सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

४. चतुर्थ वर्ग: धातकी, शाक, धान्य व फल वर्ग एवं उपसंहार

१२८ द्रव्यगुणः।
लघवो वृंहणा वृष्या हृद्या रोचनदीपनाः ॥ ४८ ॥
रसाला वृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा॥४९॥
दधि स्याद्गुड़संयुक्तं स्नेहनञ्चानिलापहम् ॥ ५० ॥
द्राक्षाखर्जूरकोलानां गुरु विष्टम्भि पालकम् ।
परूषकाणां क्षौद्रस्य यच्चेक्षुविकृतिं प्रति ॥ ५१ ॥
तेषां कट्वम्लसंयोगात् पालकानां पृथक् पृथक् ।
द्रव्यं मानञ्च विज्ञाय गुणकर्माणि निर्दिशेत् ॥५२॥
षाड़वाः पुनर्मधुराम्ललवणसुगन्धिद्रव्यजा नानाविधाः । अन्ये
पुनरेवं वदन्ति यदाह नलः ।
क्वथितन्तु गुड़ोपेतं सहकारफलं नवम् ।
तैलनागरसंयुक्तं विज्ञेयो रागषाड़वः ॥ इति ॥ ४८ ॥
रसालागुणमाह रसालेति । रसाला दधिसंयोगविशेषाः ।
तथा हि
सचातुर्जातकाजाजि सगुड़ार्द्रकनागरम् ।
रसाला स्याच्छिखरिणी सुघृष्टं सरसं दधि ॥ ४९ ॥
रसालाप्रसङ्गेन सगुड़दधिगुणमाह दधीति ॥ ५० ॥
पालकानामपि कृतान्नभेदत्वात् तद्गुणमाह द्राक्षेति ।
यच्चेक्षुविकृतिं प्रतीत्यत्र पालकमिति सम्बन्धः ॥ ५१ ॥
उक्तानुक्तपालकगुणज्ञानोपायमाह तेषामिति । न हि नियतं
द्रव्यं पालकेषु संयुज्यते । किं तर्हि पुरुषाणामभिलाषात् तथा
व्याध्यादिविशेषैश्च तानि तानि द्रव्याणि संयुज्यन्ते । अतस्तत्तत्-
कट्वम्लादिद्रव्यसंयोगं बुद्ध्वा तेषां संयुक्तानां द्रव्याणाञ्च मध्ये
कस्य कियन्मानमिति बुद्ध्वा उक्तानुक्तपालकानां गुणकर्माणि
निर्दिशेदित्यर्थः ॥ ५२ ॥

द्रव्यगुणः। १२८
दुग्धाम्लं शीतलं स्वादु वृष्यं वर्णिकरं गुरु ।
वातपित्तहरं रुच्यं बृंहणं बलवर्द्धनम् ॥ ५३ ॥
शक्तवः सर्पिषाभ्यक्ताः शीतोदकपरिप्लुताः ।
नातिद्रवा नातिसान्द्रा मन्थ इत्यभिधीयते ॥ ५४ ॥
मन्थः सद्यो बलकरः पिपासाज्वरनाशनः ॥ ५५ ॥
साम्लस्नेहगुड़ो मूत्रकृच्छ्रोदावर्त्तनाशनः ।
शर्करेक्षुरसद्राक्षायुक्तः पित्तविकारनुत् ॥
द्राक्षामधुकसंयुक्तः कफरोगनिबर्हणः ।
वर्गत्रयेणोपहितो मलदोषानुलोमनः ॥ ५६ ॥
गुर्वी पिण्डी खरात्यर्थं लघ्वी सैव विपर्य्ययात् ।
पालकस्य पेयत्वात् तत्प्रसङ्गेऽन्यदपि पेयमाह दुग्धाम्ल-
मिति ॥ ५३ ॥
मन्थानामपि कृतान्नविशेषत्वात् तद्गुणे वाच्ये प्रथमं तल-
क्षणमाह शक्तव इति । शक्तव इति यवशक्तवो लाजशक्त-
वश्च । डल्हनोऽपि अविशेषोक्त्या यवादिशक्तवो ग्राह्या इत्याह
॥ ५४ ॥
मन्थगुणमाह मन्थ इति । सद्यो बलकर इत्यापातबलकरः
न तूत्तरकालं रौक्ष्यलाघवात् ॥ ५५ ॥
तस्यैव द्रव्यान्तरसंयुक्तस्य गुणमाह साम्लेत्यादि । मूत्र-
कृच्छ्रोदावर्त्तौ हि पक्वाशयगतौ । पक्वाशयश्च वायोः स्थानम् ।
तेन मूत्रकृच्छ्रादिहन्तृत्वेन अस्य वातहरत्वमप्युक्तम् । वर्गत्रये-
णेति अनन्तरोक्ताम्लादि शर्करादि द्राक्षादिवर्गत्रयेणेत्यर्थः ॥ ५६ ॥

१३० द्रव्यगुणः ।
शक्तूनामाशु जीर्य्येत मृदुत्वादवलेहिका ॥५७॥
इति कृतान्नवर्गः ।
———
वक्ष्याम्यतः परं भक्ष्यान् रसवीर्य्यविपाकतः ॥१॥
पृथुका गुरवः स्निग्धाः कफविष्टम्भकारकाः ।
बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्चसः ॥२॥
लाजाश्छर्द्यतिसारघ्नाः स्नेहमेदःकफच्छिदः ॥३॥
धानोल्बम्बास्तु लघवः कफमेदोविशोषणाः ॥४॥
शक्तवो वातला रूक्षा बद्धवर्चस एव च ॥ ५ ॥
भक्ष्याः क्षीरकृता बल्या वृष्या हृद्याः सुगन्धिनः ।
शक्तुकृतमन्थप्रसङ्गेन शक्तुपिण्डीशक्त्ववलेहिकयोर्गुणमाह।
गुर्वीति । खरा इति कठिना ॥ ५७ ॥
इति कृतान्नवर्गः ।
———
भक्ष्याणामपि पृथुकादीनां शूकशमीधान्यसंभवत्वात् ।
कृतान्नवर्गानन्तरं भक्ष्यवर्ग उच्यते । पृथुका इति चिपिटाः ।
सक्षीरभावादिति सक्षीरधान्यकृतत्वात् ॥ २ ॥
धाना भृष्टयवाः उल्बम्बा होल्लाका अत्र मुद्गकलायादिशिम्बा
अग्निपक्वा होल्लाका इति डल्हणः ॥ ४ ॥
धानाप्रसङ्गेन यवशक्तुगुणमाह शक्तूनामिति । शक्तूनां रूक्ष-
त्वेऽपि वातलत्वाभिधानं तक्रस्य रूक्षस्यापि वातहारित्वदर्शनात्
॥ ५ ॥

द्रव्यगुणाः। १३१
अदाहिनः पुष्टिकरा दीपनाः पित्तनाशनाः ॥ ६॥
घृतपूराः प्राणकरा हृद्याः श्लेष्मविवर्द्धनाः ।
वातपित्तहरा वृष्या गुरवो मांसशुक्रलाः ॥ ७ ॥
गौड़िका बृंहणा वृष्या गुरवश्चानिलापहाः ।
अदाहिनः पित्तसहाः शुक्रलाः कफवर्द्धनाः ॥८॥
मधुशीर्षकसंयावाः पूपा ये ते विशेषतः ।
गुरवो बृंहणाश्चैव मोदकास्तु सुदुर्ज्जराः ॥ ६ ॥
भक्ष्याणां योनिविशेषेण गुणविशेषं दर्शयन्नाह भक्ष्या इति ।
गोधूमपिष्टविकृतोः क्षीरेणालोद्य ये क्रियन्ते ते क्षीरभक्ष्याः ।
दीपनत्वं पुनरेषां स्ववर्गापेक्षया वातोपहताग्नेः संस्कारप्रभावाद्वा
॥ ६ ॥
घृतपूरस्य गुणमाह घृतपूरा इति। घृतपूरस्य लक्षणं यथा ।
मर्दिता समिता क्षीरनारिकेलसितादिभिः ।
अवगाह्य घृते पक्वा घृतपूरोऽयमुच्यते ॥
समिता गोधूमचूर्णम् ॥ ७ ॥
गौड़िका इति । गोधूमपिष्टवेष्टना गुड़प्रधानोदरा गौड़िका
उच्यन्ते । अदाहिन इति ईषद्विदाहिनः । पित्तसहा इति पित्तं
न कोपयन्तीत्यर्थः ॥ ८ ॥
मधुशीर्षकाः समितावेष्टनाः । पाकाद्घनीभूतमधुना कृतो-
दरा मधुशीर्षका उच्यन्ते । संयावाः पुनः
समितामम्बुदुग्धेन मर्दयित्वा सुशोभनाम् ।
पचेद्घृतोत्तरे खण्डे क्षिपेद्भाण्डे नवे च तत् ।
संयावोऽसौ युतश्चूर्णैस्त्वगेलामरिचार्द्रकैः ॥
मोदकाः प्रसिद्धाः ॥ ९ ॥

१९२ द्रव्यगुणः।
षट्टकः प्रागरुचिकृद् गुरुः स्वर्य्योऽनिलापहः ॥ १०॥
विष्यन्दः स्निग्धमधुरो बल्यो वातापहो गुरुः ॥११
बृंहणा वातपित्तघ्ना बल्या भक्ष्यास्तु सामिताः॥१२
हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः ॥१३॥
मुद्गादिवेशवाराणां पूर्णा विष्टम्भिनो मताः ॥१४
षट्टकगुणमाह षट्टक इति। षट्टकानां बहुत्वेऽप्युदाहरणार्थ-
मेको लिख्यते ।
लवङ्गव्योषखण्डैस्तु दधि निर्मथ्य गालितम् ।
दाडिमीबीजसंयुक्तं चन्द्रचूर्णावचूर्णितम् ।
षट्टकस्तु प्रमोदाख्यो नलादिभिरुदाहृतम् ॥ १० ॥
विष्यन्दस्तु ।
आमगोधूमचूर्णन्तु सर्पिः क्षीरसितान्वितम् ।
नातिसान्द्रो नातितनुर्विष्यन्दो नामपाकतः ॥
इति । अन्ये तु घृतभृष्टतण्डुलान् विष्यन्दशब्देनाहुः ॥११॥
समिताकृतभक्ष्याणां सामान्यगुणमाह बृंहणा इति ॥
समिता गोधूमचूर्णम् । तत्कृताः सामिताः ॥ १२ ॥
इदानीं समिताकृतभक्ष्यविशेषगुणमाह हृद्य इति । अत्रापि
समिता इत्यनुवर्त्तते । फेनकलक्षणं यथा ।
विमर्द्य विमलां शुक्लां समितां नातिशर्कराम् ।
संवेष्टनाय गर्भार्थं खरपाकं घृते पचेत् ।
फेनकं फेनसङ्काशं सम्पूर्णशशिसन्निभम् ॥
इति । अत्र गर्भार्थमपि समितैव घृते पक्तव्या ॥ १३ ॥
समिताकृतभक्ष्याणामिव मुद्गादिकृतगर्भाणां गुणमाह मुद्गे-
त्यादि । अत्र वेशवारशब्देन मुद्गादीनां स्विन्नपिष्टः कल्क-

द्रव्यगुणः । १३३
वेशवारैः सपिशितैः सम्पूर्णा गुरुबृंहणाः ॥१५॥
पाललाः श्लेष्मजननाः शष्कुल्यः कफपित्तलाः ॥१६॥
शालिपिष्टमया भक्ष्याः कफपित्तप्रकोपणाः ।
विदाहिनो नातिबला गुरवश्च विशेषतः ॥१७॥
वैदला गुरवो भक्ष्याः कषायाः सृष्टमारुताः ।
विष्टम्भिनः पित्तहराः श्लेष्मघ्ना भिन्नवर्चसः ॥१८॥
विरूढ़ककृता भक्ष्या गुरवोऽनिलपित्तलाः ॥१९॥
हृद्याः सुगन्धिनो भक्ष्या लघवो घृतपाचिताः ।
वातपित्तहरा बल्या वर्णदृष्टिप्रसादनाः ॥२०॥
विदाहिनस्तैलकृता गुरवः कटुपाकिनः ।
उच्यते । वेशवाराणामिति करणे षष्ठी । पूर्णा इति कृत-
गर्भाः ॥ १४ ॥
पिशितवेशवारकृतगर्भाणां गुणमाह वेशवारैरिति । सपि-
शितैरिति पूर्वोक्तमुद्गादिवेशवारनिरासार्थं विशेषणम् । तेन
पिशितवेशवारैरित्यर्थः । अन्ये तु वेशवारं शुण्ठ्यादिकमाहुः ।
एते सामिताः ॥ १५ ॥
पल्लं तिलकल्कस्तत्कृताः पाललाः । शष्कुली तु तिल-
मुद्गादिचूर्णकृता तैलपक्वा शष्कुलीति लोके ॥ १६ ॥
मुद्गमाषादिविदलकृतानां भक्ष्याणां गुणमाह वैदला इति
॥ १८ ॥
विरूढ़ककृता इति अङ्कुरितमुद्गादिकृताः ॥ १९ ॥
उक्तानुक्तकृतभक्ष्याणां घृते तैले च पाकाद्गुणविशेषमाह
हृद्या इति ॥ २० ॥
१२

१३४ द्रव्यगुणः ।
उष्णा मारुतदृष्टिघ्नाः पित्तलास्तृक्प्रदूषणाः ॥२१॥
कपालाङ्गारपक्वास्तु लघवो वातकोपनाः ॥२२॥
कुल्माषा वातला रूक्षा गुरवो भिन्नवर्चसः ॥२३॥
उदावर्त्तहरो वाव्यः कासपीनसमेहनुत् ॥ २४ ॥
तुषाम्बुवटकं प्रोक्तं वृष्यं रुच्यग्निदीपनम् ।
वृष्यं सन्दोपनञ्चैव वटकं तक्रसंस्कृतम् ॥ २५ ॥
यद्द्रव्यं यद्गुणं प्रोक्तं तद्भक्ष्यास्तद्गुणा मताः॥२६॥
खड़ाः खड़यवाग्वश्च रागषाड़वषट्काः ।
पालकानि विचित्राणि यूषाश्चानेकयोनयः ॥
कट्वम्ललवणाः स्वादुलेहा ये च फलोद्भवाः ।
एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः ॥
कपालाङ्गारसिद्धानां स्नेहसिद्धेभ्यो लघुत्वं दर्शयन्नाह कपाले-
त्यादि ॥ २१ ॥
कुल्माषस्य गुणमाह कुल्माषा इति । यवपिष्टमुष्णोदक-
मृदितमपूपीकृतं कुल्माषमाहुः ॥ २३ ॥
वाव्यो भृष्टयवैः कृतो भक्ष्यः । अन्ये तु दलितयवगोधूमादि-
कृतं वाव्यमाहुः ॥ २४ ॥
काञ्जिकवटकतक्रवटकयोर्गुणमाह तुषाम्बु इति । तुषाम्बु-
भावितं तक्रभावितञ्च वटकमित्यर्थः ॥ २५ ॥
अनुक्तभक्ष्यगुणज्ञानार्थमाह यदिंति । इदानीं पूर्वोक्तानां
व्यवस्थितसंयोगत्वेनोक्तानां गुणानां कारणतो व्यवस्थितसंयोग-
तया गुणान्तरमूह्यमाह खड़ा इति । खड़ा इति कृतान्नवर्गो-

द्रव्यगुणः। १३५
यथाकारणमासाद्य भोक्तॄणां छन्दतोऽपि वा।
अनेकद्रव्ययोनित्वाच्छास्वतस्तान् विनिर्दिशेत् ॥ २७
इति भक्ष्यवर्गः।
अथाहारविधिं वक्ष्ये विस्तरेणानुपूूर्वशः ॥ १ ॥
आप्तास्थितमसङ्कीर्णं शुचि कार्य्यं महानसम् ॥ २॥
तत्राप्तैः साधितं रम्यमविरुद्धमुपस्कृतम्।
विषघ्नै रगदैर्मन्त्रैर्भिषगन्नं निवेदयेत् ॥ ३ ॥
दिताः। तैः कृता यवाग्वः खडयवाग्वः। अनेकयोनय इति
विशेषणं खडादिषु प्रत्येकमभिसम्बध्यते। अतएवानवस्थित-
गुणाः खडादय इत्यर्थः। लेहा ये च फलोद्भवा इति आम्रलेहा-
दयः। कारणमासाद्येति पुरुषव्याधिदोषभेदादिहेतुं प्राप्य।
छन्दत इति पुरुषेच्छाविशेषात् शास्वत इति तर्कसहितशास्त्रात्
खडादिषु युज्यमानं द्रव्यगुणं ज्ञात्वा तर्कतश्च तत्संस्कारादि-
गुणमुन्नीय खडादिगुणमादिशेदित्यर्थः ॥ २७ ॥
इति भक्ष्यवर्गः।
विधिना कृत आहारः प्रीणनो धातु पोषकः।
इति पूर्वोक्तम्। अत्र कोऽसौ विधिः। कथं वा आहारेण
धातूनां पोषणमित्येतदर्थं प्रकरणमारभते अथेति ॥ १ ॥
आहारसिद्धेर्महानससाध्यत्वात् प्रथमं तद्विधिमाह आप्ते-
त्यादि। आप्तैः साधुलोकैरास्थितमाश्रितम्। असङ्कीर्णमसम्बा-
धम् ॥ २ ॥

१३६ द्रव्यगुणः ।
घृतं कार्ष्णायसे देयं पेया देया तु राजते ।
फलानि सर्वभक्ष्यांश्च प्रदद्याद्वै दलेषु तु ॥ ४ ॥
परिशुष्कप्रदिग्धानि सौवर्णेष्पकल्पयेत् ॥ ५ ॥
प्रद्रवाणि रसांश्चैव राजतेषूपहारयेत् ॥ ६ ॥
कट्वराणि खडांश्चैव सर्वान् शैलेषु दापयेत् ॥ ७ ॥
दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः ।
पानीयं पालकं मद्यं मृन्मयेषु प्रदापयेत् ॥ ८ ॥
वज्रवैदूर्य्यपात्रेषु रागषाड़वषट्कान् ॥ ६ ॥
पुरस्ताद्विमले पात्रे सूपं दद्यात्तु पाचकः ।
फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च ॥
आप्तैरिति सूपकारविशेषणम् । रम्यं मनोहरम् । अविरु-
द्धमिति संयोगादिभिरविरुद्धम् । निवेदयेत् उपढौकयेत् ॥ ३ ॥
किञ्चिद्द्रव्यमाधारप्रभावेण कार्मुकं भवतीत्यत आह । वै द-
लेष्विति । वैशब्दः पादपूरणे । अन्ये तु वैदलं वंशादिविदलकृतं
पात्रमाहुः ॥ ४ ॥
परिशुष्कप्रदिग्धयोरुक्तमेव लक्षणम् ॥ ५ ॥
प्रद्रवाणि मण्डानि ॥ ६ ॥
कट्वरं तक्रम् । अन्ये तु
सौवीराम्लमथात्यम्लकाञ्जिकं कट्वरं विदुः ।
सस्नेहदधिजं तक्रमाहुरन्ये तु कट्वरम् ॥
शैलेष्विति पाषाणपात्रेषु ॥ ७ ॥
वज्रं हीरकं तस्य पात्रं न सम्भवतीति वज्रयुक्तं पात्रं वज्र-
पात्रं ज्ञेयम् । अन्ये तु दद्याद् वैदूर्य्यपात्रेष्विति पठन्ति ॥ ६ ॥

द्रव्यगुणः । १३७
तानि दक्षिणापार्श्वे तु भुञ्जानस्योपकल्पयेत् ।
प्रद्रवान् रसयूषादीन् सव्ये पार्श्वे प्रदापयेत् ॥
सर्वांन् गुड़विकारांश्च रागषाडवषट्कान् ।
पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ॥ १०
एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् ।
भोक्तारं विजने रम्ये निःसम्पाते तु भोजयेत् ॥ ११
पूर्वं मधुरमश्नीयात् मध्येऽम्ललवणौ रसौ ।
अन्ते शेषान् रसान् वैद्यो भोजनेष्ववचारयेत् ॥ १२ ॥
अन्नेन कुक्षे र्द्वावंशौ पानेनैकं प्रपूरयेत् ।
आश्रयं पवनादीनां चतुर्थमवशेषयेत् ॥ १३ ॥
भुक्त्वा पादशतं गत्वा वामपार्श्वेन संविशेत् ।
शब्दान् रूपरसान् गन्धान् स्पर्शांश्च मनसः प्रियान् ।
आधारविशेषमभिधाय देशविशेषेण आहारविधिमाह पुर-
स्तादिति । पुरस्तादग्रत इत्यर्थः । न केवलं पुरस्तात् द्वयोरपि
च मध्यत इति द्वयोर्मध्ये एकस्मिन् पार्श्वे दद्यात् । एतेन
सर्वत्र दातव्यमिति डल्लनो व्याचष्टे ॥ १० ॥
निःसम्पाते तु निर्वाते ॥ ११ ॥
इदानीं भोजनस्यानुपूर्वीमाह पूर्वमिति । पूर्वं मधुरमिति
वातजयार्थम् । मध्येऽम्ललवणाविति मध्यस्थिताग्न्युत्तेजना-
र्थम् । शेषानिति कटुतिक्तकषायान् तेन पश्चादूर्द्धं श्लेष्मजयार्थं
देयाः ॥ १२ ॥
इदानीं द्रवाद्रवरूपस्याहारस्य मात्रामाह अन्नेनेति ॥ १३ ॥

१३८ द्रव्यगुणः।
भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति ।
भुक्त्वोपविशतस्तुन्दं शयानस्य वपुर्भवेत् ॥
आयुश्चङ्क्रममाणस्य मृत्युर्धावति धावतः ।
ताम्बूलमुपसेवेत कर्पूराद्यधिवासितम् ॥ १४ ॥
ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम् ।
विषमूर्च्छामदार्त्तानामपथ्यं शोषिणामपि ॥१५॥
अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति ।
तद्द्द्रवैर्भिन्नसङ्घातं स्नेहेन मृदुतां गतम् ॥
समानेनावधूतोऽग्निरुदीर्य्यः पवनेन तु ।
काले भुक्तं समं सम्यक् पचत्यायुर्विवृद्धये ॥१६॥
एवं रसमलायान्नमाशयस्थमधःस्थितः ।
पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम्॥१७॥
भोजनान्तरीयं विधिमाह भुक्तेति ॥ १४ ॥
इदानीमाहारस्याग्निना पाको यथा भवति यथा च पच्यमा-
नमन्नं देहधात्वादिरूपतामापद्यते तदाह अन्नमिति । आदान-
माहारनयनं कर्म्म यस्य स तथा । प्रकर्षतीति नयति । द्रवैरिति
पानीयादिभिः । भिन्नसङ्घातम् अवयवशैथिल्यमापन्नम् । अवधूत
इत्युद्दोपितः । समानेन इत्यनन्तरमविकृतेनेति शेषः । विकृतस्य
वायोरग्निवैषम्यकरत्वात् । काले इति बुभुक्षाकाले । सममिति
मात्राप्रकृत्यादिभिरुचितम् । सम्यगिति निर्विकारम् ॥१६॥
रसमलायेति । रसार्थं मलार्थञ्च पचतीत्यर्थः । आशयस्थ-
मित्यामाशयस्थम् । अधःस्थित इत्यनेन वहिरग्नेर्यथा ऊर्द्ध्वज्व-

द्रव्यगुणः। १३८
अन्नमिष्टं ह्युपहितमिष्टैर्गन्धादिभिः पृथक् ।
देहे प्रीणाति गन्धादीन् घ्राणादीनीन्द्रियाणि च१८
भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः ।
लनस्वभावतया ऊर्ध्वपाकसामर्थ्यं तथान्तराग्नेरपीति तत्सा-
धर्म्यं दर्शयति । अमुमेवार्थं दृष्टान्तेनोपपादयति यथेत्यादि
॥ १७ ॥
अन्नस्य पाकसम्पाद्यं कार्यान्तरमप्याह अन्नमिति । अन्नं
कर्तृ देहस्थितान् गन्धादीन् प्रीणाति आप्याययति । ननु अन्नेन
द्रव्येण द्रव्यपोषणमेव युक्तं न तु गुणपोषणमित्यतोऽन्नं विशि-
नष्टि गन्धादिभिरुपहितमिति गन्धरूपरसस्पर्शशब्दैर्युक्तमि-
त्यर्थः । एतेन विशेषणद्वारा अन्नगतैर्गन्धादिभिर्देहगतगन्धादि-
पोषणमिति सिद्धम् । तथा गुणवृद्धिस्तु गुणिवृद्धिं विना न भव-
तीति पाञ्चभौतिकेन आहारेण देहगतपञ्चभूतपोषणमप्यत एव
सिद्ध्यति । इष्टमिति विशेषणेन चान्नस्यानिष्टस्यानिष्टगन्धादिभि-
र्युक्तस्य न देहव्यवस्थितगन्धादितर्पकत्वमिति दर्शयति । न
केवलं गन्धादीनेव प्रीणाति किन्तु घ्राणादीनीन्द्रियाणि च
प्रीणाति । आदिशब्दाद्रसनादीनां चतुर्णां ग्रहणम् । पृथगित्यनेन
आहारगतो यः पार्थिवो भागः स घ्राणं तद्गतगन्धञ्च देहगन्धं
प्रीणाति । एवं आहारगतो जलीयभागो रसनां पुष्णाति ।
तद्गतो रसः देहरसं पुष्णातीत्यादि व्याख्येयम् ॥ १८ ॥
भौतिकाग्निव्यापारमाह भौमेत्यादि । पार्थिवादिद्रव्येषु
हि पाकेन विशिष्टगन्धवर्णादयो जायन्ते । पाकस्त्वूष्माणं विना
न भवतीति पाकान्यथानुपपत्त्या पार्थिवादिद्रव्यवस्थिताः पञ्चो-
ष्माणः स्वीक्रियन्ते । ते तु सौक्ष्म्यात् तत्तद्द्रव्येषु साक्षान्नोपलभ्यन्ते ।

१४० द्रव्यगुणः ।
पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन्
पचन्ति हि ॥ १६ ॥
सप्तभिर्देहधातारो धातवो द्विविधं पुनः ।
अतस्त एव जाठराग्निसन्धुक्षितबलाः सन्तः स्वान् स्वान् पार्थि-
वादीन् पञ्चाहारगुणान् पचन्ति । पूर्वस्थितपार्थिवादिगन्धविल-
क्षणान् पाकेन निवर्त्तयन्तीत्यर्थः । एतदेव चरके विविधाशित-
पीतीये उक्तम् । विविधाशितं पीतञ्च लीढं खादितं जन्तो-
र्हितमन्तरग्निसन्धुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपाच्य-
मानमिति । आहारस्य गुणाः आहारगुणाः । किं वा आहा-
राश्च गुणाश्च आहारगुणाः । यद्यपि भूताग्निना द्रव्याण्येव
पच्यन्ते नतु गुणाः उक्तं हि
जाठरेणाग्निना पूर्वं कृते सङ्घातभेदने ।
पश्चाद् भूताग्नयः पञ्च स्वं स्वं द्रव्यं पचन्ति हि ॥
तथापि द्रव्यपाकवशाद् विशिष्टगन्धादिगुणा जायन्ते इत्य-
भिप्रायेण गुणानामपि पाक उक्तः । ननु तेजः स्वयमेव पाच-
कम् तस्य पाचकेनाग्न्यन्तरेण किं क्रियते । ब्रूमः न वयं तेजसि
पाचकमग्निं स्वीकुर्मः । किन्तु तैजसस्य सुवर्णादिद्रव्यतुल्यस्य
पित्तादेः पाकजन्यत्वेन पाचकाग्न्यपेक्षा युक्तैव । एवं वायवीय-
नाभसद्रव्ययोरप्याश्रित उष्मा वात्वग्निनाभसाग्निवाच्यो ज्ञेयः
॥ १६ ॥
भौतिकाग्नि-व्यापारमभिधाय-विशिष्ट-धात्वग्निव्यापारमाह
सप्तभिरित्यादि । पुनरिति जाठराग्निपाकानन्तरम् । द्विविध-
मिति द्विप्रकारम् । तदेव प्रकारद्वयमाह किट्टप्रसादवदिति
किट्टप्रसादरूपमित्यर्थः । वतिरयमर्द्धार्थे । किं वा किट्टप्रसादव-
दिति मतुबन्तं क्रियाविशेषणम् । ननु धात्वग्निवदुपधातुम-

द्रव्यगुणः । १४१
यथास्वमग्निभिः पाकं यान्ति किट्टप्रसादवत् ॥२०॥
रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च ।
लादिगता अपि पृथगग्नयः किमिति नाना स्वीक्रियन्ते । अथ
तत्र पञ्चभूतानि सन्तीति भूताग्निभिरेव तेषां पाक उत्पत्स्यत
इति चेत्तर्हि कृतं धात्वग्निभिरपि भूताग्निभिरेव धातुपाक-
स्याप्युपपत्तेः । नैवं बाह्येषु फलादिषु भूताग्निजन्यो यः पाको
दृश्यते स किट्टप्रसादरूपतया नानुभूयते । उपधातुमलादिगतो-
ऽपि पाकस्तादृग एवेति वैलक्षण्याभावादुपधात्वादिषु पृथगग्नि-
स्वीकारोऽकिञ्चित्करः । रसादिधातुपाकस्तु किट्टप्रसादरूपतया
विलक्षण इति तत्र पृथगग्निखीकारो युक्त एवेति । धातुषु ये
भूताग्नयस्ते धात्वग्नेरेव सहाया इति । यद्यपि शुक्रस्य प्रसाद-
रूपतया किट्टवान् पाको नास्ति तथापि बहूनां किट्टवत्त्वाद्
द्विविधनिर्देशो ज्ञेयः । यथा छत्रिणो गच्छन्तीति ॥ २० ॥
तत्र पाकजन्यैः प्रसादांशैर्यैन क्रमेण ये ये जन्यन्ते तानाह
रसादिति ॥ प्रसादज इत्यस्य लिङ्गविपरिणामेन रक्तमित्या-
दिषु सर्वत्र सम्बन्धः । प्रसादजञ्च सारभागः । तेन रसाद्रक्तं
प्रसादजम् । ततो रक्तान्मांसं प्रसादजम् । मांसाच्च मेदः प्रसादज-
मित्यादि योज्यम् । रसाद्रक्तं प्रसादजमिति रसात् पाकेन जायते
यः प्रसादांशस्तस्माद्रक्तं जायते । एवं रक्तात् पाकेन जायते यः
प्रसादांशस्तस्माच्च मांसं जायत इत्यादि व्याख्येयम् । जनि-
श्चायं पोषण एव वर्त्तते नापूर्वोत्पादे । यतो रक्तादयो गर्भात्
प्रभृत्येव उत्पन्ना रसादिभिः पोष्यन्ते । अन्ये तु गर्भप्रसादज-
मिति पठित्वा गर्भप्रसादजमिति समस्तपदेन ओज आचक्षते ।
अस्मिंस्तु पक्षे प्रसादजशब्दस्य न सर्वत्रान्वयः । ननु पुष्यन्ति
त्वाहाररसादिना चरके रसेन रसपोषणमुक्तम् अत्र तु रसा-

अस्थ्यो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः॥२१
द्रक्तमित्यादिना रसेन रक्तपोषणमुच्यते इति विरोधः । नैवमेक
एवायमाहाररसो द्विप्रस्थानः पोष्यपोषकभेदेन । तत्रान्नपाना-
दुत्पन्नो रसः पोषकः रक्तादिवत् स्थायी यः स पोष्यः तस्यैव
हृदवस्थानमुक्तम् । अतएव पोष्यस्थायिरसव्यवच्छेदार्थमाहारेति
रसविशेषणमुक्तं चरकेण । यत्तु रसाद्रक्तमित्यादिवचनं तद्रस-
त्वेनाभेदविवक्षया रसं परित्यज्य रक्तमेव पठितं न तु पोष्यस्य
रसाख्यधातोरभावादिति । न चैवमष्टधातुकत्वं शरीरस्येति
वाच्यम् । यतः स्थायिरसभागपोषकरसभागयोः स्थानभेदाग्नि-
भेदाद्यभावादेकत्वमेवेति सप्तधातुकमेव शरीरमित्युच्यत इति ।
अत्र च रसाद्रक्ताद्युत्पादे केचिदिदं वदन्ति । यद्रसोऽग्नि-
पच्यमानः सर्वात्मना रक्ततां याति रक्तञ्च मांसतामित्यादि पूर्व-
पूर्वधातुपरिणामेन उत्तरोत्तरधातूत्पादो यथा सर्वात्मना क्षीरा-
द्दधि भवति दध्नो नवनीतं नवनीताद्धृतं घृताच्च घृतमण्ड
इत्येकः पक्षः । किं वा रस एव रक्तं प्रथमं प्लावयति तत्र रक्त-
स्थानसम्बन्धात् रक्तसादृश्यं रक्तव्यपदेशञ्चानुभवति । रक्तञ्च रक्त-
समानेन स्तोकेनांशेनास्रं पोषयति । ततो रक्तमाप्लाव्य मांस-
माप्लावयति तत्रापि मांससमानेनांशेन मांसपोषणं करोति ।
मांससादृश्यं मांसशब्दाभिधेयतां चानुभवति । एवमुत्तरोत्तरधा-
तून् रस एव प्लावयति । यथा केदारनिषिक्तं कुल्याजलं प्रत्यासन्नां
केदारामाप्लावयतौति द्वितीयः पक्षः । एतदेवोक्तं हारीते । यद्रसः
सप्ताहादर्वाक् परिवर्त्तमानः श्वेतकपोतहरितहारिद्रपद्मकिंशु-
कालक्तरसप्रख्यश्चायं यथाक्रमं दिवसपरिवर्त्ताद्वर्णपरिवर्त्तमा-
पद्यमानः पित्तोष्मोपरागाच्छोणितत्वमापद्यत इति । तथा
सुश्रुतेऽपि तत्रैषां धातूनामित्यादिना तथा स खलु त्रीणि

द्रव्यगुणाः । १४३
त्रीणि इत्यादिना रसेनैव रक्तादिधातुपोषणमनेन न्यायेनोक्तम् ।
किं वा आहाररस उत्पन्नो भिन्नैरेव मार्गैः स्थायिरसरुधिरमां-
सादीन् रसरुधिरादिसमानांशेन तर्पयति । तत्र यः प्रत्यासन्नो
धातुस्तत्पोषको भागस्तच्छीघ्रं पुष्णाति । यस्तु विदूरधातुस्तस्य
सूक्ष्मविदूरमार्गतया चिरेण पोषणं भवति । एवं भिन्नैरपि मार्गै-
र्धातुपोषणं भवति तेन रक्तपोषणकालादुत्तरकालं मांसपोषको
रसभागो मांसं पोषयति । तथा मांसपोषणकालादुत्तरकालं
मेदःपोषको रसभागो मेदः पोषयतीत्यादि । तेन रसाद्रक्त-
मित्यादिवचनस्यायमर्थो यद् यत् रसपुष्टिकालादुत्तरकालं रक्तं
प्रवर्त्तते रक्तपुष्टिकालादुत्तरकालं मांसं प्रवर्त्तत इत्यादि ।
अस्मिंस्तु पक्षे
विण्मूत्रमाहारमलः सारः प्रागीरितो रसः ।
स तु व्यानेन निक्षिप्तः सर्वान् धातून् प्रतर्पयेत् ॥
इत्यादिवचनस्य मुख्यार्थमेव घटते । तेन यथा खले उप-
चितानां कपोतानां भिन्नदिग्गामिनां स्वीयस्वीयमार्गेणैव
गच्छतां गम्यदेशस्य प्रत्यासन्नत्वविप्रकृष्टत्वादिभेदेन शीघ्रं चिरेण
गमनं भवति तद्वदिति क्षीरदधिन्यायकेदारीकुल्यान्यायः । खले
कपोतन्यायात्त्रिधा धातुपोषणक्रमः । तत्र एतेषु पक्षेषु सर्वात्म-
परिणामि त्रिचतुरोपवासेनैव देहस्य नौरसत्वं स्यात् । मासोप-
वासाच्च शुक्रमयं शरीरं स्यादित्यपेक्षणीय एव प्रथमः पक्षः ।
केदारीकुल्यान्यायपक्षे तु रसाद्रक्तादिपोषणं मुख्यार्थतया भवति ।
यद्यपि रक्तादेर्मांसादिपोषणं तदपि रसादेव रक्तादिधर्मतया
रक्तादिव्यपदेशभाजो भवन्तीति व्युत्पादितमेव । यत्तु रसस्य
सर्वधातुपोषकत्वमुक्तं तदपि रक्तादिपोषकतया तथा हृदय-
स्थायिरसस्य कृत्स्नदेहव्यापकत्या वोपपन्नम् । एवं चरकेऽप्यु-
क्तम् ।

१४४ द्रव्यगुणः ।
रसात् स्तन्यं तथा रक्तमसृजः कण्डराः शिराः ।
व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा ।
युगपत् सर्वतोऽजस्रं देहे विक्षिप्यते सदा ॥
इत्यादि । तदप्युक्तनायात् एवोपपन्नं यदपि मांसादिना
समानेन मांसादेरेव पोषणम् । तदपि धात्वाप्लावनन्यायेन
गच्छतापि रसेन तद्धातुसमानेनांशेन तद्धातुपोषणादुपपन्नम् ।
वृष्यन्तु प्रभावात् यथा खले कपोतन्यायेन विदूरमपि शुक्रं
प्रभावात् शीघ्रं याति तथात्रापि शीघ्रमेव वृष्योत्पन्नो रसो
रक्तादिधातून् शीघ्रमाप्लावयतीति सुघटम् । एवमनया दिशाप्यत्र
दूषणमुद्धार्यम् । तेनायं पक्षस्तावत् साधुः । खले कपोतपक्षेऽपि
यथा रसाद्रक्तमित्यादि गौणतया भवति तद्दर्शितमेव । यत्तु
चरके विवृद्धमार्गत्वान्मांसादीन् प्रपद्यत इत्युक्तं तत् कृत्स्नदेह-
चारिशोणिताभिप्रायेण न तु पोषकरक्ताभिप्रायेणेति व्यवस्था-
प्यते । यत्तु एकैकस्मिन् धातौ त्रीणि त्रीणीत्यादिना धातौ
अवस्थानकाल उक्तः । स पूर्वपूर्वरक्तादिधातुलङ्घनकालो विदू-
रगामिरसस्येति व्यवस्थाप्यते । एवमनयोः पक्षयोर्महाजनपरि-
गृहीतयोर्गतिरुदर्शिता स्वरसस्तु अस्माकं केदारीकुल्यान्‍याये ।
यत्तु अन्यैः खले कपोतन्यायस्वीकारेण चरके सन्ततज्वरस्य
द्वादशाश्रयत्वं युक्तमित्याद्युक्तम् । तन्न बुद्ध्यामहे । येन सन्ततस्य
द्वादशाश्रयत्वं दोषमहिम्ना कृत्स्नदेहव्यापकत्या । यथा धातु
तथा मूत्रं पुरीषञ्चानिलादय इत्यादिनोक्तम् । दोषाणाञ्च कुपि-
तानां सम्प्राप्तिविशेषात् किमगम्यमस्ति देहे येन यावद्रसमेव
परं सर्वधात्वादिव्यापकं सर्वधातुदूषणेऽपेक्षन्त इति ॥ २१ ॥
सम्प्रति प्रसादजन्यतां धातूनामभिधाय उपधातूनामप्याह
रसादिति । अत्रापि रसात् स्तन्यं प्रसादजमित्यादि योज्यम् ।

द्रव्यगुणः । १४५
मांसाद्वसास्त्वचः षट् च मेदसः स्नायुसम्भवः ॥२२॥
रक्तमिति स्त्रीणां रजःसंज्ञं रक्तमप्युपधातुरूपम् । रसादेव रक्तं
प्रसादभागजन्यमित्यर्थः । उक्तञ्च सुश्रुते ।
रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रपद्यते ।
इति । एतच्च रजोरूपं रक्तरसजन्यमपि धातुशोणितवत् न
शीघ्रं जायते किन्तु शुक्रवन्मासेनैव । तदुक्तं सुश्रुते । एवं मासेन
रसः शुक्लीभवति स्त्रीणाञ्च आर्त्तवमिति । अन्ये तु
घृतकुम्भो यथैवाग्निमाश्रितः प्रविलीयते ।
विसर्पत्यार्त्तवं पुंसां तथा स्त्रीणां समागमे ॥
इत्यत्र यथा आर्त्तवशब्देन शुक्रमुच्यते तथा स्त्रीणाञ्च
आर्त्तवमित्यत्रापि आर्त्तवशब्दः शुक्र एव वर्त्तते न तु रजसि ।
रजो हि रसादृक्तवत् शीघ्रमेव जायते न तु मासेन इत्याहुः ।
तन्नेत्यन्ये । विसर्पत्यार्त्तवमित्यादावपि स्त्रीणामात्तं वं पुंसां
समागमे सति विसर्पतीति योजनया आर्त्तवशब्दस्य रजोवच-
नत्वेनाप्युपपत्तेः । वस्तुतस्तु । आर्त्तवस्य रक्तरूपतया यद्यपि
मासादवार्ग्भवति तथापि तस्यार्त्तरूपता गर्भाशयप्राप्त्यैव
भवति । गर्भाशयप्राप्तिस्तु मासेनैव भवतीति कृत्वा मासेनार्त्तवं
भवतीति सुश्रुतेनोक्तम् । उक्तं हि विश्वामित्रेण
सूक्ष्माः केशप्रतीकाशा वीजरक्तवहाः शिराः ।
गर्भाशयं पूरयन्ति मासाद्बोजाय कल्पते ॥
इति । तत्र वीजभूतरक्तं वीजरक्तमार्त्तवमित्यर्थः । असृजः
कण्डरा इति स्थूलस्नायवः । मेदसः स्नायुसम्भव इत्यनेन तु
मेदसःसूक्ष्मा स्नायुपोषकमिति ज्ञेयम् । चरके हि कण्डराशब्दः
स्थूलस्नायुवाची । सुश्रुते च स्थूलशिरावाचीति ज्ञेयम् । एते
च स्नायादयः शरीरधारका अपि उपधातुशब्देनैवोच्यन्ते । तत्तु
१३

१४६ द्रव्यगुणः ।
किट्टमन्नस्य विण्मूत्रं रसस्य तु कफोऽसृजः ।
पित्तं मांसस्य खमला मलः स्वेदस्तु मेदसः ॥
धातुशब्देन धातुशब्दप्रवृत्तेर्धारणपोषणनिमित्तत्वात् । तेन ये
शरीरं धारयन्ति धातूंश्च पुष्णन्ति रसादयस्त एव मुख्यतया धातु-
शब्दवाच्या न स्तन्यादयः ते हि शरीरं धारयन्त्येव न तु कि-
ञ्चित् पुष्णन्ति । उक्तं हि भोजे ।
शिरास्नायूरजस्तन्यस्त्वचो गतिविवर्जिताः ।
धातुभ्यश्चोपजायन्ते तस्मात्ते उपधातवः ॥
इति । अत्र गतिविवर्जिता इत्यनेन धात्वन्तरपोषणाया
गतिर्निषेध्यते । अतएव धातुभ्यश्चोपजायन्त एव न तु परं जन-
यन्तीत्यर्थः । यत्तु किञ्चिद्दोषप्रशमनं किञ्चिद्धातुप्रदूषणमित्यत्र
धातुशब्देन दोषाणामपि ग्रहणम् । तद्गौणधातुशब्दप्रयोगाज्-
ज्ञेयम् । उक्तं हि दोषा ह्यपि धातुसंज्ञां लभन्ते इति । शुक्र-
स्याप्योजःपोषकतया धारणपोषणयोगोऽस्तीति धातुत्वम-
खण्डितमेव । ओजस्तु यद्यपि न धातुषु नाप्युपधातुषु पठितं
तथापि तत् सप्तधातुसाररूपतया सप्तधात्वन्तर्गतमेवेति ज्ञे-
यम् । अतएव तस्याग्निरपि पृथङ्नोक्तः ॥ २२ ॥
प्रसादभागोत्पादनमभिधाय मलभागोत्पादनमाह किट्ट-
मिति । रसस्य तु कफ इति रसात् स्वाग्निपच्यमानात् यः
किट्टभाग इति मलभागः स कफः प्रसादजश्च रक्तं न तु रसो-
त्पत्तिमात्र एव कफो जायत इति । एवं रक्तादिमलेऽपि ज्ञेयम्
मांसस्य खमला इति कर्णनासास्यप्रजननादिस्रोतोमलाः ।
स्यात् किट्टं केशलोमास्थ्न इति । अत्र नखस्याप्यस्थिमलत्वं सु-
श्रुतप्रामाण्यादुन्नेयम् । तत्र हि नखा अप्यस्थिमलत्वेनोक्ताः ।
अतएव बहुधा शीतपीतीये चरकेऽप्युक्तम् किट्टात् केशनखादयः

द्रव्यगुणः । १४७
स्यात्किट्टं केशलोमास्थ्नो मज्ज्ञः स्नेहोऽक्षिविट्त्व-
चाम् ॥२३॥
प्रसादकिट्टधातूंनां पाकादेवं विधर्चुतः ॥ २४ ॥
परस्परोपसंस्तम्भा धातुस्नेहपरंपरा ॥ २५ ॥
पुष्णन्ति इति । यत्तु शरीरे अस्थिगणनायां विंशतिर्नखा
गणिताः तदस्थिसाम्येनोक्तम् । किं वा जीवन्नखस्यास्थित्वं मृत-
नखस्य तु मलत्वं ज्ञेयम् । अत्र केचिदाकृष्टान्डकोषस्य पुंसः
श्मश्रुणोऽभावात् श्मश्रूणि शुक्रमलतया वदन्ति । तन्न तन्त्रे
ऽनभिधानात् श्मश्रुहीनस्यापि शुक्रदर्शनाच्च । मज्ज्ञः स्नेहो-
ऽक्षिविट्त्वचामिति स्नेहस्त्वचामित्यन्वयः । अक्षिविडिति
दूषिका । अत्र मलस्थूलानुभागविशेषेण त्रिविधं परिणामं वर्ण-
यन्ति केचित् । यथा रसादग्निपक्कान्मलं कफः स्थूलभागो
रसः सूक्ष्मभागश्च रक्तम् । तथा रक्तादग्निपच्यमानात् मलं
पित्तं स्थूलभागः शोणितं सूक्ष्मभागस्तु मांसमित्यादि उप-
संहरति ॥ २३ ॥
धातूनां पाकादेवमुक्तक्रमेण प्रसादकिट्टे द्विधा ऋचुतो भवत
इत्यर्थः ॥ २४ ॥
इदानीं यथा पोषकेण रसादिना पोष्यस्य रक्तादेराप्यायनं
क्रियते तथा पोष्येणापि रक्तादिना पोषकस्यापि रसादेरा-
प्यायनं क्रियत इति परस्परधातूनामुपकारकत्वमाह । पर-
स्परमुपस्तम्भः सन्तर्पकत्वं यस्याः सा तथा । धातुस्नेहपरम्परा
धातुरूपसारपरम्परा । अतएवातिव्यवायेन पोष्यस्य शुक्रस्य
क्षयादपि पूर्वपूर्वपोषकधातुक्षयो य उक्तस्तन्त्रान्तरे स उपपद्यत