सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 380, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 380

१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३६१
वर्त्या संरोपयेद्वैद्यो हस्तिनां व्रणमुत्थितम् ॥
ईषत्तु विषमं निम्नं मृदुमांसमवेदनम् ॥ ५२ ॥
अशीघ्ररोहिणं चैव कषायेणोपरोपयेत् ॥
व्रणं पाकात्प्रसर्पन्तमतिस्नेहादरोहणम् ॥ ५३ ॥
मांसे वा त्वचि वा जातं रोपयेत्कल्करोपणैः ॥
निम्नमीषद्विश्र(स्र)वेण किंचिपित्तसमन्वितम् ॥ ५४ ॥
स्थैर्यादनुपरोहन्तं रोपयेत्सर्पिषा व्रणम् ॥
ईषद्रातातुरं सिद्धं भिषग्व्रणमवेदनम् ॥ ५५ ॥
रोपणीयेन तैलेन शास्त्रदृष्टेन साधयेत् ॥
प्रशान्तोपद्रवं स्निग्धमतिस्नेहाद्विसर्पिणम् ॥ ५६ ॥
रोपयेत्स्थिरमांसं च व्रणं चूर्णेन दन्तिनाम् ॥
मृदुमांसस्त्वतिस्नेहाद्यो व्रणो नोपरोहति ॥ ५७ ॥
स रसक्रियया साध्यो मृदुमांसश्च संधिजः ॥
वातश्लेष्मोच्चयात्कृच्छ्रं रोपयेद्रूप योगतः ॥ ५८ ॥
शुद्धाशुद्धे भवेद्येयो दन्तिनामगदो व्रणे ॥
यथा स्वमष्टवर्गेण सम्यग्वर्त्यादिना भवेत् ॥ ५९ ॥
सिरास्नाव्यस्थिकोष्ठेषु तथा संधिषु च व्रणाः ॥
गम्भीरा विषमस्थूलावस्तवगाढा गुरुक्रमाः ॥ १६० ॥
साध्या बेन्धादिना त्वेते बन्धस्तु व्रणशोधनः ॥
समो गाढोऽथ शिथिलो व्रणबन्धः प्रकीर्तितः ॥ ६१ ॥
कण्ठे मेण्ढ्रे तथा नाभ्यां पार्ष्ण्योर्ग्रीवासु पार्श्वयोः ॥
बस्तिशीर्षे च राजेन्द्र समो बन्धस्तथोदरे ॥ ६२ ॥
गाढः शिरसि कर्तव्यः स्फिकक्षे च सैपिण्डके ॥
हन्वोः पृष्ठे गुदे कण्ठे बाह्वोः स्कन्धे तथा त्रिके ॥ ६३ ॥
व्रणबन्धस्तु कर्तव्यः शिथिलः सर्वसंधिषु ॥
सोष्माणो रक्तपित्ताभ्यां संरब्धाः सविषाश्च ये ॥ ६४ ॥
व्रणा विसर्पिणो ये च बन्धस्तेषां न शस्यते ॥
यो बन्धमवबन्धं च विचात्सम्पग्विचक्षणः ॥ १६५ ॥
१ क. संगोप० । २ क. ०गदे व्र० । ३ क. ०णाः । यथा । गम्भीरवि० ।
४ क. गुरुक्रमैः । ५ क. बध्यादि० । ६ क. सपिण्डकौ ।
४६