बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
भिन्दन्? Yes, भिन्दन्.
विदारयन्। - correct.
तथा - correct.
अध्वरांशभाजां - correct.
Line 3:
यज्ञभागिनामिन्द्रादीनां हृदये चेतसि आनन्दकरः।
- यज्ञभागिनामिन्द्रादीनां: यज्ञ-भागिनाम्-इन्द्रादीनां -> यज्ञभागिनामिन्द्रादीनां.
- हृदये चेतसि आनन्दकरः। - correct.
Line 4:
क्षितिर्भूः। क्षितिपैर्भूम्यधिपतिभिः। अभिमुख्येन सम्यक् पालनेन रक्षणेन प्रवृद्धा
- क्षितिर्भूः।
- क्षितिपैर्भूम्यधिपतिभिः।
- अभिमुख्येन सम्यक् पालनेन रक्षणेन प्रवृद्धा
All correct.
Line 5:
वृद्धिं गता विभाति शोभते। तदा तस्मिन् वर्षे। कीदृशी? उत्तमसस्यवती। उत्तमानि
- वृद्धिं गता विभाति शोभते।
- तदा तस्मिन् वर्षे।
- कीदृशी?
- उत्तमसस्यवती।
- उत्तमानि
All correct.
Line 6:
प्रधानानि सस्यानि धान्यादीनि विद्यन्ते यस्याम्। अनेकैर्बहुभिर्द्विपैर्गजैः। पत्तिभिः पदातिभिः।
- प्रधा
ग्रहवर्षफलाध्यायः ३१७
तालाब से व्याप्त; अतः विविध वर्णों से युत पृथ्वी सम्पूर्ण भूषणों से युत स्त्री की तरह
शोभित होती है। पृथ्वी पर शत्रुपक्ष के बहुत सेनाओं को नाश करने से उद्घोषित जयशब्दों
से सभी दिशाओं को पूर्ण करने वाले राजवर्ग होते हैं। आनन्दयुत सज्जनगण, विनष्ट
दुर्जन-गण और अर्थोत्पत्तिस्थानों से युत पृथ्वी होती है। वसन्त समय में स्त्रियाँ आनन्दपूर्वक
बार-बार मद्यपान करती हैं, बाँसुरी और वीणा के साथ श्रवणसुखद गीत गाती हैं, अभ्यागत,
मित्र और बन्धुओं के साथ बार-बार भोजन करती हैं तथा सब जगह कामदेव का जय-
जयकार होता है ।। १६-१८ ।।
सितस्य शुक्रस्य अब्दे मासे दिने वा फलानीदृशानि भवन्ति। कीदृशानि? शालीक्षुम-
त्यपीति। धरा भूरभिनवाभरणोज्ज्वलाङ्गी योषा स्त्रीव भाति शोभते। अभिनवैर्नूतनैराभरणै-
रलङ्करणैरुज्ज्वलान्युपशोभितानि अङ्गान्यवयवानि यस्या योषायाः सा। कीदृशी धरा?
शालीक्षुमत्यपि शालयो धान्यादीनि। इक्षवश्च विद्यन्ते यस्यां तथाभूता सती। धरणीधराणां
पर्वतानां सदृशी तुल्या आभा आकृतिर्येषां ते तथाभूता ये धाराधरा मेघास्तैर्यदुज्झितं त्यक्तं
पयो जलं तेन परिपूर्णा वप्रास्तटा यस्याः। श्रीर्विद्यते येषां सरोरुहाणां पद्मानां तानि
श्रीमन्ति। तैः श्रीमत्सरोरुहैः। तथा ततं विस्तीर्णं यदम्बु जलं तच्च येषां तडागानां तैः
कीर्णा संयुक्ता अत एव विचित्रवर्णत्वाद्योषेव भाति। अभिनवाभरणोज्ज्वलाङ्गी योषा धरा-
साम्येनोपमानम्।
तथा क्षत्रं राजवर्गः क्षितौ भूमौ कीदृशं भवति? क्षपितभूरिबलारिपक्षम्। क्षपितं
विनाशितं भूरिबलं प्रभूतवीर्यमरिपक्षः शत्रुपक्षश्च येन। तथा योऽसौ उद्घुष्ट उद्घोषितो-
ऽनेको बहुप्रकारो यो जयशब्दस्तेन विराविताः कृतशब्दा आशाः दिशो यस्य तत् तथाभूतम्।
तथा गां भूमिमवनिपा राजानः पालयन्ति रक्षन्ति। कीदृशीम्? संहृष्टशिष्टजनदुष्टविनष्टवर्गाम्।
संहृष्टः प्रहर्षितः शिष्टजनः साधुलोको यस्याम्। तथा दुष्टानांमसाधूनां विशेषेण नष्टो वर्गः
समूहो यस्याम्। तथा नगरैः पत्तनैराकरैरर्थोत्पत्तिस्थानैश्चाढ्यां समृद्धाम्।
पेपीयत इति। मधौ वसन्ते मधु मद्यं पानविशेषः कामिनीभिर्विलासिनीभिः पेपीयते
अत्यर्थं पीयते पुनः पुनर्वा पीयते। वेणुर्वंशः। वीणा वल्लकी। ताभ्यां सह सवेणुवीणं
श्रवणहारि कर्णसुखकारि जेगीयते। अत्यर्थं पुनः पुनर्वा गीयते। अतिथिभिरागतैः सुहृद्भिर्मित्रैः
स्वजनैर्बन्धुजनैः सह साकमन्नं भोजनं बोभुज्यते। अत्यर्थं पुनः पुनर्वा भुज्यते। मदनस्य
कामस्य जयावघोषो जयशब्दोद्घोषणम्। अतीव कामासक्ता भवन्तीत्यर्थः। तथा च
यवनेश्वरः—
पर्याप्तसौख्यस्फुटसस्यमेघाः प्ररूढवल्लीवरशष्पपुष्पः।
कामप्रकामः क्षितिपो मुदाढ्यः शौक्रोऽङ्गनाहर्षवसुप्रदोऽब्दः।।
तथा च समाससंहितायाम्—
सस्याढ्यो धर्मबहुलो गतातङ्को बहूदकः।
कामिनां कामदः कामं सिताब्दो नृपशर्मदः।। इति।। १६-१८।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
३१८ बृहत्संहिता
अथ सौरस्याह—
उद्धतदस्युगणभूरिरणाकुलानि राष्ट्राण्यनेकपशुवित्तविनाकृतानि।
रोरूयमाणहतबन्धुजनैर्जनैश्च रोगोत्तमाकुलकुलानि बुभुक्षया च ॥१९॥
वातोद्धताम्बुधरवर्जितमन्तरिक्ष-
मारुग्णनैकविटपं च धरातलं द्यौः।
नष्टार्कचन्द्रकिरणातिरजोऽवनद्धा
तोयाशयाश्च विजलाः सरितोऽपि तन्व्यः ॥२०॥
जातानि कुत्रचिदतोयतया विनाश-
मृच्छन्ति पुष्टिमपराणि जलोक्षितानि।
सस्यानि मन्दमभिवर्षति वृत्रशत्रु-
र्वर्षे दिवाकरसुतस्य सदा प्रवृत्ते ॥२१॥
शनि के वर्ष, मास या दिन में चोरों से सम्बन्धित युद्धों से व्याप्त, पशु और धानों से
रहित, संग्राम में बन्धुजनों के मरण से बार-बार रोते हुये वंशों से युत, प्रधान रोग तथा
क्षुधा से व्याकुल राष्ट्र होते हैं, वायु से उड़ाये गये मेघों से रहित आकाश होता है, अनेक
तरह से नष्ट वृक्षों से युत पृथ्वी होती है, सूर्य और चन्द्रकिरणों से रहित आकाश होता है,
धूलियों से स्थगित वापी, कूप और तालाब होते हैं तथा नदियों में अत्यन्त कम जल होता
है। इन्द्र अल्प वर्षा करता है, इसलिये कहीं-कहीं पर जल के बिना धान्य नष्ट हो जाते हैं
और कहीं-कहीं पर जल से सिक्त होकर पुष्ट होते हैं।।१९-२१।।
दिनकरसुतस्य सौरस्य वर्षे अब्दे प्रवृत्ते वर्तमाने मासे दिवसे वा सदा सर्वकालमेतानि
फलानि भवन्ति। कीदृशानि? उद्धतदस्युगणभूरिरणाकुलानि। उद्धत उद्गतो योऽसौ दस्युगणो
दस्यूनां चौराणां समूहस्तेन भूरि बहुप्रकारा ये रणाः संग्रामास्तैराकुलानि सोद्यमानि राष्ट्राणि
नृपकुलानि भवन्ति। तथा अनेके प्रभूता ये पशवश्चतुष्पदाः। वित्तानि धनानि। तैश्च विना-
कृतानि वर्जितानि रहितानि। हताः संग्रामे बन्धुजना येषां जनानां ते हतबन्धुजना रोरूय-
माणा अत्यर्थं रोदमानाश्च ते जनास्तैस्तथाभूतैर्जनैश्चाकुलानि सोद्यमानि कुलानि वंशाः। तथा
रोगोत्तमैर्गदप्रधानैर्बुभुक्षया क्षुधा वाऽऽकुलानि भवन्ति।
तथान्तरिक्षमाकाशं वातोद्धताम्बुधरवर्जितम्। वातेनोद्धताश्चालिता येऽम्बुदा मेघास्तै-
र्वर्जितं रहितम्। धरातलं भूतलम्। आरुग्णनैकविटपम्। आरुग्णा भग्ना नैका बहुप्रकारा
विटपाः शाखिनश्च यत्र धरातले तत्तथाभूतम्। द्यौराकाशम्। नष्टार्कचन्द्रकिरणा नष्टा अदर्शनं
गता अर्कचन्द्रयोः सूर्यशशिनोः किरणा रश्मयो यस्याम्। अतिरजसा सन्ततपांशुना अव-
नद्धा स्थगिता तोयाशया जलाधारा वापीकूपतडागादयः। विजला जलरहिताः सरितो
नद्यस्तन्व्यः स्वल्पजलाश्च भवन्ति।
अपिशब्दोऽत्र चार्थे। वृत्रशत्रुरिन्द्रः स्वल्पमभिवर्षति। केचित् सप्तम्यन्तं पठन्ति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहवर्षफलाध्यायः ३१९
वृत्रशत्राविन्द्रे मन्दं स्वल्पमभिवर्षति सति कुत्रचिज्जातान्युत्पन्नानि सस्यान्यतोयतया जलेन
विना विनाशमृच्छन्ति यान्ति। तथा अपराण्यन्यानि जलोक्षितान्युदकसिक्तानि पुष्टिं
वृद्धिमृच्छन्ति। तथा च यवनेश्वरः—
तुष्टाल्पवर्षः प्रबलानिलाग्निविपन्नसस्यश्चलितक्षितीशः।
मृत्युक्षुधातङ्कभयोपजुष्टः शनैश्चरोऽब्दः पशुशूद्रगोघ्नः।। ।।
तथा च समाससंहितायाम्—
दुर्भिक्षमरकं रोगान् करोति पवनं तथा।
शनैश्चरोऽब्दो दोषांश्च विग्रहांश्चैव भूभुजाम्॥
संवत्सरोक्तं सकलमृतुमासायनेषु च।
फलं ग्रहस्य वक्तव्यं बलयुक्तस्य नान्यथा।। इति।।१९-२१।।
अत्रैव वर्षफलविशेषप्रदर्शनार्थमाह—
अणुरपटुमयूखो नीचगोऽन्यैर्जितो वा
न सकलफलदाता पुष्टिदोऽतोऽन्यथा यः।
यदशुभमशुभेऽब्दे मासजं तस्य वृद्धिः
शुभफलमपि चैवं याप्यमन्योन्यतायाम् ॥२२॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां ग्रह-
वर्षफलाध्याय एकोनविंशः ॥१९॥
जो ग्रह सूक्ष्म, अस्पष्ट किरण वाला, नीच स्थानस्थित या ग्रहयुद्ध में पराजित हो, वह
सम्पूर्ण फल देने वाला नहीं होता है। इससे विपरीत लक्षणयुत होने से सम्पूर्ण फल देने
वाला होता है। अशुभ वर्ष में रवि, मंगल और शनि के अशुभ मासफल की वृद्धि होती है।
इससे यह सिद्ध होता है कि अशुभ ग्रह के वर्ष में अशुभ ग्रह का मासाधिपतित्व होने पर
अत्यन्त अशुभ फल होता है तथा वर्षाधिप, मासाधिप—दोनों शुभग्रह हों तो शुभ फल की
वृद्धि और एक शुभ एवं दूसरा अशुभ हो तो याप्य ( अल्प फल ) होता है॥२२॥
इति 'विमला' हिन्दीटीकायां ग्रहवर्षफलाध्याय
एकोनविंशतितमः ॥१९॥
यो ग्रहोऽणुः सूक्ष्मो नभसि दृश्यते। अपटुमयूखोऽस्पष्टरश्मिः। नीचगो नीचराशिस्थितः।
अन्यैर्ग्रहैर्वा ग्रहयुद्धे जितः पराजितः। स ग्रहो निःशेषाणां सकलानां फलानां शुभानां दाता
न भवति। अतोऽन्यथा अस्मादुक्तात् प्रकाराद्यो विपरीतस्थः। स पुष्टिदः पुष्टिं ददाति।
वर्षफलानां शुभानां परिपूर्णानां दाता भवति। एतदुक्तं भवति—विस्तीर्णबिम्बः स्फुटमयूख
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
३२० बृहत्संहिता
उच्चस्थः स्वगृहत्रिकोणमित्रक्षेत्राणामन्यतमस्थो जया च परिपूर्णान्युक्तानि शुभानि फलानि
ददाति। अन्यथा अनिष्टानि फलानि ददाति। यदशुभमित्यादि। अशुभेऽब्दे अशुभे वर्षे
रविभौमसौराणामन्यतमे यन्मासजं मासाधिपतेर्ग्रहस्याशुभं फलं तस्य फलस्य वृद्धिर्भवति।
एतदुक्तं भवति—अशुभग्रहवर्षम् अशुभस्यैव ग्रहस्य मासाधिपतित्वं यदा भवति तदा
तस्मिन् मासे अतीवाशुभं फलं स ग्रहो ददाति। शुभफलमपि चैवम्। मासाब्दयोः शुभत्वे
मासजस्यैव शुभस्य वृद्धिर्भवति। याप्यमन्योन्यतायाम्। अन्योन्यतायां मासाब्दयोरेकस्य
शुभत्वे अन्यस्याशुभत्वे याप्यमल्पफलं वाच्यमिति। तथा च देवलः—
बली वर्षपतिः पुष्टं फलं यच्छति शोभनम्।
विबलश्च तथानिष्टं वर्षमासदिनात्मकम्।। इति।।२२।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ ग्रहवर्षफलं
नामैकोनविंशतितमोऽध्यायः ।।१९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ ग्रहशृङ्गाटकाध्यायः
अथ ग्रहशृङ्गाटकाध्यायो व्याख्यायते। तत्रादावेव दिक्फलप्रतिपादनार्थमाह—
यस्यां दिशि दृश्यन्ते विशन्ति ताराग्रहा रविं सर्वे।
भवति भयं दिशि तस्यामायुधकोपक्षुधातङ्कैः ॥१॥
जिस दिशा में सभी ताराग्रह ( मङ्गल, बुध, गुरु, शुक्र और शनि ) दिखाई दें तथा
जिस दिशा में रवि में प्रविष्ट ( अस्त ) हों, उस दिशा में शस्त्रकोप, क्षुधा ( दुर्भिक्ष ) और
आतङ्क ( उपद्रव ) का भय होता है।।१।।
यस्यां दिशि यत्राशायां सर्वे एव ताराग्रहा भौमबुधगुरुसितसौरा दृश्यन्ते लोकैरव-
लोक्यन्ते। तथा रविमादित्यं प्रति यस्यां दिशि विशन्ति अस्तमयं यान्ति तस्यां दिशि
भयं भवति। कैः आयुधकोपक्षुधातङ्कैः। आयुधकोपेन शस्त्रकोपेन, क्षुधा दुर्भिक्षेण,
आतङ्कैरुपद्रवैः। तथा च काश्यपः—
भूमिपुत्रादयः सर्वे यस्यामस्तमिते रवौ।
दृश्यन्तेऽस्तमये वापि यत्र यान्ति रवेस्ततः।।
दुर्भिक्षं शस्त्रकोपं च जनानां मरकं भवेत्।
अन्योन्यं भूमिपाः सर्वे विनिघ्नन्ति प्रजास्तथा।। इति।।१।।
अधुना तेषामेव ग्रहाणां संस्थानप्रदर्शनार्थमाह—
चक्रधनुःशृङ्गाटकदण्डपुराप्रासवज्रसंस्थानाः ।
क्षुदवृष्टिकरा लोके समराय च मानवेन्द्राणाम् ॥२॥
यदि ग्रहसंस्थान ( ग्रह की आकृति) चक्र, धनु, शृङ्गाटक (त्रिकोण ), दण्ड, पुर,
प्रास ( आयुधविशेष ), कुन्त, वज्र या मध्य में कृश और दोनों तरफ विस्तीर्ण हो तो पृथ्वी
पर सब जगह दुर्भिक्ष, अवृष्टि एवं मनुष्यों में और राजाओं में युद्ध होता है।।२।।
चक्रं चक्राकारम्। धनुश्चापम्। शृङ्गाटकं त्रिकोणम्। दण्डं दण्डाकारम्। पुरं पुराकारमेव
प्रासादसदृशम्। प्रासमायुधविशेषः कुन्ताकारम्। वज्रं वज्राकारं मध्यक्षाममुभयाग्रविस्तीर्णम्।
एवं चक्रादिसंस्थानां ग्रहाः। संस्थानमाकृतिः। लोके सर्वत्र जनपदे क्षुदवृष्टिकराः। क्षुद्
दुर्भिक्षमवृष्टिं च कुर्वन्ति। तथा मानवेन्द्राणां राज्ञां समराय संग्रामाय च भवन्ति।
अर्थादेवोक्त-संस्थानं विना यथा तथा स्थितानां शुभं फलं कुर्वन्तीति। तथा च काश्यपः—
विहायोक्तं च संस्थानं दृश्यन्ते वै ग्रहा यदा।
तदा न तत्फलं ब्रूयाल्लोके नाशुभदाश्च ते।। इति।।२।।
बृह० भ० प्र०-२१
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३२२ बृहत्संहिता
अथान्तरिक्षप्रविभागेनाशुभं फलमाह—
यस्मिन् खांशे दृश्या ग्रहमाला दिनकरे दिनान्तगते ।
तत्राऽन्यो भवति नृपः परचक्रोपद्रवश्च महान् ॥३॥
सूर्य के अस्तसमय में जिस देश के आकाशभाग में ग्रहमाला दिखाई दे, वहाँ पर
अन्य राजा का आगमन और दूसरे राजा का उपद्रव होता है॥३॥
दिनकरे सूर्ये दिनान्तगते दिवसस्य पर्यन्तं प्राप्ते अस्तमित इत्यर्थः । तस्मिन् खांशे
यत्राकाशभागे ग्रहमाला ग्रहपङ्क्तिर्दृश्या भवति, तत्र तस्मिन्नेव भूभागे अन्यो द्वितीयो
नृपो राजा भवति। तथा महानतीव परचक्रोपद्रवश्च भवति। अपरनृपापमर्दस्तत्र भवतीत्यर्थः।
अथ ग्रहाणां नक्षत्रस्थितानां फलमाह—
तस्मिन्नृक्षे कुर्युः समागमं तज्जनान् ग्रहा हन्युः ।
अविभेदिनः परस्परममलमयूखाः शिवास्तेषाम् ॥४॥
जिस नक्षत्र के साथ ग्रहों का समागम होता है, उस नक्षत्र के नक्षत्रकूर्म और
नक्षत्रव्यूह में उक्त जनों का नाश करता है। यदि वे दोनों ( ग्रह, नक्षत्र ) परस्पर निर्मल
किरण वाले हों तो उनका कुशल करते हैं॥४॥
यस्मिन्नृक्षे यत्र नक्षत्रे ग्रहाः समागमं सम्प्रयोगं कुर्युस्तस्य नक्षत्रस्य ये जना नक्षत्रकूर्मेण
नक्षत्रव्यूहेन च कथितास्तान् हन्युर्नाशयेयुः। यदा च त एव ग्रहाः परस्परमन्योन्यमविभेदिन-
श्छाद्यच्छादकभावेन स्थिता अमलमयूखा निर्मलरश्मयस्तेषामेव जनानां शिवाः श्रेयस्करा
भवन्ति। तथा च समाससंहितायाम्—
सर्वे यदा दिनकरं विशन्ति कुर्युर्ग्रहास्तदा पीडाम्।
क्षुच्छस्त्रभयातङ्कैरपरैश्च परस्पराघातैः ॥
प्रत्यर्चिषः प्रसन्नाः सम्भृतकिरणाः प्रदक्षिणावर्ताः।
सुस्निग्धामलतनवः क्षेमसुभिक्षावहास्ते स्युः॥४॥
अथ योगषट्कस्य नामान्याह—
ग्रहसंवर्तसमागमसम्मोहसमाजसन्निपाताख्याः ।
कोशश्चेत्येतेषामभिधास्ये लक्षणं सफलम् ॥५॥
ग्रहसंवर्त, ग्रहसमागम, ग्रहसम्मोह, ग्रहसमाज, ग्रहसन्निपात और ग्रहकोश—ये छः
योग हैं। अब इनका लक्षण और फल कहते हैं॥५॥
ग्रहसंवर्तेति । ग्रहशब्दः प्रत्येकमभिसम्बध्यते। ग्रहसंवर्त एकः। ग्रहसमागमो द्वितीयः।
ग्रहसम्मोहस्तृतीयः। ग्रहसमाजश्चतुर्थः। ग्रहसन्निपातः पञ्चमः। ग्रहकोशः षष्ठः। इत्येवंप्रकाराः
षड्योगाः। एषां सफलं फलसहितं लक्षणमभिधास्ये कथयिष्ये॥५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहशृङ्गाटकाध्यायः ३२३
तच्च लक्षणं सफलमाह—
एकक्षें चत्वारः सह पौरैर्यायिनोऽथवा पञ्च ।
संवर्तो नाम भवेच्छिखिराहुयुतः स सम्मोहः ॥६॥
पौरः पौरसमेतो यायी सह यायिना समाजाख्यः ।
यमजीवसङ्गमेऽन्यो यद्यागच्छेत्तदा कोशः ॥७॥
उदितः पश्चादेकः प्राक् चान्यो यदि स सन्निपाताख्यः ।
अविकृततनवः स्निग्धा विपुलाश्च समागमे धन्याः ॥८॥
एक नक्षत्र में पौर के साथ पापी ग्रह मिल कर चार या पाँच संख्यक हों तो संवर्त,
केतु या राहु हो तो सम्मोह, पौरग्रह के साथ पौरग्रह या पापी ग्रह के साथ पापी ग्रह हो तो
समाज, शनैश्चर और गुरु के संयोग में कोई दूसरा ग्रह आ जाय तो कोश, एक ग्रह पश्चिम
दिशा में और दूसरा पूर्व दिशा में उदित होकर दोनों एक नक्षत्रगत हों तो सन्निपात तथा उक्त
पाँचों लक्षणों से भिन्न लक्षणयुक्त होने से समागम होता है। इस समागम में ताराग्रह
निर्विकार शरीर वाले, निर्मल और विपुल बिम्ब वाले शुभ होते हैं; अन्यथा अशुभ होते
हैं॥६-८॥
एकस्मिन् ऋक्षे नक्षत्रे चत्वारो ग्रहाः स्थिता भवन्ति पञ्च वा, ते यदि यायिनः पौरैश्च
सह समेता भवन्ति तदा संवर्तो नाम योगो भवति। तत्रैव यदि शिखी केतू राहुर्वा भवति
तदा योगः सम्मोहो नाम भवति।
पौरो ग्रहः पौरेण ग्रहेण समेतः संयुक्तो यदि यायी यायिना वा सह यद्येकस्मिन्नृक्षे
भवति तदा स समाजाख्यो योगो भवति। समाजेत्याख्या यस्य। यमः सौरो जीवो गुरुः।
अनयोः सङ्गमे संयोगे यद्यन्यः कश्चिद् ग्रह आगच्छेत्तदा कोशाख्यो योगः।
एको ग्रहः पश्चात् पश्चिमायां दिश्युदितः। आदित्यमण्डलान्निर्गतः। अन्यो द्वितीयः
प्राक् च पूर्वस्यां दिशि अर्कमण्डलादेवोद्गतस्तौ तथाभूतौ यद्येकक्षं गतौ भवतस्तदा स
सन्निपाताख्यो योगः। एतेषां पञ्चानां संस्थानानामभावे यो ग्रहसंयोगः समागम इति
ज्ञेयः। तत्र च समागमे सर्व एव ताराग्रहा अविकृततनवो निर्विकारशरीराः स्निग्धा निर्मला
विपुला विस्तीर्णाश्च धन्याः शुभाः अन्यथा अशुभा इति। तथा च समाससंहितायाम्—
ग्रहकोशसन्निपातौ संवर्तसमागमौ समाजश्च।
सम्मोहश्चेति तेषां लक्षणमस्तात् समादेश्यम्॥
सूर्यजगुरुसंयोगे द्वावप्येकोऽपरः समागच्छेत्।
स हि भवति कोशसंज्ञो दुर्भिक्षभयावहो लोके॥
एक उदितः प्रतीच्यामपरः प्राच्यां ग्रहोदितो यदि च।
अन्योन्यमथोत्साभिर्विलिखेत् स हि सन्निपाताख्यः॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३२४ बृहत्संहिता
सह पौरेण च पौरो यायी सह यायिना ग्रहो यश्च।
दृश्येत समायुक्तः स समाजाख्यः समुद्दिष्टः॥
अथ यायिनागराख्याश्चत्वारः पञ्च वा सह भवेयुः।
एकर्क्षे संवर्तः शिखिराहुयुतः स सम्मोहः॥
अन्यथा समागमो यतः पूर्वमेवोक्तम्—
प्रत्यर्चिषः प्रसन्नाः सम्भृतकिरणाः प्रदक्षिणावर्ताः।
सुस्निग्धामलतनवः क्षेमसुभिक्षावहास्ते स्युः॥६-८॥
अथैतेषां फलान्याह—
समौ तु संवर्तसमागमाख्यौ सम्मोहकोशौ भयदौ प्रजानाम् ।
समाजसंज्ञे सुसमा प्रदिष्टा वैरप्रकोपः खलु सन्निपाते ॥९॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
ग्रहशृङ्गाटकाध्यायो विंशः ॥२०॥
सम्मोह और कोश में प्रजाओं को भय, समाज में सुसम ( पूर्व से पश्चात् अधिक
फल ) और सन्निपात में परस्पर द्वेष होता है॥९॥
इति 'विमला'हिन्दीटीकायां ग्रहशृङ्गाटकाध्यायो विंशः ॥२०॥
संवर्तसमागमाख्यौ द्वौ योगौ समौ। न शुभं नाप्यशुभं कुर्वते इत्यर्थः। यादृशा
भावाः पूर्वमभूवंस्तादृशा एव संवर्तसमागमयोरिति। सम्मोहकोशौ प्रजानां लोकानां
भयदौ भयं ददतः। समाजसंज्ञे समाजाख्ये सुसमा सुशोभना समा प्रदिष्टा उक्ता। तद्वर्षं
शोभनं भवतीत्यर्थः। केचिद्बहुवचनं पठन्ति। सुसमाः प्रदिष्टा इति। सुसमा भावाः प्रदिष्टा
उक्ताः। यादृशाः पूर्वमभूवन् तदधिका भवन्तीत्यर्थः। सन्निपाते वैरप्रकोपः। लोकानां परस्परं
वैरं भवति। खलुशब्द आगमद्योतनार्थः। तथा च काश्यपः—
संवर्तसङ्गमौ मध्यौ सम्मोहो भयदः स्मृतः।
कोशश्चानिष्टफलदः समाजाख्यः सुमध्यमः।
सन्निपाते महावैरमन्योन्यमुपजायते॥
तथा च समाससंहितायाम्—
संवर्तसमागमयोः साम्यं मोहे भयानि कोशे च।
सुसमा समाजसंज्ञे वैराण्यथ सन्निपाताख्ये॥
तथा चात्रायं विशेषः समाससंहितायाम्—
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
ग्रहशृङ्गाटकाध्यायः ३२५
दुर्भिक्षरोगतस्करशस्त्रावृष्टिक्षुधं ग्रहाः कुर्युः।
आनलवीथ्यां ज्ञेया अजवीथ्यां नेत्रपरिहानिः।।
शस्त्रभयं मृगवीथ्यां जारद्रव्यां क्षुधं च रोगांश्च।
पशुनाशं गोवीथ्यामृषभाख्यायां च नृपपीडा।।
सुसुभिक्षमिरावत्यां गजवीथ्यां च ऋतूत्सवामोदाः।
अतिजलमोक्षं कुर्युर्नागाख्यायां च सर्वे तु।।
ग्रहोदये प्रवासे च सोमसूर्यग्रहे तथा।
विचार्य वीथीमार्गांश्च लोके ब्रूयाच्छुभाशुभम्।। इति।।१९।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
ग्रहशृङ्गाटकंनाम विंशोऽध्यायः।।२०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ गर्भलक्षणाध्यायः
अथ गर्भलक्षणं नामाध्यायो व्याख्यायते। तत्रादावेव प्रयोजनदर्शनार्थमाह—
अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायत्तम्।
यस्मादतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन ॥१॥
संसार का प्राण अन्न है, वह अन्न वर्षा ऋतु के अधीन है; अतः यत्नपूर्वक वर्षा ऋतु
की परीक्षा करनी चाहिये ॥१॥
जगतो विश्वस्यान्नं प्राणा असवः। यतः प्राणिनामन्नैर्विना प्राणा न वर्तन्ते। तच्चान्नं
प्रावृट्कालस्य वर्षसमयस्यायत्तमाधीनं यस्मादतोऽस्माद्धेतोः प्रयत्नेनातिशयेन प्रावृट्कालः
परीक्ष्यो विचार्य इत्यर्थः॥१॥
अथ तल्लक्षणानि वक्ष्यामीत्याह—
तल्लक्षणानि मुनिभिर्यानि निबद्धानि तानि दृष्ट्वेदम्।
क्रियते गर्गपराशरकाश्यपवज्रादिरचितानि ॥२॥
गर्ग, पराशर, काश्यप, वज्र आदि मुनियों के द्वारा निबद्ध गर्भलक्षण को देखकर मैं
वर्षाकाल का लक्षण कर रहा हूँ॥२॥
तस्य प्रावृट्कालस्य यानि लक्षणानि विज्ञानकारणानि मुनिभिर्वसिष्ठादिभिर्निबद्धानि
रचितानि तानि दृष्ट्वा अवलोक्य, तथा गर्गपराशरकाश्यपवज्रादिभिर्यानि रचितानि विरचि-
तानि। आदिग्रहणाद्बादरायणाऽसितदेवला गृह्यन्ते। तानि सर्वाणि दृष्ट्वा मयेदं प्रावृट्काल-
लक्षणं क्रियत इति॥२॥
अथ गर्भलक्षणज्ञस्य दैवविदः प्रशंसार्थमाह—
दैवविदविहितचित्तो द्युनिशं यो गर्भलक्षणे भवति।
तस्य मुनेरिव वाणी न भवति मिथ्याम्बुनिर्देशे ॥३॥
जो दैवज्ञ रात-दिन गर्भलक्षण में अविक्षिप्त चित्त होकर लगे रहते हैं, मुनि की तरह
उनकी वाणी वृष्टि-ज्ञान में मिथ्या नहीं होती है॥३॥
यो दैववित् कालज्ञोऽविहितचित्तोऽविक्षिप्तचित्तः, न विहितं चित्तं यस्य, अनन्यमनाः,
तत्पर इत्यर्थः। केचिदवहितचित्त इति पठन्ति। अविक्षिप्तचित्तो द्युनिशमहोरात्रं यो गर्भ-
लक्षणे भवति तस्याम्बुनिर्देशे वृष्टिकथने मुनेर्ऋषेरिव वाणी गीर्मिथ्या निष्फला न भवति;
अपि तु सत्यस्वरूपा भवति। यस्मिन् दिने यस्यां वेलायां स वृष्टिमादिशति तत्र सत्य-
स्वरूपा भवतीत्यर्थः॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
गर्भलक्षणाध्यायः ३२७
अथ शास्त्रप्रशंसार्थमाह—
किं वातः परमन्यच्छास्त्रज्ज्यायोऽस्ति यद्विदित्वैव ।
प्रध्वंसिन्यपि काले त्रिकालदर्शी कलौ भवति ॥४॥
इस ज्योतिषशास्त्र से कौन शास्त्र अच्छा है? अर्थात् कोई नहीं; जिसको जानकर इस
विनाशी कलिकाल में भी मनुष्य त्रिकालदर्शी होते हैं॥४॥
अतोऽस्माद् गर्भलक्षणशास्त्राज्ज्योतिःशास्त्राद्वा अन्यदपरं शास्त्रं ज्यायः प्रशस्ततरं
किं वास्ति विद्यते। यच्छास्त्रं ग्रन्थं ज्ञात्वा कलौ युगे प्रध्वंसिन्यपि सर्वशास्त्रविनाशकर्तरि
सत्यपि। यतः सर्वशास्त्राणां कलौ दिनानुदिनं ध्वंसोऽस्ति। तथाभूतेऽपि त्रिकालदर्शी भूत-
भविष्यद्वर्त्तमानकालस्य वेत्ता भवतीत्यर्थः ॥४॥
अथात्रै परमतं स्वमतं चाह—
केचिद्वदन्ति कार्तिकशुक्लान्तमतीत्य गर्भदिवसा स्युः।
न च तन्मतं बहूनां गर्गादीनां मतं वक्ष्ये ॥५॥
किसी का मत है कि कार्तिक शुक्ल पूर्णिमा के बाद गर्भ के दिन होते हैं। यह सबका
मत नहीं है; अतः अब गर्ग आदि आचार्यों का मत कहते हैं॥५॥
केचिदाचार्याः सिद्धसेनप्रभृतयः कार्तिकमासस्य शुक्लान्तं शुक्लपक्षावसानं पौर्णिमान्तं
समतीत्यातिक्रम्य गर्भदिवसाः स्युर्भवेयुरिति वदन्ति कथयन्ति। तथा च सिद्धसेनः—
शुक्लपक्षमतिक्रम्य कार्तिकस्य विचारयेत्।
गर्भाणां सम्भवं सम्यक् सस्यसम्पत्तिकारणम्॥
न च तन्मतं बहूनामिति। यदेतत्रागुक्तं कार्तिकशुक्लान्तमतीत्य गर्भदिवसाः
स्युरिति, तच्च बहूनां प्रभूतानां मुनीनां न मतम्। तस्माद् गर्गादीनां गर्गवसिष्ठपराशरऋषि-
पुत्रकश्यपानां मतं वक्ष्ये कथयिष्य इति॥५॥
तच्चाह—
मार्गशिरःसितपक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम् ।
पूर्वा वा समुपगते गर्भाणां लक्षणं ज्ञेयम् ॥६॥
मार्गशीर्ष शुक्ल प्रतिपदा से जब चन्द्रमा पूर्वाषाढा नक्षत्र में स्थित हो, उस समय से
गर्भो का लक्षण जानना चाहिये। ( यहाँ पर 'वा' शब्द चार्थक है )॥६॥
मार्गशीर्षमासस्य सितपक्षप्रतिपत्प्रभृति शुक्लपक्षप्रतिपदारभ्य क्षपाकरे चन्द्रे अषाढां
पूर्वा वा समुपगते पूर्वाषाढां प्राप्ते। वाशब्दोऽत्र चार्थे। मार्गशीर्षशुक्लपक्षे यदा पूर्वा-
षाढास्थश्चन्द्रमा भवति तदारभ्य गर्भाणां लक्षणं ज्ञेयं ज्ञातव्यमिति। तथा चात्र गर्गः—
शुक्लादौ मार्गशीर्षस्य पूर्वाषाढाव्यवस्थिते।
निशाकरे तु गर्भाणां तत्रादौ लक्षणं वदेत्॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३२८ बृहत्संहिता
कश्यपोऽपि—
सितादौ मार्गशीर्षस्य प्रतिपद्दिवसे तथा।
पूर्वाषाढागते चन्द्रे गर्भाणां धारणं भवेत्।। इति।।६।।
अथ धृतस्य गर्भस्य प्रसवकालज्ञानमाह—
यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात्।
पञ्चनवते दिनशते तत्रैव प्रसवमायाति ॥७॥
चन्द्रमा के जिस नक्षत्र में स्थित होने से गर्भस्थिति होती है, चन्द्र के कारण १९५वें
दिन में उसका प्रसव होता है।
विशेष—चान्द्रमान से १९५ दिन ग्रहण करने से उस दिन वह नक्षत्र नहीं आता है;
अतः सावन मान से १९५ वाँ दिन ग्रहण करना चाहिये; क्योंकि सावन मान से १९५ वें
दिन में ठीक वही नक्षत्र आता है।।७।।
यो गर्भो यन्नक्षत्रमुपगते यस्मिन्नक्षत्रे व्यवस्थिते चन्द्रे भवेत् स गर्भश्चन्द्रवशाच्चन्द्र-
युक्तनक्षत्रवशात् प्रसवमायाति। कियता कालेनेत्याह—
पञ्चनवते दिनशते अतिक्रान्ते। सार्द्धैः षड्भिर्मासैर्गतैस्तत्रैव तस्मिन्नेव नक्षत्रे प्रसवमायाति
प्रसूत इति। एतदुक्तं भवति—यन्नक्षत्रमुपगते चन्द्रे गर्भः सम्भूतस्तस्मात् पञ्चनवते दिनशते
अतीते तन्नक्षत्रस्थिते चन्द्रे प्रसवमायाति। नन्वत्र यदुक्तं चन्द्रवशात् प्रसवमायाति तत्किमत्र
चान्द्रमानमासे निर्दिष्टम्? चान्द्रमानवशात् पञ्चनवते दिनशते प्रसवं याति। एतन्न। चन्द्र-
वशादित्यनेनेदं प्रदर्शयति यन्नक्षत्रे चन्द्रे गर्भः सम्भूतः स सावनमानवशात्तन्नक्षत्रस्थे प्रसवं
याति। नन्वत्र चन्द्रवशादित्युक्तं कथं सावनं मानमवगम्यत इति; उच्यते। 'तत्रैव प्रसवमायाति'
इतिवचनाद्द्युगयातदिवसेषु गर्भदिवसात् पञ्चनवतिशतयुक्तेष्वहर्गणे कृते तन्नक्षत्रगतश्चन्द्रमा
भवति। अन्यथा पञ्चनवते दिनशते चन्द्रः पुनर्गर्भनक्षत्रे न भवत्येव। तस्मान्निश्चीयते स
चन्द्रवशाच्चन्द्रकृतगर्भलक्षणवशात्तत्रैव व्यवस्थिते चन्द्रे गर्भः प्रसवं याति। सावनं मानं
प्रागस्माभिर्विशेषेण प्रदर्शितम्। संख्योपदिष्टानि यानि तानि सावनमानेनादेष्टव्यानि। साव-
नान्याचार्येण प्रदर्शितानि—'युगवर्षमासपिण्डं रविमानं साधिमासकं चान्द्रमि'त्यादि।
तथा चाचार्येण समाससंहितानिबन्धे स्पष्टतरमुक्तम्—
पौषासितपक्षाद्यैः श्रावणशुक्लादयो विनिर्देश्याः।
सार्द्धैः षड्भिर्मासैर्गर्भविपाकः स नक्षत्रे।।
तस्मादेवं स्थितं सावनमानवशाद् गर्भप्रसव इति।।७।।
अथ पुनरपि गर्भाणां धृतानां प्रसवकालज्ञानमाह—
सितपक्षभवाः कृष्णे शुक्ले कृष्णा द्युसम्भवा रात्रौ ।
नक्तम्प्रभवाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् ॥८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
गर्भलक्षणाध्यायः ३२९
यदि गर्भ शुक्ल पक्ष में हो तो कृष्ण पक्ष में, कृष्ण पक्ष में हो तो शुक्ल पक्ष म, दिन
में हो तो रात्रि में, रात्रि में हो तो दिन में, पूर्व सन्ध्या में हो तो पश्चिम सन्ध्या में और पश्चिम
सन्ध्या में हो तो पूर्व सन्ध्या में प्रसव होता है।। ८।।
सितपक्षभवाः शुक्लपक्षसम्भवा गर्भाः पुरतः पञ्चनवते दिनशते गते कृष्णपक्षे
प्रसवमायान्ति। एवं कृष्णपक्षोद्भवाः शुक्लपक्षे। द्युसम्भवा दिनसम्भवा गर्भा रात्रौ प्रसव-
मायान्ति। नक्तम्प्रभवा रात्रिसम्भवाश्चाहनि दिवसे प्रसवमायान्ति। सन्ध्याजाताः सन्ध्यायामेव
व्यत्ययाद्भवन्ति। प्राक्सन्ध्यासम्भूता अपरसन्ध्यायामपरसन्ध्यासम्भूताः प्राक्सन्ध्यायामिति।
तथा च गर्गः—
दिवा भवति यो गर्भो रात्रौ स इति पच्यते।
शुक्लपक्षे समुद्भूतः कृष्णे पक्षे च वर्षति।।
पौर्णमास्यामथोत्पन्नः सोऽमावास्यां प्रवर्षति।
अमावास्यां समुद्भूतः पूर्णमास्यां प्रवर्षति।।
पूर्वसन्ध्यासमुद्भूतः पश्चिमायां प्रवर्षति।
पश्चिमायां समुद्भूतः पूर्वसन्ध्यां प्रवर्षति।।
पूर्वाह्णे यः समुद्भूतः पश्चाद्रात्रौ प्रवर्षति।
निशायां पश्चिमे यश्च स पूर्वाह्णे प्रसूयते।।
दिनार्द्धे तु समुत्पन्नः स निशार्द्धे प्रसूयते।। इति।।८।।
अथ गर्भाणां विशेषलक्षणं कालनिर्देशं चाह—
मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश्च।
पौषस्य कृष्णपक्षेण निर्दिशेच्छावणस्य सितम् ॥९॥
माघसितोत्था गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति ।
माघस्य कृष्णपक्षेण निर्दिशेद् भाद्रपदशुक्लम् ॥१०॥
फाल्गुनशुक्लसमुत्था भाद्रपदस्यासिते विनिर्देश्याः ।
तस्यैव कृष्णपक्षोद्भवास्तु ये तेऽश्वयुक्छुक्ले ॥११॥
चैत्रसितपक्षजाताः कृष्णोऽश्वयुजस्य वारिदा गर्भाः ।
चैत्रासितसम्भूताः कार्तिकशुक्लेऽभिवर्षन्ति ॥१२॥
मार्गशीर्ष शुक्ल और पौष शुक्ल में स्थित गर्भ मन्द फल ( अल्प वृष्टि ) देने वाला
होता है। यहाँ पर चैत्र शुक्ल प्रतिपदा से मास का ग्रहण करना चाहिये। जैसे चैत्र शुक्ल
प्रतिपदा से वैशाख कृष्ण अमान्त तक एक मास, वैशाख शुक्ल प्रतिपदा से ज्येष्ठ कृष्ण
अमान्त तक दूसरा मास इत्यादि। यदि पौष कृष्ण पक्ष में गर्भ हो तो श्रावण शुक्ल पक्ष में,
माघ शुक्ल में गर्भ हो तो श्रावण कृष्ण में, माघ कृष्ण में गर्भ हो तो भाद्र शुक्ल में, फाल्गुन
३३० बृहत्संहिता
शुक्ल में गर्भ हो तो भाद्र कृष्ण में, फाल्गुन कृष्ण में गर्भ हो तो आश्विन शुक्ल में, चैत्र
शुक्ल में गर्भ हो तो आश्विन कृष्ण में और चैत्र कृष्ण में गर्भ हो तो कार्तिक शुल्क में प्रसव
( वृष्टि ) होता है।।९-१२।।
मृगशीर्षों मार्गशीर्षस्तदाद्याः प्रथमपक्षजाता गर्भा मन्दफलाः स्वल्पवर्षदा भवन्ति।
प्रथमः पक्षः शुक्लपक्षस्तत्र जाताः सम्भूताः। तथा पौषशुक्लजाताश्च गर्भा मन्दफला एव।
अस्मिन् गर्भलक्षणे चैत्रसिताद्या मासा विज्ञातव्याः। यथा चैत्रस्य शुक्लपक्षो वैशाखस्यं
कृष्णपक्ष इत्येष चैत्रमासः। एवमन्येषां मासानामपि परिकल्पना कार्या। एवमेतच्चान्द्रमानम्।
पौषस्य कृष्णपक्षेण श्रावणस्य सितं शुक्लपक्षं निर्दिशेद् वदेत्। एतदुक्तं भवति—
पौषकृष्णपक्षसम्भूतो गर्भः श्रावणशुक्लपक्षे प्रसूयते इति।
एवं माघसितोत्था गर्भा माघशुक्लपक्षे सम्भूताः श्रावणस्य कृष्णपक्षे प्रसूतिमायान्ति
प्राप्नुवन्ति। तथा माघस्य कृष्णपक्षेण भाद्रपदशुक्लपक्षं निर्दिशेत्।
फाल्गुनशुक्लपक्षसम्भूता गर्भा भाद्रपदस्यासिते कृष्णपक्षे विनिर्देश्या वक्तव्याः।
तस्यैव फाल्गुनस्य ये तु कृष्णपक्षोद्भव गर्भास्तेऽश्वयुजः शुक्लपक्षेऽभिवर्षन्ति।
चैत्रसितपक्षजाताश्चैत्रशुक्लपक्षसम्भूता ये गर्भास्तेऽश्वयुजस्य कृष्णपक्षे वारिदा वृष्टिदाः।
चैत्रासितसमुद्भूताश्चैत्रकृष्णोद्भवाः कार्तिकशुक्लपक्षेऽभिवर्षन्ति। तथा च गर्गः—
माघेन श्रावणं विन्द्यान्नभस्यं फाल्गुनेन तु।
चैत्रेणाश्वयुजं प्राहुर्वैशाखेन तु कार्तिकम्।।
शुक्लपक्षेण कृष्णं तु कृष्णपक्षेण चेतरम्।
रात्र्यहोश्च विपर्यासं कार्यं काले विनिश्चयम्।। इति।
पराशरस्याप्येवं मतम्।।९-१२।।
अथ मेघानां वायोश्च लक्षणमाह—
पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः।
शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च ॥१३॥
यदि गर्भकाल में मेघ पूर्व दिशा में हो तो प्रसव काल में पश्चिम दिशा में, पश्चिम दिशा
में हो तो पूर्व दिशा में, दक्षिण दिशा में हो तो उत्तर दिशा में, उत्तर दिशा में हो तो दक्षिण
दिशा में, आग्नेय कोण में हो तो वायव्य कोण में, वायव्य कोण में हो तो आग्नेय कोण में,
ईशान कोण में हो तो नैर्ऋत्य कोण में और गर्भकाल में नैर्ऋत्य कोण में मेघ हो तो प्रसव
काल में ईशान कोण में मेघ होता है। इसी तरह वायु का भी दिग्वैपरीत्य समझना चाहिये।
जैसे गर्भकाल में पूर्व तरफ की वायु हो तो प्रसव काल में पश्चिम तरफ की वायु होगी—
इत्यादि समझना चाहिये।।१३।।
जीमूता मेघा गर्भकाले ये पूर्वस्यां दिशि समुद्भूतास्ते प्रसवकाले पश्चात् पश्चिमायां
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
गर्भलक्षणाध्यायः ३३१
दिशि सम्भवन्ति। ये चापरोत्था गर्भकाले पश्चिमायां दिशि सम्भूतास्ते प्रवर्षणे प्राक्पूर्वस्यां
दिशि सम्भवन्ति। शेषास्वन्यास्वपि दिक्ष्वेवमनेन प्रकारेण विपर्ययो विपरीतो भवति।
तद्यथा—दक्षिणा उत्तरस्याम्, उत्तरा दक्षिणस्याम्। आग्नेया वायव्याम्, वायव्या आग्नेय्याम्।
ऐशानीसम्भूता नैर्ऋत्याम्, नैर्ऋतीसम्भूता ऐशान्यामिति।
वायोरनिलस्य चाप्येवमेव विपर्ययो विपरीतो वाच्यः। यथा मेघानां दिग्व्यत्यय
उक्तस्तथा वायोरपि वाच्यः। यथा पूर्वोद्भूताः पश्चात्तथा पूर्वोद्भूतो गर्भकाले वायुः प्रवर्षण-
काले पश्चिमायां दिशि भवतीत्येवं सर्वत्र योज्यम्। तथा च पराशरः—
‘अथ माघेन श्रावणं फाल्गुनेन भाद्रपदं चैत्रेणाश्वयुजं वैशाखेन तु कार्तिकं शुक्लेन
कृष्णं कृष्णेन शुक्लं दिवसेन रात्रिं रात्र्या दिवसं गर्भाः प्रवर्षन्ति’ इति॥१३॥
अधुना गर्भसम्भवलक्षणान्याह—
ह्रादिमृदूदक्शिवशक्रदिग्भवो मारुतो वियद्विमलम्।
स्निग्धसितबहुलपरिवेषपरिवृतौ हिममयूखार्कौ ॥१४॥
पृथुबहुलस्निग्धघनं घनसूचीक्षुरकलोहिताभ्रयुतम्।
काकाण्डमेचकाभं वियद्विशुद्धेन्दुनक्षत्रम् ॥१५॥
सुरचापमन्द्रगर्जितविद्युत्प्रतिसूर्यका शुभा सन्ध्या।
शशिशिवशक्राशास्थाः शान्तरवाः पक्षिमृगसङ्घाः ॥१६॥
विपुलाः प्रदक्षिणचराः स्निग्धमयूखा ग्रहा निरुपसर्गाः।
तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः ॥१७॥
गर्भाणां पुष्टिकराः सर्वेषामेव योऽत्र तु विशेषः।
स्वर्तुस्वभावजनितो गर्भविवृद्ध्यै तमभिधास्ये ॥१८॥
गर्भ-स्थितिकाल में आह्लादजनक, सुखस्पर्श और उत्तर, ईशान या पूर्व दिशा में
उत्पन्न वायु, निर्मल आकाश, स्निग्ध श्वेत परिवेष .. व्याप्त चन्द्र और सूर्य, आकाश में
विस्तृत और स्निग्ध मेघ, सूच्याकार, क्षुराकार और लोहित मेघों, काक के अण्डे के
समान, मयूर के कण्ठ के समान, निर्मल चन्द्र और नक्षत्रों से युत आकाश, इन्द्रधनु, मेघों
के मधुर शब्द, विद्युत और प्रतिसूर्य से युक्त पूर्वापरा सन्ध्या, सूर्य के अभिमुख होकर
उत्तर, ईशान या पूर्व दिशा में स्थित पक्षी और मृग, नक्षत्रों के उत्तर मार्ग में होकर निर्मल
उत्पातरहित ग्रहों का गमन, बाधारहित वृक्षों का अङ्कुर, मनुष्य और पशु हर्षित—इन सब
गुणों से युत गर्भ का समय हो तो गर्भ पुष्ट होता है। मार्गशीर्ष शुक्ल प्रतिपदा से वैशाख के
अन्त तक गर्भ की परीक्षा करनी चाहिये। गर्भ की वृद्धि के लिये ऋतु के स्वभाव से उत्पन्न
अवशिष्ट लक्षणों को अब आगे कहता हूँ॥१४-१८॥
गर्भगृहणकाले ईदृशानि लक्षणानि शुभफलानि भवन्ति। तद्यथा—मारुतो वायुर्ह्रादिरा-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३३२ बृहत्संहिता
ह्लादकः। मृदुः सुखस्पर्शः। उदगुत्तरा। शिवदिगैशानी। शक्रदिक् पूर्वा। असामन्यतमः
सम्भूतः। तथा वियदाकाशं विमलं निर्मलम्। हिममयूखश्चन्द्रः। अर्क आदित्यः। तौ
स्निग्धेनारूक्षेण सितेन शुक्लेन बहुलेन घनेन परिवेषेण परिवृतौ व्याप्तौ।
वियदाकाशं पृथुबहुलस्निग्धघनम्। पृथवो विस्तीर्णाः, बहुला घनाः, स्निग्धा
अरूक्षा घना मेघा यस्मिन्। तथा घनसूची मेघ एव सूच्याकारः। क्षुरकः क्षुराकारो मेघः।
लोहिताभ्राणि लोहितवर्णा मेघास्तैर्युतं संयुक्तम्। वियत्काकाण्डमेचकाभं काकाण्डो
वायसाण्डो नीलवर्णः, मेचको बर्हिकण्ठसमवर्णः। काकाण्डमेचकवदाभा कान्तिर्यस्मिन्।
विशुद्धो निर्मल इन्दुश्चन्द्रो नक्षत्राणि भानि च यस्मिन्।
तथा सन्ध्या पूर्वापरा वा सुरचापेनेन्द्रधनुषा मन्द्रेण मधुरेण गर्जितेन। गर्जितं मेघ-
शब्दः, विद्युतडित्, प्रतिसूर्यो द्वितीयोऽर्कः, एतैर्युक्ता शुभा शस्ता। तथा पक्षिणां विहङ्गा-
नाम्, मृगाणामारण्यपशूनां च सङ्घाः समूहाः। शशिशिवशक्राशास्थाः। शशिन आशा
उत्तरा दिक्, शिवाया ऐशानी, शक्राशा पूर्वा, एतास्वाशासु स्थिताः। ते च शान्तरवा मधुर-
स्वनाः, अनर्काभिमुखाश्च।
तथा ग्रहा विपुला विस्तीर्णबिम्बाः। प्रदक्षिणचरा नक्षत्राणामुत्तरेण मार्गेण चरन्ति।
एतत्पूर्वमेवोक्तम्।
भानां यथासम्भवमुत्तरेण यातो ग्रहाणां यदि वा शशाङ्कः।
प्रदक्षिणं तत् ..............................................................।। इति।
अतः प्रदक्षिणचराः। स्निग्धमयूखा निर्मलरश्मयः। निरुपसर्गा निरुत्पाताः। तथा
तरवो वृक्षाः। निरुपसृष्टाङ्कुराः। निरुपसृष्टा निर्बाधा अङ्कुराश्च येषाम्। नरचतुष्पदा हृष्टाः।
नरा मनुष्याः। चतुष्पदा गवादयः। एते हृष्टाः प्रमुदिताः।
गर्भाणामिति। एवमनेन प्रकारेण ये गुणा उक्तास्ते सर्वेषामेव गर्भाणां पुष्टिकराः।
एते च मार्गशिरःसितपक्षप्रतिपत्प्रभृति वैशाखान्तं यावल्लक्षणीयाः। अत्रास्मिन् गर्भलक्षणे
योऽन्यो विशेषः स्वर्तुस्वभावजनितः। स्वेनात्मीयेन ऋतुस्वभावेन जनित उत्पादितस्तं
गर्भविवृद्धयै गर्भाणां विवृद्धये विशेषमभिधास्ये कथयिष्ये। तथा च पराशरः—
'अथ गर्भसंस्थासु माघादिषु चतुर्षु मासेषु या शुचौ धारणा। नभो नभस्यौ प्रावृट्
तस्या अनु वर्षा येषु प्रसवन्ति। तत्र चापाभ्रविद्युत्स्तनयित्नुवर्षाणि गर्भास्तांल्लक्षयेत्
प्रशस्तानप्रशस्तांश्च। प्रशस्ताभाश्च यस्मिन् काले सूर्येन्दुनक्षत्राश्रयाणां वर्षालिङ्गानां प्रादुर्भावः।
पञ्चरूपता गर्भाणां धारणा मासेन शुद्धिः' इति।।१४-१८।।
अधुना तल्लक्षणमाह—
पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः।
नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिमपातः।।१९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
गर्भरक्षणाध्यायः ३३३
माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ ।
अतिशीतं सघनस्य च भानोरस्तोदयौ धन्यौ ॥२०॥
फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवाः स्निग्धाः ।
परिवेषाश्चासकलाः कपिलस्ताम्रो रविश्च शुभः ॥२१॥
पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः ।
घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे ॥२२॥
पौष और मार्गशीर्ष में दोनों सन्ध्या रक्त और परिवेषयुत मेघ शुभ होता है तथा
मार्गशीर्ष में अल्प शीत और पौष में हिम का गिरना शुभ होता है। माघ मास में प्रबल
भयङ्कर वायु, सूर्य और चन्द्र हिमयुक्त होकर मलिन कान्ति वाले, अति शीत और
मेघरहित सूर्य का उदयास्त शुभ है। फाल्गुन मास में रूक्ष और भयङ्कर वायु, मेघों का
उदय, सूर्य और चन्द्र का निर्मल तथा अखण्ड परिवेष, कपिल या ताम्र वर्ण का सूर्य शुभ
है। चैत्र मास में वायु, वृष्टि और परिवेषयुत गर्भ शुभ होता है। वैशाख मास में मेघ, वायु,
जल, विद्युत् और मेघ के गर्जनयुत गर्भ शुभ होता है॥१९-२२॥
पौषे मासे समार्गशीर्षे मार्गशीर्षसहिते। सन्ध्यारागः सन्ध्ययो रक्तत्वम्। अम्बुदा
मेघाः सपरिवेषाः परिवेषयुक्ताः। तथा मार्गशीर्षे मासि नार्थं नातिबहु शीतम्। पौषे नाति-
हिमपातः शुभः।
माघे मासि प्रबलश्चण्डो वायुः। तथा रविशशाङ्कावर्कचन्द्रौ तुषारकलुषद्युती। तुषार-
द्युतिर्हिमकान्तिः सूर्यः। कलुषद्युतिर्निर्मलकान्तिश्चन्द्र इत्यर्थः। अतिशीतमत्यर्थं शीतम्।
भानोरादित्यस्य सघनस्य समेघस्यास्तोदयौ धन्यौ द्वावपि शुभावित्यर्थः।
फाल्गुनमासे पवनो वायू रूक्षः परुषः। चण्डोऽतिवेगः। अभ्राणां मेघानां सम्प्लवा
उद्गमाः। स्निग्धाः सूर्याचन्द्रमसोः परिवेषाः। असकला अखण्डाः। रविरादित्यः कपिलः
कपिलवर्णस्ताम्रस्ताम्रवर्णश्च शुभः प्रशस्तः।
चैत्रे मासि गर्भाः पवनेन वायुना घनैर्मेघैर्वृष्ट्या वर्षेण च युक्ताः सपरिवेषाः परिवेष-
सहिताः शुभाः। वैशाखे मासि घनैर्मेघैः। पवनेन वायुना। सलिलेन जलेन। विद्युता तडिता।
स्तनितेन गर्जितेन च युक्ता गर्भा हिताय भवन्ति। तथा च कश्यपः—
शीतमभ्रं तथा वायुश्चन्द्रार्कपरिवेषणम्।
माघे मासि परीक्षेत श्रावणे वृष्टिमादिशेत्॥
फाल्गुने चात्र सङ्घातं वृष्टिस्तनितमेव च।
पुरोवाताश्च ये प्रोक्ता मासि भाद्रपदे शुभम्॥
बहुपुष्पफला वृक्षा वाताः शर्करवर्षिणः।
शीतवर्षं तथाभ्राणि चैत्रेणाश्वयुजं वदेत्॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
३३४ बृहत्संहिता
वहन्ति मृदवो वाताः पुरः शीघ्रं प्रदक्षिणाः।
वैशाखे तानि रूपाणि कार्तिके मासि वर्षति।।
तथा च समाससंहितायाम्—
शस्तानि मृगान्मासाच्छीतहिमवायुमेघकृतानि।
स्तनिततडिज्जलमारुतघनतापान्यतिशयं तु वैशाखे।।
कृष्णेन शुक्लपक्षः सितेन कृष्णो निशा दिनोत्थेन।
रात्र्याहः सन्ध्यायां सन्ध्यादिग्व्यत्ययाज्जलदाः।। इति।।१९-२२।।
अथ गर्भकाले मेघानां लक्षणमाह—
मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासः ।
जलचरसत्त्वाकारा गर्भेषु घनाः प्रभूतजलाः ।।२३।।
तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः।
रुषिता इव धाराभिर्विसृजन्त्यम्भः प्रसवकाले ।।२४।।
मोती या चाँदी के समान श्वेत अथवा तमाल वृक्ष, नील कमल या अञ्जन के समान अति
कृष्ण, अथवा जलचर जन्तु के समान कान्ति वाले गर्भकालिक मेघ हों तो बहुत वृष्टि देने वाले
होते हैं। अति भयङ्कर सूर्यकिरण से तापित, अल्प वायु से युत गर्भकालिक मेघ १९५वें
दिन ( प्रसवकाल ) में रुष्ट की तरह होकर धाराप्रवाह अतिवृष्टि करते हैं।।२३-२४।।
ये घना मेघा मुक्तारजतनिकाशा मुक्ताफलानां रजतस्य रौप्यस्य निकाशाः सदृशाः।
अतिशुक्ला इत्यर्थः। अथवा तमालनीलोत्पलाञ्जनाभासः। तमालवृक्षस्य नीलोत्पलस्या-
ञ्जनस्य च सदृशवर्णाः। अतिकृष्णा इत्यर्थः। जलचरसत्त्वाकाराः। जलचरा ये सत्त्वा
जलप्राणिनः। झषमकरमत्स्यनक्रकूर्मशिशुमारप्रभृतयः। एवंविधा गर्भेषु घना दृष्टाः प्रभूत-
जला बहुवर्षदाः।
तीव्रदिवाकरकिरणाभितापिता इति। ये मेघास्तीव्रैः प्रचण्डैर्दिवाकरकिरणैरर्क-
रश्मिभिरभितापिता दग्धदेहाः। मन्दमारुताः स्वल्पपवना जलदा मेघाः। एवंविधा ये गर्भ-
काले दृश्यन्ते ते प्रसवकाले पञ्चनवते दिवसशते काले अम्भः पानीयं रुषिता रुष्टाः क्रुद्धा
इव धाराभिर्विसृजन्त्युत्सृजन्ति। अतिवृष्टिदा भवन्तीत्यर्थः। तथा च समाससंहितायाम्—
पृथुघनबहुला जलदा जलचरसत्त्वान्विताः शुभा गर्भाः।
स्निग्धसितबहुलपरिवेषपरिवृतौ हिमकरोष्णकरौ।।
नृखगमृगा मुदिता निरुपहतास्तरवः।
स्निग्धतडित्प्रतिसूर्यकमत्स्यशक्रधनुःप्रथमापरमध्ये ।
शान्तरवा मृगपक्षिमनुष्या शक्रशशीश्वरदिक्पवनाश्च।। इति।।२३-२४।।
अधुना गर्भोपघातलक्षणमाह—
गर्भोपघातलिङ्गान्युलकाशनिपांशुपातदिग्दाहाः ।
क्षितिकम्पखपुरकीलककेतुग्रहयुद्धनिर्घाताः ।।२५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
गर्भलक्षणाध्यायः ३३५
रुधिरादिवृष्टिवैकृतपरिघेन्द्रधनूंषि दर्शनं राहोः।
इत्युत्पातैरेतैस्त्रिविधैश्चान्यैर्हतो गर्भः॥२६॥
यदि गर्भकाल में उल्कापात, विद्युत्, धूलि की वृष्टि, दिशाओं में जलन, भूकम्प,
गन्धर्व नगर, नाभस, कीलक आदि केतुओं का दर्शन, ग्रहयुद्ध, निर्घात (शब्द), रुधिर
आदि (रुधिर, मांस, वसा, घृत, तैल आदि) की विकारयुत वृष्टि, परिघ (४९वें अध्याय
के १९ वें श्लोक में वर्णित परिघ का लक्षण), इन्द्रधनु, राहु, चन्द्रग्रहण या सूर्यग्रहण का
दर्शन गर्भ का नाश करने वाले होते हैं॥२५-२६॥
इमानि वक्ष्यमाणानि गर्भाणामुपघातलिङ्गानि विनाशचिह्नानि। एतैर्गर्भो वृत्तो विनश्यति।
तद्यथा—उल्कापातः। अशनिर्विद्युत्। पांशुपातः पांशुवर्षणम्। दिग्दाहो दिशां दाहः।
क्षितिकम्पो भूचलनम्। खपुरं गन्धर्वनगरम्। कीलकस्तामसकीलकः। केतुः शिखी।
ग्रहयुद्धम्। निर्घातो निर्घातशब्दः।
तथा वृष्टौ वर्षणे। रुधिरादिवैकृतं विकारः। रक्तमांसवसाघृततैलादिवर्षणम्। परिघ-
लक्षणं वक्ष्यति—'परिघ इति मेघरेखा या तिर्यग्भास्करोदयेऽस्ते वा' इति। तस्य परिघ-
स्येन्द्रधनुषः सुरचापस्य दर्शनम्। राहोर्दर्शनं चन्द्रार्कग्रहणदर्शनम्। इत्येवं प्रकारैरुत्पा-
तैरन्यैस्त्रिविधैर्दिव्यान्तरिक्षभौमैरुत्पातैर्गर्भो हतो नष्टो वाच्यः। एतदुक्तं भवति—गर्भे दृष्टे
यदि पश्चादुक्तानामुत्पातानामन्यतमो भवति तदा गर्भो हतो यस्य समनन्तरं पश्चादुत्पातसम्भवो
नान्य इति। तथा च गर्गः—
अश्मवर्षं तमोवर्षं मांसशोणितवर्षणम्।
उल्कानिर्घातकम्पश्च वज्रपातस्तथैव च।।
परिवेषाः परिधयो वासवस्य धनूंषि च।
अनभ्रस्तनितं वर्षं दिशां दाहस्तथैव च।।
अनार्तवं पुष्पफलं वारणीयेषु वर्षणम्।
ग्रहयुद्धेषु घोरेषु हतान् गर्भान् विनिर्दिशेत्।।
तथा च पराशरः—'तेषां ग्रहाणामुदयास्तमयोल्कानिर्घाताशनिपातगन्धर्वनगरदिग्दा-
हार्करश्मिवर्णविकारभूचलनप्रादुर्भावो वर्षास्ववर्षाय' इति॥२५-२६॥
पुनरपि विशेषमाह—
स्वर्तुस्वभावजनितैः सामान्यैश्च लक्षणैर्वृद्धिः।
गर्भाणां विपरीतैस्तैरेव विपर्ययो भवति ॥२७॥
ऋतुओं के स्वभावजनित ('पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेशाः' इत्यादि
पद्योक्त) और सामान्य ('ह्लादिमृदूदक्प्लवशक्रदिग्भवो मारुत' इत्यादि पद्योक्त) लक्षणों
से युत गर्भ की वृद्धि; अन्यथा हानि होती है॥२७॥
'पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेशाः' इति स्वभावजनितानि गर्भाणां
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA