सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 376, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 376

३३४ बृहत्संहिता
वहन्ति मृदवो वाताः पुरः शीघ्रं प्रदक्षिणाः।
वैशाखे तानि रूपाणि कार्तिके मासि वर्षति।।
तथा च समाससंहितायाम्—
शस्तानि मृगान्मासाच्छीतहिमवायुमेघकृतानि।
स्तनिततडिज्जलमारुतघनतापान्यतिशयं तु वैशाखे।।
कृष्णेन शुक्लपक्षः सितेन कृष्णो निशा दिनोत्थेन।
रात्र्याहः सन्ध्यायां सन्ध्यादिग्व्यत्ययाज्जलदाः।। इति।।१९-२२।।
अथ गर्भकाले मेघानां लक्षणमाह—
मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासः ।
जलचरसत्त्वाकारा गर्भेषु घनाः प्रभूतजलाः ।।२३।।
तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः।
रुषिता इव धाराभिर्विसृजन्त्यम्भः प्रसवकाले ।।२४।।
मोती या चाँदी के समान श्वेत अथवा तमाल वृक्ष, नील कमल या अञ्जन के समान अति
कृष्ण, अथवा जलचर जन्तु के समान कान्ति वाले गर्भकालिक मेघ हों तो बहुत वृष्टि देने वाले
होते हैं। अति भयङ्कर सूर्यकिरण से तापित, अल्प वायु से युत गर्भकालिक मेघ १९५वें
दिन ( प्रसवकाल ) में रुष्ट की तरह होकर धाराप्रवाह अतिवृष्टि करते हैं।।२३-२४।।
ये घना मेघा मुक्तारजतनिकाशा मुक्ताफलानां रजतस्य रौप्यस्य निकाशाः सदृशाः।
अतिशुक्ला इत्यर्थः। अथवा तमालनीलोत्पलाञ्जनाभासः। तमालवृक्षस्य नीलोत्पलस्या-
ञ्जनस्य च सदृशवर्णाः। अतिकृष्णा इत्यर्थः। जलचरसत्त्वाकाराः। जलचरा ये सत्त्वा
जलप्राणिनः। झषमकरमत्स्यनक्रकूर्मशिशुमारप्रभृतयः। एवंविधा गर्भेषु घना दृष्टाः प्रभूत-
जला बहुवर्षदाः।
तीव्रदिवाकरकिरणाभितापिता इति। ये मेघास्तीव्रैः प्रचण्डैर्दिवाकरकिरणैरर्क-
रश्मिभिरभितापिता दग्धदेहाः। मन्दमारुताः स्वल्पपवना जलदा मेघाः। एवंविधा ये गर्भ-
काले दृश्यन्ते ते प्रसवकाले पञ्चनवते दिवसशते काले अम्भः पानीयं रुषिता रुष्टाः क्रुद्धा
इव धाराभिर्विसृजन्त्युत्सृजन्ति। अतिवृष्टिदा भवन्तीत्यर्थः। तथा च समाससंहितायाम्—
पृथुघनबहुला जलदा जलचरसत्त्वान्विताः शुभा गर्भाः।
स्निग्धसितबहुलपरिवेषपरिवृतौ हिमकरोष्णकरौ।।
नृखगमृगा मुदिता निरुपहतास्तरवः।
स्निग्धतडित्प्रतिसूर्यकमत्स्यशक्रधनुःप्रथमापरमध्ये ।
शान्तरवा मृगपक्षिमनुष्या शक्रशशीश्वरदिक्पवनाश्च।। इति।।२३-२४।।
अधुना गर्भोपघातलक्षणमाह—
गर्भोपघातलिङ्गान्युलकाशनिपांशुपातदिग्दाहाः ।
क्षितिकम्पखपुरकीलककेतुग्रहयुद्धनिर्घाताः ।।२५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA