द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 59, कुल 176 में से
संदर्भ में पढ़ें˙द्रव्यगुणः। ५१
स्वादुपाकरसा हृद्या वातपित्तमदापहा ॥ १३ ॥
सुनिषण्णन्तु संग्राही अविदाहि त्रिदोषनुत् ॥१४॥
मारिषो मधुरः शीतो विष्टम्भी गुरुपित्तनुत् ॥१५॥
पालङ्गा बह्वविण्मूत्रा कफघ्नी तण्डुलीयवत्॥१६॥
कासमर्दोऽग्निदः कण्ठ्यः
स्वादुस्तिक्तस्त्रिदोषनुत् ॥१७॥
कालशाकं गरश्लेष्मशोथघ्नं दीपनं कटु ॥ १८ ॥
कलायपत्रं मधुरं रूक्षं भेदि च वातलम् ॥१९॥
सतीलकं त्रिदोषघ्नं कटुपाकं सतिक्तकम् ॥२०॥
सुनिषण्णकं सुसुनिया इति ख्यातम्। ब्रह्मदेवस्तु तल्ल-
क्षणमाह।
चाङ्गेरीसदृशैः पत्रैः सुनिषण्णं चतुर्दलम्।
शाको जलान्विते देशे चतुष्पत्रीति सूच्यते ॥ १४ ॥
तण्डुलीयवदित्यनेन मधुररसपाकत्वादिकमतिदिश्यति।
अस्याश्च कफहरत्वं रूक्षत्वादिप्रकर्षात् ॥ १६ ॥
अस्य च त्रिदोषहरत्वेऽपि विशेषात् पित्तहरत्वं बोध्यम्।
यदाह सुश्रुतः।
मधुरः कफवातघ्नः पाचनः कण्ठशोधनः।
विशेषतः पित्तहरः सतिक्तः कासमर्दक इति ॥ १७ ॥
कलायस्त्रिपुटकलायः। सतीलाख्यस्य वक्ष्यमाणत्वात् ॥१९॥
सतीलको वर्त्तुलकलायः। अस्य च त्रिदोषहरत्वेऽपि विशे-
षात् कफपित्तहरत्वं ज्ञेयम्।
कफपित्तहरं तिक्तं शीतं कटु विपच्यते।