सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 390, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 390

२ सद्यःक्षताध्यायः ] हस्त्यायुर्वेदः । ३७१
परशुपट्टिशकरपत्रैरशेषं निवर्त्यते तच्छिन्नमिति विद्यात् । तत्र तत्रैवानेक-
शोऽङ्गे तिर्यगुपगतः प्रहारसंनिपातो यत्र दृश्यते तद्विच्छिन्नमिति विद्यात् ।
अङ्गुल्यग्राभ्यन्तरे हस्ते लाङ्गूले नखे शिरसि कर्णयोर्वा यत्र द्विधा भेदमभि-
वर्तते तं दारितं विद्यात् । यदनुलोमं यावदस्थि कृत्यते मांसमेदःशिरास्नायूप-
पगतं तदवनष्टं विद्यात् । अवनष्टाद्विशेषेण केवलं प्रतिलोममुन्मृष्टं विद्यात् । )
तत्र तदवच्छिन्नं विच्छिन्नं दारितमवनष्टमुन्मृष्टमतिविद्धावकृत्तसंभवानि ( ? ) ।
अवमृष्टं द्विविधम्—गम्भीरान्तरगतत्वाद्दिपुलमुखत्वाच्च । व्रणस्यावकृन्त-
नात्सहसाऽन्त्राण्यवसरन्ति तदा छिन्नान्त्रं क्लिष्टान्त्रं वा विद्यात् । छिन्नान्त्रस्य
रुधिरं मेहनात्प्रवर्तते, सर्वशश्चादभीक्ष्णमुद्विजति, अन्नं चोष्णमुद्गमति, उन्न-
द्धकुक्षिः क्षितितलमभिगम्य पतति भूमाविति, मुहुर्मुहुर्हस्तं गृह्णाति । अस्य
विपर्यये क्लिष्टान्त्रम् । क्लिष्टान्त्रे¹ तु क्रियां प्रयुञ्जीत ।
तत्र तावदवकृत्तमाचार्यास्त्रिविधमुपदिशन्ति—विरक्तावपाटितावगाढम् ।
तत्रान्तर्लोहितमुपगतमांसश्वेतमीषत्संचयोपगतं² विरक्तं विद्यात् । अण्डकोश-
बस्त्युदरगुदेषु पार्श्वयोर्मूर्ध्नि गात्रापरे हस्ते वा यावदामांसमवगतमवपाटितं
विद्यात् । परशुपट्टिशकरपत्रादिघातैरङ्गमप्रत्यङ्गेषु यावदस्थ्यनुपगतमवगाढं
विद्यात् ।
गात्रापरे³ग्रैवेयरज्जुभिर्गाढबन्धननिमित्तैः................⁴रंस्या भागोपगतै-
श्चातिकर्कशैर्निघृष्टं भवति ।
तत्राशनिपतनजतुमधूच्छिष्ठगुडा मेध्यपाचकार्काशीर्वि(वि)षाङ्गारैर्दग्धमुत्प-
द्यते। तत्र ज्वालाङ्गारपरंपराबाष्पसंतापात्मकं पञ्चविधं दग्धं ब्रुवन्त्याचार्याः। तत्र
पञ्चविधस्याग्नि(पि)दग्धस्य पिपासा त्वक्शोषो वेपथुः श्वयथुरिति सामान्यवे-
दनात्मकानि लिङ्गानि भवन्ति ।
अथ त्वग्गतोष्मण्यभ्यन्तरगतेऽग्नौ नात्यर्थदाहस्फोटाः संभवन्ति त्वग्गताः ।
मांसगते त्वनले प्रकुथितमांसेजाऽसृगतिगमनं च भवति ।
यदा त्वङ्मांसमभिभूय शिरास्नायूपगतो भवत्यनलः, तदा मूर्छति, अत्यर्थं
कालपर्यायाच्च⁵ व्रणेषु संरोहत्सु⁶ सिरास्नायूनां संकुचनं भवति ॥
त्वङ्मांसशिरास्नायुमार्गमतीत्य यदा हुतभुगभिभवत्यनेकपं, तदा दाहमू-
र्छाभ्रमकम्पप्रमोहा यथोक्तानि च त्वङ्मांसशिरास्नायुलिङ्गानि भवन्ति ।
१ क. ०न्त्रेषु क्रि० । २ क. ०तमिक्षसंच०। ३ ०ररागैरयं र०। ख. ०रग्रैवेयं
र०। ४ क. रास्योप० । ५ क. ०त्यर्कं कालपर्याया० । ६ क. संहरत्सु ।