सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 173, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 173

४.] गदनिग्रहः । १५५
नाहारे यन्त्रणा काचिन्न विहारे तथैव च ।
उदावर्तविवन्धाशोगुल्मपाण्डूदरकृमि- ॥ १७८ ॥
कुष्ठमेहारुचिहरो विड्विबन्धेषु शस्यते ।
लेहः पटोलमूलाख्यः सर्वकर्मसु युज्यते ॥ १७९ ॥
मुखरोगे दार्श्वलेहः ।
दार्ब्यास्तु मूलार्धतुलां जलस्य द्रोणे शृतां पूतचतुर्थशेषाम् ।
भूनिम्बदार्बीखदिरारिमेदः पुनर्विपक्कं पलिकैश्चतुर्भिः ॥१८०॥
पूतं ततो गैरिकचूर्णपादं मन्दानले तच्च पुनर्विपक्कम् ।
सञ्जीय शीतं मधुशर्कराभ्यां सदा प्रयोज्यं घृतभाजनस्थम् १८१
नानाप्रकारेपु मुखामयेषु सुदारुणेषूग्ररुजेषु चैव ।
प्रशीर्णजीर्णेष्वबलद्विजेषु कृच्छ्रेषु दुष्टेषु व्रणेषु चैव ॥ १८२ ॥
कल्पोऽयमिष्टो मधुकस्य चैव प्रपौण्डरीकस्य वृषस्य चैव ।
जातीरिमेदत्रिफलासमङ्गारोध्रस्य जम्बोः खदिरस्य चैव १८३
नागराद्योऽवलेहः ।
नागरस्य पलान्यष्टौ घृतस्य पलविंशतिः ।
क्षीरद्विप्रस्थसंयुक्तं खण्डस्यार्धशतं तथा ॥ १८४ ॥
व्योषं त्रिजातकं चैव पलांशमुपकल्पयेत् ।
बल्यं च वर्ण्यमायुष्यं वलीपलितनाशनम् ॥ १८५ ॥
आमवातप्रशमनं सौभाग्यकरमुत्तमम् ।
कासे कसेर्वाद्योऽवलेहः ।
कसेरोस्तु तुलार्धं हि द्विद्रोणेऽपां विपाचयेत् ॥ १८६ ॥
द्रोणार्धशेषे पूते च दद्याद्गुडतुलां तथा ।
सर्पिषः कुडवं दद्याल्लेहवत्साधु साधयेत् ॥ १८७ ॥
चतुष्पलं तु व्योषस्य त्रिजातं त्रिपलं तथा ।
पलद्वयं केसरस्य चूर्णं कृत्वा विनिक्षिपेत् ॥ १८८ ॥
तद्यथाग्निबलं खादेत्कासकृमिज्वरापहः ।
हृत्पाण्डुरोगवैवर्ण्यदौर्बल्यानाहनाशनः ॥ १८९ ॥