नान्तरत्वचमुत्तु-
ण्डितं विद्यात्। उभयतो निर्भिन्नसायकं त्वङ्मांसशिरास्नायू''''''''दमभिविद्धं
विद्यात्। एवमेव विद्धोत्तुण्डिताभिविद्धगतिमतीत्य शरीरमपास्य यत्सायको
व्रजति तं निर्विद्धम्।
प्रायस(श)स्तु महाकायत्वाद्वारणानाम्, अल्पप्राणत्वाद्ध्यश्वकानामुत्तुण्डिताभि-
विद्धनिर्विद्धानि मन्दमुपलभ्यन्ते ॥
उद्भान्तविस्रुतातिविद्धनिस्रुतां गतिमुपगच्छतां व्रणानां छिन्नविच्छिन्नदा-
रितावनष्ठोन्नष्टानामित्यत्र पञ्चविधो व्रणविच्छेदविशेषोऽभिवर्तते। तत्र यदङ्गं
* कपुस्तकत्रुटितोऽयं पाठः॥
१ क. ॰र्षिस्तं ततः पुनः॥ व्या०। २ क. ॰रमन्तर्देहा ग०। ३ क. ॰तोऽ-
भिवि०। ४ क. ॰नालीकाकारावर्ध०।