द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 44, कुल 176 में से
संदर्भ में पढ़ें३६ द्रव्यगुणः ।
मेषस्य मधुरं मांसं पित्तश्लेष्महरं गुरु ॥ ६ ॥
मेदःपुच्छोद्भवं वृष्यमौरभ्रसदृशं गुणैः ॥ ७ ॥
माहिषं तर्पणं वृष्यं स्निग्धोष्णमधुरं गुरु ।
निद्रापुंस्त्वबलस्तन्यवर्धनं मांसदार्थ्यकृत् ॥ ८ ॥
सामान्यादिति अनभिष्यन्दित्वे हेतुमाहुः । तन्न अप्रयोजकत्वात् ।
स्वमते तु ग्राम्यस्य बृंहणस्याप्याजमांसस्यानभिष्यन्दित्वं प्रभावा-
देव मन्तव्यम् । यदेव हि द्रव्यगुणद्वारा नोपपद्यते तत्रैव प्रभाव-
कल्पनस्यैवौचित्यात् ॥ ५ ॥
मेषगुणमाह मेषस्येति । अत्र क्वचित् पुस्तके पित्तश्लेष्म-
करमिति पाठो दृश्यते । स च प्रमादपाठ एव । यतः शरद्विधौ
उरभ्राणामुपयोग उक्तः । यदुक्तम् उरभ्रान् शरभान् शशा-
निति । न च पित्तश्लेष्मकरत्वे मेषस्य तत्रोपयोगो युज्यते ।
अतएव चक्रेणापि
मांसं मधुरशीतत्वाद्गुरु बृंहणमाविकमिति ।
चरकवचनेनाविकमांसस्य मधुरशीतत्वेन पित्तहरत्वं बोध्य-
मिति व्याख्यातम् । यत्तु रक्तपित्तनिदाने चरकेण वराहमहिषा-
विकेत्यादिना आविकस्य रक्तपित्तनिदानत्वमुक्तम् । तदपि द्रव्या-
न्तरसंयुक्तस्याप्याविकमांसस्य न तु केवलस्येत्यवधेयम् । अतएव
सुश्रुतेऽपि “बृंहणं मांसमौरभ्रं पित्तश्लेष्मापहं गुरु” इत्युक्तम् ।
वाप्यचन्द्रस्तु पित्तश्लेष्मावहमिति पठति व्याचष्टे च । यद्यप्यौरभ्र-
मांसं पित्तश्लेष्मकरमत्रोक्तम् । तथापि सातिशयं पित्तं श्लेष्माणञ्च
न करोतीति तदप्यनादरणीयमुक्तयुक्तेरेव ॥ ६ ॥
मेदः पुच्छो मेषभेदः स च पुच्छदेशे लम्बमानमांसपिण्डः ॥७॥
अत्र वृष्यं तथा पुंस्त्ववर्धनमिति च द्वयमुक्तं माषवदुभय-
रूपवृष्यप्राप्तिरिति बोध्यम् ॥ ८ ॥