सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 180, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 180

An accurate transcription of the Sanskrit/Ayurvedic text presented in the image:

१६२ आयुर्वेदीयग्रन्थमाला । [लेहाधिकारः
विदारिगन्धां बृहतीं पृश्निपर्णी निदिग्धिकाम् ।
विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम् ॥ २६३ ॥
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिस्तथा ।
पुनर्नवा शूर्पपर्ण्यौ बला चैरण्ड एव च ॥ २६४ ॥
जीवकर्षभकौ वीरा जीवन्ती सशतावरी ।
शरेक्षुदर्भकासानां शालीनां मूलमेव च ॥ २६५॥
एतेषां पञ्चमूलानां पञ्चानामुपकल्पयेत् ।
भागान्यथोक्तान् तत्सर्वं साध्यं दशगुणेऽम्भसि २६६
दशभागावशेषं तु पूतं तद्ग्राहयेद्रसम् ।
हरीतक्यश्च ताः सर्वाः सर्वाण्यामलकानि च ॥ २६७॥
तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चकैः ।
विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत् ॥ २६८ ॥
मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च ।
मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा ॥ २६९ ॥
मधुकस्य हरिद्राया वचायाः कनकस्य च ।
भागान् पञ्चपलांस्कृत्वा सूक्ष्मैलायास्त्वचस्तथा ॥२७०॥
सितोपलासहस्रं च चूर्णितं तुल्याधिकम् ।
तैलं स्यादाढकं तत्र तथा त्रीणि च सर्पिषः ॥ २७१॥
साध्यं ताम्रमये पात्रे तत्सर्वं मृदुनाऽग्निना ।
ज्ञात्वा लेहमदग्धं च शीतं क्षौद्रेण संसृजेत् ॥ २७२ ॥
क्षौद्रप्रमाणं स्नेहार्धं तत्सर्वं घृतभाजने ।
तिष्ठेत्सम्मूच्छितं तस्य मात्रां काले प्रयोजयेत् ॥ २७३ ॥
या नोपरुन्ध्यादाहारमेवं मात्रा तु सा स्मृता ।
षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते ॥ २७४ ॥
वैखानसा वालिखिल्यास्तथा चान्ये तपोधनाः ।
रसायनमिदं प्राश्य बभूवुरमितायुषः ॥ २७५ ॥