द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 53, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । ४५
लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते॥३४
चरोऽनूपजलाकाशधन्वायो भक्ष्यसंविधिः ।
इति । भक्ष्यसंविधिर्भक्षणम् । तत्रानूपजलाकाशधन्वाय
इत्यनेन गतिरूपश्चर उच्यते । भक्ष्यसंविधिरित्यनेन भक्ष्यरूप-
श्चर उच्यते । एतत् उदाहरणं यथा ।
जलजानूपजाश्चैव जलानूपचराश्च ये ।
गुरुभक्ष्याश्च ये सत्त्वाः सर्वे ते गुरवः स्मृताः ।
लघुभक्ष्यास्तु लघवो धन्वजा धन्वचारिणः ॥
इति । अत्र जलजत्वेन च जले वा अनूपे वा गतिरेव
दर्श्यते । न हि जलादौ ये जातास्ते प्रायोऽन्यत्रावतिष्ठन्ते । प्रायः
काकमद्गुप्रभृतयस्तद्ग्रहणार्थमाह जलानूपचराश्च य इति ।
एतेन सामान्येन जले प्रायोऽवस्थानादिह जलचरत्वम् । एवमनू-
पचराद्यपि ज्ञेयम्। गुरुभक्ष्या इत्यादिना तु भक्ष्यरूपचरकृतगुण-
कथनम् । धन्वजा धन्वचारिण इत्यपि गतिरूपचरगुणकथ-
नम् । अत्र चकारो लुप्तनिर्दिष्टो द्रष्टव्यः । तेन बाहुल्येन
आकाशचारिणामपि श्येनादीनां स्वजातिप्रसङ्घान्तरापेक्षया
लाघवं बोध्यम् आकाशस्य लघुत्वात् । ये तु ब्रुवते आकाश-
चारिणां गौरवलाघवानियमादकथनमिति । तन्न । तथा सति
आकाशस्य अप्रयोजनकत्वेन चरोऽनूपजलाकाशधन्वाद्य इत्या-
काशकथनं निष्प्रयोजनं स्यात् । एवञ्च देशविशेषाद्भक्ष्यविशेषाच्च
मृगादीनां गौरवं लाघवं वा निर्देश्यमिति चरपरीक्षाप्रयोजन-
मिति भावः । शरीरावयव इति शरीरावयवपरीक्षाप्रयो-
जनम् । यथा
ऊरुग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम् । इति ।
श्लो०- सक्थिमांसाद्गुरुतरं क्रोड़स्कन्धशिरस्पदम् ॥