हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 393, कुल 742 में से
संदर्भ में पढ़ें३७४ पालकाप्यमुनिविरचितो- [३ शल्यस्थाने-
अथ तृतीयोऽध्यायः ।
नन्दनोपवने पुण्ये नानाद्विजसमाकुले ॥
आश्रमे स्वर्गसोपाने महर्षिगणसेविते ॥ १ ॥
हुताग्निहोत्रमासीनं ज्वलन्तमिव पावकम् ॥
पालकाप्यं महातेजा अङ्गराजो महायशाः ॥ २ ॥
प्रणम्य शिरसा तस्मै संशयं परिपृष्टवान् ॥
सद्यःक्षतविधानं तु भगवन्वक्तुमर्हसि ॥ ३ ॥
छिन्नविच्छिन्ननिर्विद्धं सावनष्टाविदारिते ॥
उत्तुण्डितेऽतिविद्धे च तथा विद्धावमृष्टयोः ॥ ४ ॥
दग्धे दूषीविषे चैव क्षतेषु विविधेषु च ॥
विध्यं(धिं) सद्यःक्षते नागे कृपया वक्तुमर्हसि ॥ ५ ॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥
शृणु भद्रमुख स्वस्थो यत्त्वं पृच्छसि संशयम् ॥ ६ ॥
अतिदीर्णव्रणानां तु विधिरन्यः प्रवक्ष्यते ॥
पतङ्गं मधुसर्पिभ्यां संयुक्तं मनुजाधिप ॥ ७ ॥
सद्यःक्षतेषु नागानां संधानं हितमुत्तमम् ॥
गम्भीराणां तु सर्वेषामेषण्या निर्दहेदसृक् ॥ ८ ॥
श्वेताभासो व्रणो यस्तु तस्मिन्नक्तं न निःस्रवेत् ॥
वृक्षोत्सङ्गी व्रणो यस्तु तस्मिन्नक्तमतिश्रु(स्रु)तम् ॥ ९ ॥
दूषयेत्तु प्रदुष्टं तत्स्व(च्छ्र)पथुं च नियच्छति ॥
संतापयति तिष्ठन्तं पाकं चाऽऽशु नियच्छति ॥ १० ॥
तस्माद्व्रणं शोधयित्वा घृतेन परिषेचयेत् ॥
संसृष्टां मधुसर्पिभ्यां वर्ति चात्र प्रवेशयेत् ॥ ११ ॥
अथ निष्कृष्य तां वर्तिमिमं विधिमुपाचरेत् ॥
कुमुदोत्पलपत्राणि हीवेरं च कुटंनटम् ॥ १२ ॥
करवीरस्य पत्राणि क्षीरवृक्षत्वचस्तिलान् ॥
कृष्णमृत्तिकया सार्धं दृषद प्रतिपेषयेत् ॥ १३ ॥
घृतेन शतधौतेन संप्रोज्याथ प्रलेपनम् ॥
शीतक्रियांमिमां वाऽन्यां यथावत्समुपाचरेत् ॥ १४ ॥
१ क. वृत्तोत्सङ्गी । २ क. प्रदिष्टं । ३ क. संसृष्टं ।