द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 47, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । ३६
कुक्कुटो बृंहणो वन्यः स्वेदस्वरबलावहः ।
स्निग्धोष्णोऽनिलहा वृष्यो ग्राम्यस्तद्वद्गुरुस्तु सः॥२३
कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवर्द्धनः ।
सन्निपातहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः ॥ २४ ॥
शुकमांसं कषायाम्लं विपाके रूक्षशीतलम् ।
शोषकासक्षयहितं संग्राही लघु दीपनम् ॥२५॥
गुरुष्णस्निग्धमधुराः स्वरवर्णबलप्रदाः ।
बृंहणाः शुक्रलाश्चोक्ता हंसाः पवननाशनाः ॥२६॥
शरारिबककादम्बवलाकाः पवनापहाः ।
स्निग्धाः सृष्टमला वृष्या रक्तपित्तहरा हिमाः ॥२७॥
काणकपोतो वनवासिपाण्डुकपोत इति गयदासः । अत्र
चकारो लुप्तनिर्दिष्टो द्रष्टव्यः । तेन त्रिदोषकरत्वं मलदूषकत्व-
ञ्चास्य समुच्चीयत इत्याहुः ॥ २२ ॥
वन्य इति वनभवः । तद्वदिति वनकुक्कुटवत् । गुरुस्तु स
इति विशेषेण ग्राम्यकुक्कुटो गुरुस्तेन वनकुक्कुटस्यापि किञ्चिद्-
गुरुत्वं सिद्धम् । अतएव
गुरुष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः ।
इति । सामान्येन गुरुष्णत्वादिहेतूपन्यासो न विरुध्यत
इत्याहुः ॥ २३ ॥
कुलिङ्गो वनचटको ग्राम्यचटकाकारः । पीतमस्तक वाऐ
इति लोके । गृहकुलिङ्गो गृहवासिचटक एव ॥ २४ ॥
शरारिः शरालिरिति लोके प्रसिद्धः । बकः स्वनामख्यातः ।