गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
५.] गदनिग्रहः । १४९
नागकेसरसंयुक्तं पलांशमुपकल्पितम् ।
शीतीभूते ततो दद्यात्कुडवं माक्षिकस्य च ॥ ११० ॥
अतो लेहपलं लीढ्वा पथ्यां चैकां च भोजयेत् ।
शोफगुल्मोदरार्शोघ्नी पुनर्नवहरीतकी ॥ १११ ॥
शोफे कंसहरीतक्यवलेहः ।
द्विपञ्चमूलस्य तुला कषाये कंसोऽभयानां च शतं गुडाच्च ।
लेहे सुसिद्धे च विनीय चूर्णं व्योषं त्रिसौगन्ध्यमुपस्थिते च ॥
प्रस्थार्धमात्रं मधुनः सुशीते किंचिच्च चूर्णादपि यावशूकात् ।
एकां ततः प्राश्य तथा च लेहाच्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम्॥
कासज्वरारोचकमेहहिक्काप्लीहत्रिदोषोदरपाण्डुरोगान् ।
कार्श्याम्लवातासृगम्लपित्तवैवर्ण्यमूत्रानिलशुक्रदोषान् ११४॥
शोफे हरीतक्यवलेहः ।
दशमूलकषायस्य कंसे पथ्याशतं पचेत् ।
दत्त्वा गुडतुलां तस्मिँल्लेहे दद्यात्सुचूर्णितम् ॥ ११५ ॥
त्रिजातकं त्रिकटुकं किंचिच्च यवशूकजम् ।
प्रस्थार्धं च हिमे क्षौद्रात्स निहन्त्युपयोजितः ॥ ११६ ॥
प्रवृद्धशोफज्वरमेहगुल्मकार्श्याम्लवाताम्लकरक्तपित्तम् ।
वैवर्ण्यमूत्रानलशुक्रदोषश्वासारुचिप्लीहगरोदरांश्च ॥ ११७ ॥
अर्शःपीनसयोश्चित्रकहरीतक्यवलेहः ।
चित्रककषायपलशतममृताधात्रीरसं च तुल्यांशम् ।
संमिश्र्य गुडशतं च हि द्विपञ्चमूलीकषायेण ॥ ११८ ॥
तत्तुल्येन हरीतक्याढकमेकं विपाच्य गुडपाकम् ।
अर्धप्रस्थं मधुनस्तस्मिन्दत्त्वा ततोऽन्येद्युः ॥ ११९ ॥
द्वे द्वे पले निदध्यादेलात्वक्पत्रत्रिकटुकानाम् ।
सयवक्षारार्धपलं यथाग्नि पश्चात्प्रयुञ्जीत ॥ १२० ॥
एतद्रसायनोत्तममश्विभ्यामश्विद्वये प्रोक्तम् ।
उपयुक्तवतां पुंसामपि काष्ठतृणानि जीर्यन्ति ॥ १२१ ॥
१५० आयुर्वैदीयग्रन्थमाला । [ लेहाधिका
अर्शःश्वासभगन्दरकासकृमिशोफकुष्ठगुल्मांश्च ।
मासद्वयोपयोगादेद्विनाशयत्यग्निबृद्धिमपि ॥ १२२ ॥
रोगानीकसमेतं विशेषतो हन्ति राजयक्ष्माणम् ।
अजितमपि भेषजशतैः पीनसरोगं त्र्यहाज्जयति ॥ १२३ ॥
मन्दाग्नौ द्वितीयश्चित्रकहरीतक्यवलेहः ।
चित्रकपलशतमभिनवमाहृत्य कषायमेव कुर्वीत ।
धात्रीरसस्य पलशतममृतायाः स्वरसमेव तत्तुल्यम् ॥१२४॥
दशमूलस्य पलशतमष्टाविंशत्तथा जलद्रोणे ।
अभयाढकं च भिषजा साध्यं पूते कषायेऽस्मिन् ॥१२५॥
शुद्धगुडस्य शतं स्याद्रसेन चालोड्य सपदि तत्रैव ।
अभयाश्च ताः समस्ता मृदुना ज्वलनेन मार्दवं नेयाः१२६
मधुनः पलानि षोडश तस्मिन्देयानि शीतलीभूते ।
त्वक्पत्रमरिचकेसरमागधिकैलापले द्वे स्युः ॥ १२७ ॥
यवक्षारपलैकमेतत्प्राश्याग्निमात्रया विद्वान् ।
जरयति तृणकाष्ठान्यपि त्रिसप्तदिवसोपयोगेन ॥ १२८ ॥
कासश्वासभगन्दरकुष्ठान्यष्टादशोदराण्राष्टौ ।
मासोपयोगादेतत्क्षतक्षयं हन्ति राजयक्ष्माणम् ॥ १२९ ॥
षण्ढोऽप्यषण्ढतां च याति वर्षमात्रोपयोगेन ।
सुरलोकरोगनिचयप्रशमनकरणैकलक्ष्यमाहात्म्यौ ॥१३०॥
दिव्यं रसायनमिदं कृतवन्तावश्विनौ देवौ ।
हलीमके आमलकावलेहः ।
रसमामलकानां तु सुशुद्धं यन्त्रपीडितम् ।
द्रोणं पचेत्तु मृद्वग्नौ तत्र चेमानि दापयेत् ॥ १३१ ॥
चूर्णितं पिप्पलीप्रस्थं मधुकद्विपलं तथा ।
प्रस्थं गोस्तनिकायाश्च द्राक्षायाः कल्कपेषितम् ॥१३२॥
शृङ्गवेरपले द्वे च तुगाक्षीर्याः पलद्वयम् ।
तुलार्धं शर्करायाश्च तद्घनीभूतमुद्धरेत् ॥ १३३ ॥
५.] गदनिग्रहः । १५१
मधुप्रस्थसमायुक्तं लेहयेत्पलसंमितम् ।
हलीमकं कामलां च पाण्डुत्वं चापकर्षति ॥ १३४ ॥
कामलायां विडङ्गाद्यवलेहः ।
विडङ्गतिकफलामुस्तमधुकं कटुरोहिणी ।
अयोरजो हरिद्रे च चित्रकं गुडशर्करा ॥ १३५ ॥
खदिरस्य कषायेण चूर्णान्येतानि साधयेत् ।
मृद्वग्निसिद्धं तं लेहं लेहयेन्मधुसर्पिषा ॥ १३६ ॥
स लेहः कामलां हन्यादपि संवत्सरोत्थिताम् ।
पाण्डुरोगं च नुदति श्वयथुं चापि पैत्तिकम् ॥ १३७ ॥
श्वासे हरीतक्यवलेहः ।
भार्गीजटापलशतं सलिलार्मणाभ्यां
युक्तं च मूलतुलया सहितं विपाच्य ।
पादस्थिते तु शतमत्र हरीतकीनां
पक्तव्यमुज्ज्वलगुडस्य शतेन सार्धम् ॥ १३८ ॥
उत्तार्य तत्र शिशिरे मधुनः पलानि
चत्वारि च त्रिगुणितानि पलत्रयं च ।
व्योषं त्रुटित्वगिभकेसरपत्रकाणा-
मेषां पलं खलु निधेयमथोपयुज्य ॥ १३९ ॥
श्वासं सकासमपि शोषमथातिहिक्का-
मेकाहिकं ज्वरमपीनसमुत्कटं च ।
हन्याद्रसायनमिदं हि पुरन्दरस्य
प्रोक्तं सहस्रकरपुत्रभिषग्वराभ्याम् ॥ १४० ॥
अर्शसि कुटजावलेहः ।
कुटजत्वक्पलशतं जलद्रोणे विपाचयेत् ।
चतुर्भागावशेषं तु कषायमुपकल्पयेत् ॥ १४१ ॥
१. मूलतुलयेति दशमूलतुल्येत्यर्थः ।
वस्त्रपूतं पुनः क्वाथं पचेल्लेहत्वमागतम् ।
भल्लातकं विडङ्गानि त्रिकटु त्रिफलां तथा ॥ १४२ ।
रसाञ्जनं चित्रकं च कुटजस्य फलानि च ।
वचामतिविषां बिल्वं प्रत्येकं तु पलं पलम् ॥ १४३ ।
त्रिंशत्पलं गुडस्यात्र चूर्णीकृत्य प्रदापयेत् ।
मधुनः कुडवं दद्याद्धृतस्य कुडवं तथा ॥ १४४ ॥
एष लेहस्तु शमयेदर्शो रक्तसमुद्भवम् ।
वातिकं पैत्तिकं चैव श्लैष्मिकं सान्निपातिकम् ॥१४५।
ये च दुर्नामजा रोगास्तांश्च सर्वान् व्यपोहति ।
रक्तपित्तमतीसारं पाण्डुरोगमरोचकम् ॥ १४६ ॥
ग्रहणीमार्दवं कार्श्य श्वयथुं कामलामपि ।
अनुपाने घृतं दद्याद्दधि तक्रं जलं पयः ॥ १४७ ॥
जीर्णे तु पथ्यभोजी स्यादशोभ्यः प्रविमुच्यते ।
रोगानीकवधार्थाय कौटजो लेह उच्यते ॥ १४८ ॥
अर्शसि द्वितीयः कुटजावलेहः ।
कुटजत्वचं विपाच्य पलशतमात्रां महेन्द्रसलिलेन ।
यावत्स्याद्वि श्रुतस्तद्रव्यं स्वरसस्ततो ग्राह्यः ॥ १४९ ॥
मोचरसश्च समङ्गा फलिनी च पलांशकास्त्रिभिश्चैतैः ।
वत्सकबीजं तुल्यं चूर्णीकृतमत्र दातव्यम् ॥ १५० ॥
पूतः कथितः सान्द्रः स रसो दर्वीप्रलेपको ग्राह्यः ।
मात्रा कालोपहिता रसक्रियैषा जयति रक्तम् ॥ १५१ ॥
छगलीपयसा युक्ता पेयामण्डेन वा यथाग्निबलम् ।
जीर्णौषधश्च शालीन् पयसा छागेन भुञ्जीत ॥ १५२ ॥
रक्तार्शस्यतिसारं रक्तं सासृग्दरं निहन्त्याशु ।
बलवच्च रक्तपित्तं रसक्रियैषा ह्युभयभागम् ॥ १५३ ॥
अर्शसि कुटजाष्टकोऽवलेहः ।
तुलामथार्द्रा गिरिमल्लिकायाः संक्षुद्य पक्त्वा रसमाददीत ।
५.] गदनिग्रहः । १५३
तस्मिन्सुपूते पलसंमितानि श्लक्ष्णानि पिष्ट्वा सह शाल्मलेन १५४
पाठा समङ्गाऽतिविषा समुस्ता बिल्वं च पुष्पाणि च धातकीनाम् ।
प्रक्षिप्य भूयो विपचेत्तु तावद्दर्वीप्रलेपस्तु रसस्तु यावत् ॥१५५॥
पीतस्त्वसौ कालविदा जलेन मण्डेन वाऽजापयसाऽथवापि ।
निहन्ति सर्वं त्वतिसारमुग्रं कृष्णं सितं लोहितपीतकं वा ॥१५६
दोषं ग्रहण्या विविधं च रक्तं पित्तं तथाऽर्शासि सशोणितानि ।
असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम् ॥१५७॥
ग्रहण्यां मधुपाकविधिः ।
पाठाऽजमोदा मधुकं समङ्गा मुस्ता जलोशीरविडङ्गधान्यम् ।
बिल्वाग्निशुण्ठीमगधाः सरोध्रश्यामाः सुधात्री करिकुङ्कुमं च १५८
जम्ब्वाम्रयोरस्थि सवल्कलं च सर्वाणि चैतानि पलांशकानि ।
द्रोणे जलस्य प्रपचेत्कषायमष्टावशेषं सितवस्त्रपूतम् ॥ १५९ ॥
क्षौद्रं क्षिपेदष्टपलप्रमाणं पलार्धनागाह्वयचन्दनैलाः ।
सहैव संमर्द्य विधाय चूर्णं क्षौद्रान्वितं तच्च पुनर्विपाच्यम् ॥१६०
उत्तार्य लेहं घृतभाजने च निधापयेत्सप्त दिनानि गुप्तम् ।
तं पाययेद्व्याधिबलं समीक्ष्य जयेच्च सर्वान् ग्रहणीविकारान् ।
अरोचकं जीर्णमथातिसारं तृष्णाम्लपित्तं वमिहृद्ग्रहं च॥१६१॥
कासे कण्टकार्यावलेहः ।
समूलफलशाखां तु कुट्टयेत्कण्टकारिकाम् ।
तां पचेत्सलिलेद्रोणे चतुर्थांशावशेषिताम् ॥ १६२ ॥
कषायं तं परिस्राव्य पुनरग्नावधिश्रयेत् ।
घृतं च युक्त्या दातव्यं कल्कं चैव प्रदापयेत् ॥१६३॥
दुरालभा छिन्नरुहा त्र्यूषणं चित्रकं तथा ।
रास्ना कर्कटशृङ्गी च पिप्पलीमूलमेव च ॥ १६४ ॥
एतान्येकपलीकानि तथा फाणितशर्कराम् ।
पलानां विंशतिं दत्त्वा तं लेहं सान्द्रमुद्धरेत् ॥ १६५ ॥
१५४ आयुर्वेदग्रन्थमाला । [ लेहाधिकार
शीते दद्यात्पिप्पलीनां चूर्णं तत्त गुडोन्मितम् ।
तुगाक्षीर्यास्तु कुडवं मधुनः कुडवं तथा ॥ १६६ ॥
तं लिह्यान्मात्रया लेहं पञ्चकासनिवारणम् ।
हृद्रोगानाहहिक्काश्च श्वासं चैवापकर्षति ॥ १६७ ॥
शोषे निदिग्धिकायोऽवलेहः ।
निदिग्धिकापलशतं तदर्धं ग्रन्थिकस्य च ।
चित्रकस्य तदर्धं च दशमूलं च तत्समम् ॥ १६८ ॥
द्रोणद्वयेऽम्भसः क्वाथ्यमष्टभागावशेषितम् ।
पूते क्षिपेत्तदर्थं तु पुराणस्य गुडस्य च ॥ १६९ ॥
सर्वमेकत्र कृत्वा तु लेहवत्साधु साधयेत् ।
अष्टौ पलानि पिप्पल्यस्त्रिजातत्रिपलं तथा ॥ १७० ॥
मरिचानां पलं चैकं सर्वमेकत्र चूर्णयेत् ।
मधुनः कुडवं दत्त्वा भक्षयेत यथाबलम् ॥ १७९ ॥
स्वरवृद्धिकरं चैव प्रतिश्यायहरं परम् ।
कासश्वासाग्निमान्द्यार्शोगुल्ममेहगलामयान् ॥ १७२ ।
आनाहमूत्रकृच्छ्रांश्च हन्याद्ग्रन्थ्यर्बुदानि च ।
उदावर्ते पटोलमूलावलेहः ।
पटोलमूलं रजनीं त्रिफलां चतुरङ्गुलम् ॥ १७३ ॥
नीलिनीं त्रिवृतां दन्तीं कृमिघ्नं सपुनर्नवाम् ।
कटुकां सातलां रोध्रं भागान्दशपलोन्मितान् ॥१७४।
दत्त्वा द्रोणचतुष्कं तु सलिलं पादशेषितम् ।
तैलस्य कुडवं तत्र गुडस्य तु शतं तथा ॥ १७५ ॥
त्रिवृच्चूर्णपलान्यष्टौ लेहवत्साधु साधयेत् ।
चूर्णीकृतं क्षिपेत्तत्र व्योषस्य पलपञ्चकम् ॥ १७६ ॥
पलत्रयं त्रिजातस्य दत्त्वा संघट्टयेत्पुनः ।
. ततो यथाबलं खादेत्पलार्धं पिचुमेव वा ॥ १७७ ॥
४.] गदनिग्रहः । १५५
नाहारे यन्त्रणा काचिन्न विहारे तथैव च ।
उदावर्तविवन्धाशोगुल्मपाण्डूदरकृमि- ॥ १७८ ॥
कुष्ठमेहारुचिहरो विड्विबन्धेषु शस्यते ।
लेहः पटोलमूलाख्यः सर्वकर्मसु युज्यते ॥ १७९ ॥
मुखरोगे दार्श्वलेहः ।
दार्ब्यास्तु मूलार्धतुलां जलस्य द्रोणे शृतां पूतचतुर्थशेषाम् ।
भूनिम्बदार्बीखदिरारिमेदः पुनर्विपक्कं पलिकैश्चतुर्भिः ॥१८०॥
पूतं ततो गैरिकचूर्णपादं मन्दानले तच्च पुनर्विपक्कम् ।
सञ्जीय शीतं मधुशर्कराभ्यां सदा प्रयोज्यं घृतभाजनस्थम् १८१
नानाप्रकारेपु मुखामयेषु सुदारुणेषूग्ररुजेषु चैव ।
प्रशीर्णजीर्णेष्वबलद्विजेषु कृच्छ्रेषु दुष्टेषु व्रणेषु चैव ॥ १८२ ॥
कल्पोऽयमिष्टो मधुकस्य चैव प्रपौण्डरीकस्य वृषस्य चैव ।
जातीरिमेदत्रिफलासमङ्गारोध्रस्य जम्बोः खदिरस्य चैव १८३
नागराद्योऽवलेहः ।
नागरस्य पलान्यष्टौ घृतस्य पलविंशतिः ।
क्षीरद्विप्रस्थसंयुक्तं खण्डस्यार्धशतं तथा ॥ १८४ ॥
व्योषं त्रिजातकं चैव पलांशमुपकल्पयेत् ।
बल्यं च वर्ण्यमायुष्यं वलीपलितनाशनम् ॥ १८५ ॥
आमवातप्रशमनं सौभाग्यकरमुत्तमम् ।
कासे कसेर्वाद्योऽवलेहः ।
कसेरोस्तु तुलार्धं हि द्विद्रोणेऽपां विपाचयेत् ॥ १८६ ॥
द्रोणार्धशेषे पूते च दद्याद्गुडतुलां तथा ।
सर्पिषः कुडवं दद्याल्लेहवत्साधु साधयेत् ॥ १८७ ॥
चतुष्पलं तु व्योषस्य त्रिजातं त्रिपलं तथा ।
पलद्वयं केसरस्य चूर्णं कृत्वा विनिक्षिपेत् ॥ १८८ ॥
तद्यथाग्निबलं खादेत्कासकृमिज्वरापहः ।
हृत्पाण्डुरोगवैवर्ण्यदौर्बल्यानाहनाशनः ॥ १८९ ॥
. १५६ आयुर्वेदौयग्रन्थमाला । [ लेहाधिकार
कसेरुकावलेहोऽयं स्वरपुष्टिविवर्धनः ।
अर्शसि भल्लातकावलेहः ।
चित्रकं त्रिफला मुस्तं ग्रन्थिकं चविकाऽमृता ॥ १९०॥
हस्तिपिप्पल्यपामार्गदण्डोत्पलकुठेरकाः ।
एषां चतुष्पलान् भागान् जलद्रोणे विपाचयेत्॥१९१
भल्लातकसहस्रे द्वे छित्त्वा तत्रैव दापयेत् ।
तेन पादावशेषेण लोहपात्रे पचेद्भिषक् ॥ १९२ ॥
तुलार्धं तीक्ष्णलोहस्य घृतस्य कुडवद्वयम् ।
त्र्यूषणं त्रिफलावह्निसैन्धवं विडमौद्भिदम् ॥ १९३ ।
सौवर्चलं विडङ्गं च पलिकांशान् प्रकल्पयेत् ।
कुडवं वृद्धदारस्य तालमूल्यास्तथैव च ॥ १९४ ॥
सूरणस्य पलान्यष्टौ चूर्णं कृत्वा विनिक्षिपेत् ।
सिद्धशीते प्रदातव्यं मधुनः कुडवद्वयम् ॥ १९५ ॥
प्रातर्भोजनकाले च ततः खादेद्यथाबलम् ।
अर्शांसि ग्रहणीदोषं पाण्डुरोगमरोचकम् ॥ १९६ ॥
कृमिगुल्माश्मरीमेहांश्छूलं चाशु व्यपोहति ।
करोति शुक्नोपचयं वलीपलिंतनाशनम् ॥ १९७ ॥
रसायनमिदं श्रेष्ठं सर्वरोगहरं परम् ।
पीनसे चित्रकावलेहः ।
वह्निद्विपञ्चमूलस्य काथे पलशतद्वये ॥ १९८ ॥
अमृताया रसस्यैके पूतेऽस्मिन्नभयाशतम् ।
पचेद्गुडतुलां तावद्यावदापाकलक्षणम् ॥ १९९ ॥
अन्येद्युस्तत्र मधुनः सुशीते कुडवद्वयम् ।
प्रक्षिपेत्त्रिसुगन्धस्य त्रिकटोश्च पलद्वयम् ॥ २०० ॥
प्रत्येकं स्याद्यवक्षारः शुक्तिस्तस्मिन्न्र्निसायने ।
उत्तमं कथितं पुंसामश्विभ्यामग्निवृद्धये ॥ २०१ ॥
१ 'फलशते' इति शेषः ।
५.] गदनिग्रहः । १५७
जीर्णन्त्यपि च काष्ठानि कासश्वासक्षयकृमीन् ।
गुल्मोदरार्शःकुष्ठं च जयेच्छोषं भगन्दरम् ॥ २०२ ॥
योगशतैरप्यजितं त्र्यहाज्जयति पीनसम् ।
रक्तपित्ते खण्डखाद्योऽवलेहः ।
शतावरीच्छिन्नरुहावृषमुण्डितिकामयाः ॥ २०३ ॥
तालमूली च गायत्री त्रिफलायास्त्वचस्तथा ।
भार्गी पुष्करमूलं च पृथक्पञ्च पलानि च ॥ २०४ ॥
जलद्रोणे विपक्तव्यमष्टभागावशेषितम् ।
दिव्यौषधिहतस्यापि माक्षिकेण हतस्य वा ॥ २०५ ॥
पलद्वादशकं देयं रुक्मलोहस्य चूर्णितम् ।
खण्डं घृतं समं देयं पलषोडशकं बुधैः ॥ २०६ ॥
पचेत्ताम्रमये पात्रे गुडपाको मतो यथा ।
प्रस्थार्धं मधुनो देयं शुभाश्मजतुक्तं त्वचम् ॥ २०७ ॥
शृङ्गी विडङ्गं कृष्णा च शुण्ठ्यजाजी पलं पलम् ।
त्रिफला धान्यकं पत्रं त्र्यक्षं मरिचकेसरम् ॥ २०८ ॥
चूर्णं दत्त्वा सुमथितं स्निग्धे भाण्डे निधापयेत् ।
यथाकालं प्रयुञ्जीत बिडालपदकं ततः ॥ २०९ ॥
गव्यक्षीरानुपानं च सेव्यं मांसरसं पयः ।
गुरुवृष्यान्नपानानि स्निग्धं मांसादिवृंहणम् ॥ २१० ॥
रक्तपित्तं क्षयं कासं पक्तिशूलं तथैव च ।
वातरक्तं प्रमेहं च शीतपित्तं वमिं क्लमम् ॥ २११ ॥
श्वयथुं पाण्डुरोगं च कुष्ठं प्लीहोदरं तथा ।
आनाहं मूत्रसंस्रावमम्लपित्तं निहन्ति च ॥ २१२ ॥
चक्षुष्यं बृंहणं वृष्यं मङ्गल्यं प्रीतिवर्धनम् ।
आरोग्यपुत्रदं श्रेष्ठं कायाग्निबलवर्धनम् ॥ २१३ ॥
श्रीकरं लाघवकरं खण्डखाद्यं प्रकीर्तितम् ।
छागं पारावतं मांसं तित्तिरिः क्रुकरः शशः ॥ २१४ ॥
१४
१५८ आयुर्वेदौयग्रन्थमाला । [लेहाधिकारः
कुलिङ्गः कृष्णसारश्च तेषां मांसानि योजयेत् ।
नालिकेरपयःपानं सुनिषण्णकवास्तुकम् ॥ २१५ ॥
शुष्कमूलकजीवाख्यं पटोलं बृहतीफलम् ।
फलं वार्ताकपक्वामं खर्जूरं स्वादुदाडिमम् ॥ २१६ ॥
ककारपूर्वकं यच्च मांसं चानूपसंभवम् ।
वर्जनीयं विशेषेण खण्डखाद्यं प्रकुर्वता ॥ २१७ ॥
रक्तपित्ते द्वितीयो वासावलेहः ।
तुलामादाय वासायाः पचेदष्टगुणे जले ।
तेन पादावशेषेण पाचयेदाढकं भिषक् ॥ २१८ ॥
चूर्णानामभयानां तु खण्डाच्छुद्धाच्छतं तथा ।
द्वे पले पिप्पलीचूर्णात्सिद्धशीते च माक्षिकात् ॥२१९।
कुडवं पलमानं तु चातुर्जातं सुचूर्णितम् ।
क्षित्वा विलोडितं खादेद्रक्तपित्ती यथाबलम् ॥२२०।
श्वासकासक्षतच्छर्दिर् यक्ष्माणं च नियच्छति ।
श्वासकासयोर्भार्गीगुडावलेहः ।
शतं संग्राह्य भार्ग्यास्तु दशमूल्यास्तथा परम् ॥ २२१।
शतं हरीतकीनां च पचेत्तोये चतुर्गुणे ।
पादशेषे च तस्मिंस्तु रसे वस्त्रपरिस्रुते ॥ २२२ ॥
आलोड्य च तुलां पूतां गुडस्य त्वभयां ततः ।
पुनः पचेत्तु मृद्वग्नौ यावल्लेहत्वमागतम् ॥ २२३ ॥
शीते तु मधुनश्चात्र षट्पलानि प्रदापयेत् ।
त्रिकटु त्रिसुगन्धं च पालिकं च पृथक् पृथक् ॥२२४।
कर्षद्वयं यवक्षारं संचूर्ण्य प्रक्षिपेत्ततः ।
भक्षयेदभयामेकां लेहस्यार्धपलं लिहेत् ॥ २२५ ॥
श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा ।
स्वरवर्णप्रदो ह्येष जठरानलदीपनः ॥ २२६ ॥
हरीतकीशतैकस्य वारिप्रस्थमिहाधिकम् ।
गदनिग्रहः । १५९
श्वासकासयोः कुलत्थगुडावलेहः ।
कुलत्थो दशमूलं च तथैव द्विजयाष्टिका ॥ २२७ ॥
शतं शतं च संगृह्य चतुर्द्रोणेऽम्भसः पचेत् ।
अष्टभागावशेषे तु गुडस्यार्धतुलां क्षिपेत् ॥ २२८ ॥
शीतीभूते च पके च मधुनोऽष्टौ पलानि च ।
पलानि षट् तुगाक्षीर्याः पिप्पल्या द्वे पले तथा॥२२९॥
त्रिसुगन्धिसुगन्धं तं खादेदग्निबलं प्रति ।
श्वासं कासं ज्वरं हिक्कां नाशयेत्तमकं तथा ॥ २३० ॥
मानसान्निध्यसंवादाद्विपलं त्रिसुगन्धिनः ।
श्वासकासयोः पिप्पलीगुडावलेहः ।
पिप्पली मधुसंयुक्ता मेदःकफविनाशिनी ॥ २३१ ॥
श्वासकासज्वरहरा पाण्डुप्लीहोदरापहा ।
कासाजीर्णारुचिश्चासहुत्पाण्डुकृमिरोगिषु ॥ २३२ ॥
जीर्णज्वरेऽग्निसादे च शस्यते गुडपिप्पली ।
अतिसारे कुटजावलेहः ।
कुटजस्य तुलां दत्त्वा चतुर्द्रोणेऽम्भसः पचेत् ॥२३३॥
द्रोणशेषे रसे तस्मिन्पूते गुडतुलार्धकम् ।
घृतस्य कुडवं तत्र क्षित्वा मृद्वग्निना पचेत् ॥ २३४ ॥
प्रतिवापे च देयानि द्रव्याण्येतानि धीमता ।
समङ्गा बिल्वपेशी च मज्जा जम्ब्वाम्रसंभवा ॥ २३५ ॥
पिप्पली चाजमोदं च शुण्ठीमरिचवत्सकम् ।
मुस्ता भल्लातकं रोध्रं धातकी गजपिप्पली ॥ २३६ ॥
अम्बष्ठा वालकं चैव द्वे बृहत्यौ सचित्रकौ ।
षड्ग्रन्था पिप्पलीमूलं विडङ्गानि हरीतकी ॥ २३७ ॥
नागकेसरयष्टीकार्लुत्वकूपत्रकेसरम् ।
विषा चेन्द्रयवाः पाठा सूक्ष्मैला जीरकद्वयम् ॥ २३८॥
१६० आयुर्वेदौयग्रन्थमाला । [लेहाधिकारः
एभिः कर्षसमैर्भागैर्लेहवत्सं प्रसाधयेत् ।
मधुनः कुडवं सिद्धे शीते तस्मिन्विनिक्षिपेत् ॥ २३९।
अपेक्ष्य कायाग्निवलं मात्रया योजयेद्भिषक् ।
तक्रेण वा सतक्रं वा भोजनं हितमिष्यते ॥ २४० ॥
एतद्धि ग्रहणीरोगमतीसारान् सुदारुणान् ।
प्रवाहिकां निहन्त्याशु वृक्षमन्द्राशनिर्यथा ॥ २४१ ॥
अतीसारे कुटजावलेहः ।
शतं कुटजमूलस्य क्षुण्णं तोयार्मणे पचेत् ।
क्वाथे पादावशेषेऽस्मिन्पूते लेहं पुनः पचेत् ॥ २४२ ॥
सौवर्चलयवक्षारबिडसैन्धवपिप्पली- ।
धातकीन्द्रयवाजाजीचूर्णं दत्त्वा पलद्वयम् ॥ २४३ ॥
लिह्याद्वदरमात्रं तु शीतं क्षौद्रेण संयुतम् ।
पक्वापकमतीसारं नानावर्णं सवेदनम् ॥ २४४ ॥
दुर्वारं ग्रहणीदोषं जयेच्चैव प्रवाहिकाम् ।
अर्शस्सु कुटजावलेहः ।
कुटजत्वक्तुलां द्रोणे पचेदष्टांशशेषितम् ॥ २४५ ॥
कल्कीकृत्य क्षिपेत्तत्र तार्क्ष्यशैलं कटुत्रिकम् ।
रोध्रद्वयं मोचरसं बालदाडिमजां त्वचम् ॥ २४६ ॥
बिल्वं कर्कटिकां मुस्तं समङ्गां धातकीफलम् ।
पलोन्मितं दशपलं कुटजस्यैव च त्वचः ॥ २४७ ॥
विंशतिः सर्पिषः पूते पलानि त्रिंशतिर्गुडात् ।
तत्पक्वं लेहतां यातं धान्ये पक्षस्थितं लिहन् ॥ २४८॥
सवातं ग्रहणीदोषं कासश्वासं निवर्हति ।
जरायां च्यवनप्राशावलेहः ।
बिल्वाग्निमन्थश्योनाककाश्मर्यः पाटला बला ॥२४९॥
पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम् ।
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु ॥ २५० ॥
५.] गदनिग्रहः । १६१
अभया चामृता मुस्ता जीवकर्षभकौ शठी ।
ऋद्धिः पुनर्नवा मेदा सेव्यं चन्दनमुत्पलम् ॥ २५१ ॥
विदारी वृषमूलानि काकोली काकनासिका ।
एषां पलोन्मितान् भागान् शतान्यामलकस्य च २५२
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत् ।
ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम् ॥ २५३ ॥
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः ।
पलद्वादशके भृष्ट्वा दद्याच्चार्धतुलां भिषक् ॥ २५४ ॥
मत्स्यण्डिकायाः शुद्धाया लेहवत्साधु साधयेत् ।
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत् ॥ २५५ ॥
चतुष्पलं तुगाक्षीर्याः पिप्पल्या द्विपलं तथा ।
पलमेकं निदध्याच्च त्वगेलापत्रकेसरात् ॥ २५६ ॥
इत्ययं च्यवनप्राशः परमुक्तो रसायनः ।
कासश्वासहरश्चैव विशेषेणोपदिश्यते ॥ २५७ ॥
क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः ।
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम् ॥ २५८ ॥
पिपासां मूत्रशुक्रस्थान्दोषांश्चाप्यपकर्षति ।
अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम् ॥ २५९ ॥
अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत्पुनर्युवा ।
मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम् ।
स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम् ॥ २६० ॥
रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात् ।
जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य ॥ २६१ ॥
जरायां ब्राह्मरसायनावलेहः ।
पञ्चानां पञ्चमूलानां भागान्दशपलोन्मितान् ।
हरीतकीसहस्रं च त्रिगुणामलकं नवम् ॥ २६२ ॥
An accurate transcription of the Sanskrit/Ayurvedic text presented in the image:
१६२ आयुर्वेदीयग्रन्थमाला । [लेहाधिकारः
विदारिगन्धां बृहतीं पृश्निपर्णी निदिग्धिकाम् ।
विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम् ॥ २६३ ॥
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिस्तथा ।
पुनर्नवा शूर्पपर्ण्यौ बला चैरण्ड एव च ॥ २६४ ॥
जीवकर्षभकौ वीरा जीवन्ती सशतावरी ।
शरेक्षुदर्भकासानां शालीनां मूलमेव च ॥ २६५॥
एतेषां पञ्चमूलानां पञ्चानामुपकल्पयेत् ।
भागान्यथोक्तान् तत्सर्वं साध्यं दशगुणेऽम्भसि २६६
दशभागावशेषं तु पूतं तद्ग्राहयेद्रसम् ।
हरीतक्यश्च ताः सर्वाः सर्वाण्यामलकानि च ॥ २६७॥
तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चकैः ।
विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत् ॥ २६८ ॥
मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च ।
मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा ॥ २६९ ॥
मधुकस्य हरिद्राया वचायाः कनकस्य च ।
भागान् पञ्चपलांस्कृत्वा सूक्ष्मैलायास्त्वचस्तथा ॥२७०॥
सितोपलासहस्रं च चूर्णितं तुल्याधिकम् ।
तैलं स्यादाढकं तत्र तथा त्रीणि च सर्पिषः ॥ २७१॥
साध्यं ताम्रमये पात्रे तत्सर्वं मृदुनाऽग्निना ।
ज्ञात्वा लेहमदग्धं च शीतं क्षौद्रेण संसृजेत् ॥ २७२ ॥
क्षौद्रप्रमाणं स्नेहार्धं तत्सर्वं घृतभाजने ।
तिष्ठेत्सम्मूच्छितं तस्य मात्रां काले प्रयोजयेत् ॥ २७३ ॥
या नोपरुन्ध्यादाहारमेवं मात्रा तु सा स्मृता ।
षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते ॥ २७४ ॥
वैखानसा वालिखिल्यास्तथा चान्ये तपोधनाः ।
रसायनमिदं प्राश्य बभूवुरमितायुषः ॥ २७५ ॥
५.] गदनिग्रहः । १६३
मुक्त्वा जीर्णं वपुश्चाम्यमवापुस्तरुणं वयः ।
वीततन्द्रा-क्लम-श्वासा निरातङ्काः समाहिताः ॥ २७६ ॥
मेधास्मृतिबलोपेताश्चिरकालं तपोधनाः ।
ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया ॥ २७७ ॥
आयुष्कामः प्रयुञ्जानो ब्राह्मं हीदं रसायनम् ।
दीर्घमायुर्बलं चाग्र्यं कामांश्चेष्टान्समश्नुते ॥ २७८ ॥
क्षतक्षीणेऽमृतप्राशावलेहः ।
जीवकर्षभकौ वीरा जीवन्ती नागरं शठी ।
पर्ण्यश्चतस्रो द्वे मेदे काकोल्यौ द्वे निदिग्धिके ॥२७९॥
पुनर्नवे द्वे मधुकमात्मगुप्ता शतावरी ।
ऋद्धिः पुरुषकं भार्गी मृद्वीका बृहती तथा ॥ २८० ॥
शृङ्गाटकी तामलकी पयस्या पिप्पली बला ।
बदराक्षोटखर्जूरवातामामिषुकाणि च ॥ २८१ ॥
फलानि चैवमन्यानि कल्कान्कुर्वीत कार्षिकान् ।
धात्रीरसविदारीक्षुच्छागमांसरसान् पयः ॥ २८२ ॥
दत्त्वा प्रस्थोन्मितान् भागान् घृतप्रस्थं विपाचयेत् ।
प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा ॥ २८३ ॥
ततो मात्रां प्रयुञ्जीत क्षीरमांसरसाशनः ।
नष्टशुक्रक्षतक्षीणदुर्बलान् व्याधिकर्षितान् ॥ २८४ ॥
स्त्रीप्रसक्तान् कृशान्वर्णस्वरहीनांश्च बृंहयेत् ।
कासहिक्काज्वरश्वासतृष्णादाहान् सपैत्तिकान् ॥ २८५॥
निहन्ति छर्दिमूर्च्छाहृद्योनिमूत्रामयापहम् ।
लघुच्यवनप्राशोऽवलेहः ।
बिल्वादिपञ्चमूलाब्दबलापर्णीचतुष्टयम् ।
ऋद्धिकृष्णाशठीपथ्याजीवकर्षभकामृताः ॥ २८६ ॥
द्राक्षा पुनर्नवा मेदे जीवन्ती काकनासिका ।
उत्पलैलाजशृङ्गयश्च काकोली वृषचन्दनम् ॥ २८७ ॥
१६४ आयुर्वेदीयग्रन्थमाला । [लेहाधिकारः
विदारीगोक्षुरव्याघ्रीपौष्करं च पलोन्मितम् ।
शतानि पञ्च धात्र्याश्च जलद्रोणे विपाचयेत् ॥२८८॥
पलद्वादशके भृष्टा धात्रीस्तास्तैलसर्पिषोः ।
सितार्धतुलया युक्ताः क्वाथं लौहे पुनः पचेत् ॥ २८९ ॥
द्वे पिप्पल्या पले वांश्याश्चत्वारः षट् च माक्षिकात् ।
चातुर्जातपलं तस्मिन् सिद्धशीते नियोजयेत् ॥ २९० ॥
हृद्रोगश्वासहृत्कासवातरक्तक्षयार्तिजित् ।
सेव्योऽयं च्यवनप्राशः स्वर्यो वृष्यो रसायनः ॥२९१॥
शोषेऽमृतप्राशोऽवलेहः ।
छागमांसरसक्षीरविदारीक्षुरसाढकम् ।
धात्रीफलरसं चैव मृद्वीकानां रसं घृतम् ॥ २९२ ॥
पृथक्प्रस्थोन्मितैरेतैः पचेत्कर्षसमैर्भिषक् ।
वाताममधुकाक्षोटशृङ्गाटककसेरुकाः ॥ २९३ ॥
परूषकं शठी भार्गी जीवन्ती च पुनर्नवा ।
खर्जूरं पिप्पली शृङ्गी ह्यात्मगुप्ता सजीवका ॥ २९४ ॥
सिंही व्याघ्रपदी स्याच्च द्राक्षा तामलकी स्थिरा ।
बदरं कदरं चैव जीवनीयानि यानि च ॥ २९५ ॥
तत्सिद्धं राजते पात्रे निधेयं साधु साधितम् ।
प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा ॥ २९६ ॥
त्वगेलापत्रमरिचचूर्णं चार्धपलोन्मितम् ।
विनीय भक्षयेन्मात्रां लिह्याद्वापि यथाबलम् ॥ २९७॥
बलवर्णकरं वृष्यं बृंहणं स्वरबोधनम् ।
कासश्वासारुचिं हन्यात्तृण्मूर्च्छासृग्दरं तथा ॥ २९८ ॥
परं क्षीणक्षतहितं वन्ध्यापुत्रप्रदायि च ।
अमृतप्राशनामेदममृतं देवताविव ॥ २९९ ॥
इति श्रीवैद्यसोढलप्रथिते गदनिग्रहेऽवलेहाधिकारः पञ्चमः संपूर्णः ॥
६.] गदनिग्रहः । १६५
॥ अथातः षष्ठ आसवाधिकारः प्रारभ्यते ॥
कुमार्थासवः ।
द्रोणमानं कुमार्यास्तु रसं भाण्डे निधापयेत् ।
तुलार्धं दशमूलं तु तदर्धं पौष्करी जटा ॥ १ ॥
तत्समं धन्वयासं च चित्रार्थं च परिक्षिपेत् ।
प्रस्थार्थममृता ज्ञेया तदर्थमभया तथा ॥ २ ॥
लोध्रकामलकं पथ्यं मञ्जिष्ठा च कलिद्रुमः ।
चव्यं च कुष्ठमधुकं कपित्थं सुरदारुकम् ॥ ३ ॥
कृमिशत्रुर्मागधिका भार्गी स्यादष्टवर्गकम् ।
जीरकं क्रमुको रास्ना शठी रेणुकमेव च ॥ ४ ॥
शृङ्गी निशा प्रियङ्गुश्च मांसी मुस्ता च सारिवा ।
वासा वरी शक्रबीजं नागकेसरमेव च ॥ ५ ॥
पुनर्नवा समांशानि षड्भिर्द्रोणैर्जलस्य तु ।
क्वाथयेदनया रीत्या चतुर्थांशं जलं नयेत् ॥ ६ ॥
त्रिंशत्पला च मृद्वीका दन्तसंख्यापलं मधु ।
गुडस्तुलाचतुष्कं च तदर्धा धातकी भवेत् ॥ ७ ॥
पलद्वयं लवङ्गानि कङ्कोलं मलयोद्भवम् ।
चातुर्जातं तथा कृष्णा मरिचं जातिपत्रकम् ॥ ८ ॥
आकल्लुकं जातिफलं कपिकच्छुश्च दीप्यकम् ।
वचा खदिरसारश्च दहनं जीरकं तथा ॥ ९ ॥
यवानी वालकं विश्वा मुस्ता धान्यं हरीतकी ।
हपुषा तिन्तिडीकं च चूर्णमेषां प्रयोजयेत् ॥ १० ॥
भाण्डे पुराणे सुस्निग्धे धूपिते गन्धभेषजैः ।
कोष्ठसारे तथा तप्ते भूमौ मासं विनिःक्षिपेत् ॥ ११ ॥
यो रोगी प्रातरुत्थाय पलमेकं तु भक्षयेत् ।
धातुक्षयं जयेत्कासं श्वासं पञ्चविधं तथा ॥ १२ ॥
१६६ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः
अशांसि वातरोगांश्च ग्रहणीपाण्डुकामलाः ।
हलीमकमुदावर्त्तं गुल्मं पञ्चविधं जयेत् ॥ १३ ॥
आध्मानं कुक्षिशूलं च प्रत्याध्मानं गुदग्रहम् ।
अष्ठीलिकां च हृद्रोगानेतान् व्याधीन्विनिर्जयेत् ॥ १४ ॥
कुमार्यासव इत्येष कथितः शूलपाणिना ।
द्वितीयः कुमार्यासवः ।
रसस्तुलार्धं कौमारस्तदर्धंगुडमिश्रितः ।
चातुर्जातलवङ्गानां सैन्धवस्य निशाद्वयोः ॥ १५ ॥
कुबेरकृष्णामरिचधातकीनां पलं पलम् ।
पथ्याचूर्णं पलयुगं पलं चाकल्लुकस्य तु ॥ १६ ॥
उग्रगन्धाजातिपत्रीविडङ्गानां पलं पलम् ।
एकीकृत्य शुचौ भाण्डे पक्षमेकं निधापयेत् ॥ १७ ॥
पलार्धं भक्षयेन्नित्यं गुल्मोदावर्त्तनाशनः ।
आध्मानं पार्श्वशूलं च जठरार्तिं कफं हरेत् ॥ १८ ॥
मन्दाग्निं शमयेच्छ्वासं कासं हिक्कां क्षयं तथा ।
यकृत्प्लीहं तथा शोफं नाशयेत्येष सेवितः ॥ १९ ॥
नवविधा आसवयोनिः ।
त्वक्पत्रकाण्डपुष्पाणि सारमूलफलानि च ।
धान्यानि च सिता चापि नव आसवयोनयः ॥ २० ॥
द्रव्यसंयोगतः संख्यातीताः पथ्यतमाश्च ते ।
द्रव्याणां भेदतो वेदवसु(८४)संख्याः प्रकीर्त्तिताः २१
तद्यथा—
षड् धान्यासवाः ।
सुरासौवीरमैरेयधान्याम्लतुषोदकाः ।
समेदा रससंख्यास्ते आसवा धान्यतो मताः ॥ २२॥
षड्विंशतिः फलासवाः ।
द्राक्षाखर्जूरकाश्मर्यजम्ब्वामलविभीतकैः ।
धन्वराजादनैः पद्मातृणशून्यपरूषकैः ॥ २३ ॥
६.] गदनिग्रहः । १६७
कपित्थम्गलिण्डिकाकार्कन्धूबदरीफलैः ।
पियालपनसप्लक्षन्यग्रोधोदुम्बरैः सह ॥ २४ ॥
कपीनपीलुबकुलाजमोदाशङ्खिनीफलैः ।
शृङ्गाटाश्वत्थसंयुक्तः षड्विंशाः फलतो मताः ॥ २५॥
एकादश मूलासवाः ।
विदारिगन्धाश्वगन्धाकृष्णगन्धाशतावरी- ।
श्यामोरूबूकदन्तीभिर्बिल्ववह्नित्रिवृत्समैः ॥ २६ ॥
मूलैरेकादशैते तु मुनिभिर्मूलतो मताः ।
विंशतिः सारासवाः ।
शालप्रियङ्गुस्यन्दनचन्दनखदिरार्जुनैश्च कदरयुतैः ।
अशनाश्वकर्णसप्तपर्णशमीशिंशिपासहितैः ॥ २७ ॥
अरिमेदतिन्दुकणिहीशुक्तिशिरीषैश्च वञ्जुलसमेतैः ।
धन्वनमधुकसारैर्विंशतिरात्रेयमुनिनोक्ताः ॥ २८ ॥
दश पुष्पासवाः ।
पद्मोत्पलनलिनकुमुदसौगन्धिकपौण्डरीकशतपत्रैः ।
पुष्पैर्मधूकजातैः प्रियङ्गुना धातकीकुसुमैः ॥ २९ ॥
दश पुष्पासवाः पूर्वं मुनिभिः परिकीर्तिताः ।
चत्वारः काण्डासवाः ।
चत्वारः काण्डकैः पुण्ड्रेक्षुकाण्डेक्ष्विक्षुवालिकैः ॥३०॥
द्वौ पत्रासवौ ।
पटोलकतमालाभ्यां द्वौ हि पत्रासवौ मतौ ।
चत्वारस्त्वगासवाः ।
तिल्वैलवालुक्रमुकैः सलोध्रैस्त्वकृता हिताः ॥ ३१ ॥
शर्करासवः ।
शर्करासवं एवैको द्रव्यसंयोगमागतः ।
आसवानां विकल्पसंस्कारगुणाः ।
विकल्पा बहुधा ज्ञेयाः संस्कारश्च यथाविधिः ॥ ३२ ॥
१६८ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः
स्वयोनिसंस्कृता ह्येते स्वं स्वं कर्म प्रकुर्वते ।
संयोगसंस्कृतैर्देशकालमात्रस्वभावतः ॥ ३३ ॥
पृथक्तेषां स्वभावांस्तु ज्ञात्वा कार्ये प्रयोजयेत् ।
श्लोकद्वयमिहार्थे तु मुनिरात्रेय उक्तवान् ॥ ३४ ॥
मनःशरीराग्निवलप्रदानामश्मशोकारुचिनाशनानाम् ।
हर्षप्रदानां प्रवरासवानामशीतिरुक्ता चतुरुत्तरैषा ॥ ३५ ॥
शरीररोगप्रकृतौ मतानि तत्त्वेन चाहारविनिश्चयाय ।
उवाच यज्ञःपुरुषादिकेऽस्मिन्मुनिस्तथाग्याणि वरासवांश्च ३६
वातव्याधौ विडङ्गासवः ।
विडङ्गं पिप्पलीमूलं पाठा धात्र्येलवालुकम् ।
कुटजत्वक्फलं रास्नां भार्गी पञ्चपलोन्मितान् ॥ ३७ ॥
अष्टद्रोणेऽम्भसः पक्त्वा द्रोणशेषं तु कारयेत् ।
पूते शीते क्षिपेत्तस्मिन्माक्षिकस्य शतत्रयम् ॥ ३८ ॥
धातक्या विंशतिपलं चूर्णं कृत्वा तु दापयेत् ।
व्योषस्य तु पलान्यष्टौ त्रिजातद्विपलान्यपि ॥ ३९ ॥
फलिनीहेमतोयानां सरोद्राणां पलं पलम् ।
घृतभाण्डे समाधाय मासमेकं विधारयेत् ॥ ४० ॥
एष योगो हरत्येव प्रत्यष्ठीलाभभगन्दरान् ।
ऊरुस्तम्भाश्मरीमेहगण्डमालां सविद्रधिम् ॥ ४१ ॥
आढ्यवातं हनुस्तम्भं विडङ्गाख्यो महासवः ।
प्रमेहे रोध्रासवः ।
रोध्रं शठीं पुष्करमूलमेलां मूर्वा विडङ्गं त्रिफलां यवानीम् ।
चव्यं प्रियङ्गुं क्रमुकं विशालां किराततिक्तं कटुरोहिणीं च ४२
भार्गीनतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषां च पाठाम् ।
कलिङ्गकान् केसरमिन्द्रसाह्वं नखं सपत्रं मरिचं प्लवं च ॥ ४३ ॥
द्रोणेऽम्भसः कर्षसमानि पक्त्वा पूते चतुर्भागजलावशेषे ।
रसेऽर्धमाघे संक्षुनः प्रदक्ष्य पक्षं निधेयो घृतभाजनस्थः ॥ ४४ ॥