द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 147, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः। १३८
अन्नमिष्टं ह्युपहितमिष्टैर्गन्धादिभिः पृथक् ।
देहे प्रीणाति गन्धादीन् घ्राणादीनीन्द्रियाणि च१८
भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः ।
लनस्वभावतया ऊर्ध्वपाकसामर्थ्यं तथान्तराग्नेरपीति तत्सा-
धर्म्यं दर्शयति । अमुमेवार्थं दृष्टान्तेनोपपादयति यथेत्यादि
॥ १७ ॥
अन्नस्य पाकसम्पाद्यं कार्यान्तरमप्याह अन्नमिति । अन्नं
कर्तृ देहस्थितान् गन्धादीन् प्रीणाति आप्याययति । ननु अन्नेन
द्रव्येण द्रव्यपोषणमेव युक्तं न तु गुणपोषणमित्यतोऽन्नं विशि-
नष्टि गन्धादिभिरुपहितमिति गन्धरूपरसस्पर्शशब्दैर्युक्तमि-
त्यर्थः । एतेन विशेषणद्वारा अन्नगतैर्गन्धादिभिर्देहगतगन्धादि-
पोषणमिति सिद्धम् । तथा गुणवृद्धिस्तु गुणिवृद्धिं विना न भव-
तीति पाञ्चभौतिकेन आहारेण देहगतपञ्चभूतपोषणमप्यत एव
सिद्ध्यति । इष्टमिति विशेषणेन चान्नस्यानिष्टस्यानिष्टगन्धादिभि-
र्युक्तस्य न देहव्यवस्थितगन्धादितर्पकत्वमिति दर्शयति । न
केवलं गन्धादीनेव प्रीणाति किन्तु घ्राणादीनीन्द्रियाणि च
प्रीणाति । आदिशब्दाद्रसनादीनां चतुर्णां ग्रहणम् । पृथगित्यनेन
आहारगतो यः पार्थिवो भागः स घ्राणं तद्गतगन्धञ्च देहगन्धं
प्रीणाति । एवं आहारगतो जलीयभागो रसनां पुष्णाति ।
तद्गतो रसः देहरसं पुष्णातीत्यादि व्याख्येयम् ॥ १८ ॥
भौतिकाग्निव्यापारमाह भौमेत्यादि । पार्थिवादिद्रव्येषु
हि पाकेन विशिष्टगन्धवर्णादयो जायन्ते । पाकस्त्वूष्माणं विना
न भवतीति पाकान्यथानुपपत्त्या पार्थिवादिद्रव्यवस्थिताः पञ्चो-
ष्माणः स्वीक्रियन्ते । ते तु सौक्ष्म्यात् तत्तद्द्रव्येषु साक्षान्नोपलभ्यन्ते ।