सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 57, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 57

द्रव्यगुणाः । ४६
जीवन्ती सर्वदोषघ्नी चक्षुष्या मधुरा हिमा ॥३॥
तण्डुलीयमसृक्पित्तविषनुत् स्वादुपाकतः ॥४॥
वास्तूकस्तु सरो हृद्यो दोषनुत् पाकतो लघुः ।
सक्षारः क्रिमिहा मेध्यो रुच्योऽग्निवलवर्द्धनः ॥५॥
लघुपत्री तु या चिल्लो सा वास्तूकसमा मता ॥६॥
तत्र शाकेषु जीवन्ती श्रेष्ठा । उक्तं हि वाग्भटे
वरा शाकेषु जीवन्ती मारिषस्त्ववरः स्मृतः ।
इति । तद्गुणमाह जीवन्तीति । जीवन्ती स्वनामख्याता
स्वर्णनाड़ इति चक्रः । सा द्विधा मधुरा अमधुरा च । तत्र
मधुराया एव त्रिदोषहन्तृत्वम् । अमधुरायास्तु वातपित्तह-
न्तृत्वमेव । तदुक्तं वृद्धवाग्भटे
चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा ।
शाकानां प्रवरा न्यूना द्वितीया किञ्चिदेव तु ॥
तत्रामधुरायाः किञ्चिन्न्यूनत्वेन न त्रिदोषहरत्वमिति बोध-
यति । अतएवाह चरकः
भण्डी शतावरीशाकं बला जीवन्तिजञ्च यत् ।
पर्वेच्छाः सर्वपुष्पाश्च वातपित्तहरं मतम् ॥ इति ॥ ३ ॥
तण्डुलीयं क्षुद्रमारिषः । पाकत इत्यनन्तरं चकारो लुप्त-
निर्दिष्टो ज्ञेयः । तेन रसतोऽपि स्वादुरित्यर्थः ॥ ४ ॥
दोषनुदिति । त्रिदोषहरः पाकतो लघुरिति कटुरित्यर्थः ।
उक्तञ्च
कटुविपाके क्रिमिहा मेधाग्निवलवर्द्धनः ।
सक्षारः सर्वदोषघ्नो वास्तूको रोचनः परः ।
चरकेऽपि त्रिदोषघ्नत्वमुक्तम् ॥ ५ ॥
५