गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 170, कुल 286 में से
संदर्भ में पढ़ेंवस्त्रपूतं पुनः क्वाथं पचेल्लेहत्वमागतम् ।
भल्लातकं विडङ्गानि त्रिकटु त्रिफलां तथा ॥ १४२ ।
रसाञ्जनं चित्रकं च कुटजस्य फलानि च ।
वचामतिविषां बिल्वं प्रत्येकं तु पलं पलम् ॥ १४३ ।
त्रिंशत्पलं गुडस्यात्र चूर्णीकृत्य प्रदापयेत् ।
मधुनः कुडवं दद्याद्धृतस्य कुडवं तथा ॥ १४४ ॥
एष लेहस्तु शमयेदर्शो रक्तसमुद्भवम् ।
वातिकं पैत्तिकं चैव श्लैष्मिकं सान्निपातिकम् ॥१४५।
ये च दुर्नामजा रोगास्तांश्च सर्वान् व्यपोहति ।
रक्तपित्तमतीसारं पाण्डुरोगमरोचकम् ॥ १४६ ॥
ग्रहणीमार्दवं कार्श्य श्वयथुं कामलामपि ।
अनुपाने घृतं दद्याद्दधि तक्रं जलं पयः ॥ १४७ ॥
जीर्णे तु पथ्यभोजी स्यादशोभ्यः प्रविमुच्यते ।
रोगानीकवधार्थाय कौटजो लेह उच्यते ॥ १४८ ॥
अर्शसि द्वितीयः कुटजावलेहः ।
कुटजत्वचं विपाच्य पलशतमात्रां महेन्द्रसलिलेन ।
यावत्स्याद्वि श्रुतस्तद्रव्यं स्वरसस्ततो ग्राह्यः ॥ १४९ ॥
मोचरसश्च समङ्गा फलिनी च पलांशकास्त्रिभिश्चैतैः ।
वत्सकबीजं तुल्यं चूर्णीकृतमत्र दातव्यम् ॥ १५० ॥
पूतः कथितः सान्द्रः स रसो दर्वीप्रलेपको ग्राह्यः ।
मात्रा कालोपहिता रसक्रियैषा जयति रक्तम् ॥ १५१ ॥
छगलीपयसा युक्ता पेयामण्डेन वा यथाग्निबलम् ।
जीर्णौषधश्च शालीन् पयसा छागेन भुञ्जीत ॥ १५२ ॥
रक्तार्शस्यतिसारं रक्तं सासृग्दरं निहन्त्याशु ।
बलवच्च रक्तपित्तं रसक्रियैषा ह्युभयभागम् ॥ १५३ ॥
अर्शसि कुटजाष्टकोऽवलेहः ।
तुलामथार्द्रा गिरिमल्लिकायाः संक्षुद्य पक्त्वा रसमाददीत ।