सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 175, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 175

५.] गदनिग्रहः । १५७
जीर्णन्त्यपि च काष्ठानि कासश्वासक्षयकृमीन् ।
गुल्मोदरार्शःकुष्ठं च जयेच्छोषं भगन्दरम् ॥ २०२ ॥
योगशतैरप्यजितं त्र्यहाज्जयति पीनसम् ।
रक्तपित्ते खण्डखाद्योऽवलेहः ।
शतावरीच्छिन्नरुहावृषमुण्डितिकामयाः ॥ २०३ ॥
तालमूली च गायत्री त्रिफलायास्त्वचस्तथा ।
भार्गी पुष्करमूलं च पृथक्पञ्च पलानि च ॥ २०४ ॥
जलद्रोणे विपक्तव्यमष्टभागावशेषितम् ।
दिव्यौषधिहतस्यापि माक्षिकेण हतस्य वा ॥ २०५ ॥
पलद्वादशकं देयं रुक्मलोहस्य चूर्णितम् ।
खण्डं घृतं समं देयं पलषोडशकं बुधैः ॥ २०६ ॥
पचेत्ताम्रमये पात्रे गुडपाको मतो यथा ।
प्रस्थार्धं मधुनो देयं शुभाश्मजतुक्तं त्वचम् ॥ २०७ ॥
शृङ्गी विडङ्गं कृष्णा च शुण्ठ्यजाजी पलं पलम् ।
त्रिफला धान्यकं पत्रं त्र्यक्षं मरिचकेसरम् ॥ २०८ ॥
चूर्णं दत्त्वा सुमथितं स्निग्धे भाण्डे निधापयेत् ।
यथाकालं प्रयुञ्जीत बिडालपदकं ततः ॥ २०९ ॥
गव्यक्षीरानुपानं च सेव्यं मांसरसं पयः ।
गुरुवृष्यान्नपानानि स्निग्धं मांसादिवृंहणम् ॥ २१० ॥
रक्तपित्तं क्षयं कासं पक्तिशूलं तथैव च ।
वातरक्तं प्रमेहं च शीतपित्तं वमिं क्लमम् ॥ २११ ॥
श्वयथुं पाण्डुरोगं च कुष्ठं प्लीहोदरं तथा ।
आनाहं मूत्रसंस्रावमम्लपित्तं निहन्ति च ॥ २१२ ॥
चक्षुष्यं बृंहणं वृष्यं मङ्गल्यं प्रीतिवर्धनम् ।
आरोग्यपुत्रदं श्रेष्ठं कायाग्निबलवर्धनम् ॥ २१३ ॥
श्रीकरं लाघवकरं खण्डखाद्यं प्रकीर्तितम् ।
छागं पारावतं मांसं तित्तिरिः क्रुकरः शशः ॥ २१४ ॥
१४