बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 370, कुल 728 में से
संदर्भ में पढ़ें३२८ बृहत्संहिता
कश्यपोऽपि—
सितादौ मार्गशीर्षस्य प्रतिपद्दिवसे तथा।
पूर्वाषाढागते चन्द्रे गर्भाणां धारणं भवेत्।। इति।।६।।
अथ धृतस्य गर्भस्य प्रसवकालज्ञानमाह—
यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात्।
पञ्चनवते दिनशते तत्रैव प्रसवमायाति ॥७॥
चन्द्रमा के जिस नक्षत्र में स्थित होने से गर्भस्थिति होती है, चन्द्र के कारण १९५वें
दिन में उसका प्रसव होता है।
विशेष—चान्द्रमान से १९५ दिन ग्रहण करने से उस दिन वह नक्षत्र नहीं आता है;
अतः सावन मान से १९५ वाँ दिन ग्रहण करना चाहिये; क्योंकि सावन मान से १९५ वें
दिन में ठीक वही नक्षत्र आता है।।७।।
यो गर्भो यन्नक्षत्रमुपगते यस्मिन्नक्षत्रे व्यवस्थिते चन्द्रे भवेत् स गर्भश्चन्द्रवशाच्चन्द्र-
युक्तनक्षत्रवशात् प्रसवमायाति। कियता कालेनेत्याह—
पञ्चनवते दिनशते अतिक्रान्ते। सार्द्धैः षड्भिर्मासैर्गतैस्तत्रैव तस्मिन्नेव नक्षत्रे प्रसवमायाति
प्रसूत इति। एतदुक्तं भवति—यन्नक्षत्रमुपगते चन्द्रे गर्भः सम्भूतस्तस्मात् पञ्चनवते दिनशते
अतीते तन्नक्षत्रस्थिते चन्द्रे प्रसवमायाति। नन्वत्र यदुक्तं चन्द्रवशात् प्रसवमायाति तत्किमत्र
चान्द्रमानमासे निर्दिष्टम्? चान्द्रमानवशात् पञ्चनवते दिनशते प्रसवं याति। एतन्न। चन्द्र-
वशादित्यनेनेदं प्रदर्शयति यन्नक्षत्रे चन्द्रे गर्भः सम्भूतः स सावनमानवशात्तन्नक्षत्रस्थे प्रसवं
याति। नन्वत्र चन्द्रवशादित्युक्तं कथं सावनं मानमवगम्यत इति; उच्यते। 'तत्रैव प्रसवमायाति'
इतिवचनाद्द्युगयातदिवसेषु गर्भदिवसात् पञ्चनवतिशतयुक्तेष्वहर्गणे कृते तन्नक्षत्रगतश्चन्द्रमा
भवति। अन्यथा पञ्चनवते दिनशते चन्द्रः पुनर्गर्भनक्षत्रे न भवत्येव। तस्मान्निश्चीयते स
चन्द्रवशाच्चन्द्रकृतगर्भलक्षणवशात्तत्रैव व्यवस्थिते चन्द्रे गर्भः प्रसवं याति। सावनं मानं
प्रागस्माभिर्विशेषेण प्रदर्शितम्। संख्योपदिष्टानि यानि तानि सावनमानेनादेष्टव्यानि। साव-
नान्याचार्येण प्रदर्शितानि—'युगवर्षमासपिण्डं रविमानं साधिमासकं चान्द्रमि'त्यादि।
तथा चाचार्येण समाससंहितानिबन्धे स्पष्टतरमुक्तम्—
पौषासितपक्षाद्यैः श्रावणशुक्लादयो विनिर्देश्याः।
सार्द्धैः षड्भिर्मासैर्गर्भविपाकः स नक्षत्रे।।
तस्मादेवं स्थितं सावनमानवशाद् गर्भप्रसव इति।।७।।
अथ पुनरपि गर्भाणां धृतानां प्रसवकालज्ञानमाह—
सितपक्षभवाः कृष्णे शुक्ले कृष्णा द्युसम्भवा रात्रौ ।
नक्तम्प्रभवाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् ॥८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA