हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 386, कुल 742 में से
संदर्भ में पढ़ेंकाकोली क्षीरकाकोली जीवकर्षभकावुभौ ॥
मोषपर्ण्यश्वगन्धा च मुद्गपर्णी तथैव च ॥ ३१ ॥
एतदप्यभिज्ञानीयाद्घृतमिश्रं प्रलेपनम् ॥
सर्पिर्मांसरसः सर्वे(?)क्षीरं वाऽपि तथौदनः ॥ ३२ ॥
सुखोष्णं कालयोगेन मृदूकरणमिष्यते ॥
एष एव भवेदुष्णः स्वेदः शीतांतुरे व्रणे ॥ ३३ ॥
अजाक्षीरेण वा सिद्धः पायसः स्वेदनो भवेत् ॥
वचा विषघ्ना कुष्ठं च तिलकल्कः ससैन्धवः ॥ ३४ ॥
व्रणे तच्छोधनं ज्ञेयं दन्तिनां विषदूषिते ॥
नलवेतसमूलानि चन्दनोशीरसारिवा(ः) ॥ २३५ ॥
मृणालोत्पलपत्रं च पद्मिन्याश्चैव कर्दमः ॥
यानि धान्यानि शीतानि तैर्घृताक्तैः प्रलेपयेत् ॥ ३६ ॥
गतोष्मणामत ऊर्ध्वं क्षारयोगः प्रवक्ष्यते ॥
पाटला चारिमेदश्च स्फूर्जको धवमुष्ककौ ॥ ३७ ॥
करवीरं कदम्बश्च मधूकः सर्ज एव च ॥
एतेषां भस्मना क्षारः कर्तव्यस्तत्र चोऽऽवपेत् ॥ ३८ ॥
सैन्धवं च विडं चैव क्षारोऽयं व्रणशोधनः ॥
खदिरः शिंशपासारो निर्मूलाऽथ प्रियङ्गुवः ॥ ३९ ॥
भद्रमुस्ता विडङ्गानि तगरं चन्दनागुरू ॥
अलक्तकं नागपुष्पं तथा चाशोकरोहिणी ॥ २४० ॥
शतपुष्पा शिलापुष्पं पटोलं निम्बमेव च ॥
श्रीवेष्टकः सर्जरसः स्थौणेयं नलदं तथा ॥ ४१ ॥
एष कार्यो यथायोगं धूपः स्याद्व्रणरोपणः ॥
(*विदारमूलचूर्णानि क्षौमं च घृतसंयुतः ॥ ४२ ॥
* खपुस्तके त्रुटितः ॥
१ क. माखप० । २ क. ०प्यवजा० । ३ क. ०तारुणे ब्र० । ४ क. स्फूर्ज-बेधचशुष्ककौ । ५ क. वाजयेत् ।