बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 375, कुल 728 में से
संदर्भ में पढ़ेंगर्भरक्षणाध्यायः ३३३
माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ ।
अतिशीतं सघनस्य च भानोरस्तोदयौ धन्यौ ॥२०॥
फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवाः स्निग्धाः ।
परिवेषाश्चासकलाः कपिलस्ताम्रो रविश्च शुभः ॥२१॥
पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः ।
घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे ॥२२॥
पौष और मार्गशीर्ष में दोनों सन्ध्या रक्त और परिवेषयुत मेघ शुभ होता है तथा
मार्गशीर्ष में अल्प शीत और पौष में हिम का गिरना शुभ होता है। माघ मास में प्रबल
भयङ्कर वायु, सूर्य और चन्द्र हिमयुक्त होकर मलिन कान्ति वाले, अति शीत और
मेघरहित सूर्य का उदयास्त शुभ है। फाल्गुन मास में रूक्ष और भयङ्कर वायु, मेघों का
उदय, सूर्य और चन्द्र का निर्मल तथा अखण्ड परिवेष, कपिल या ताम्र वर्ण का सूर्य शुभ
है। चैत्र मास में वायु, वृष्टि और परिवेषयुत गर्भ शुभ होता है। वैशाख मास में मेघ, वायु,
जल, विद्युत् और मेघ के गर्जनयुत गर्भ शुभ होता है॥१९-२२॥
पौषे मासे समार्गशीर्षे मार्गशीर्षसहिते। सन्ध्यारागः सन्ध्ययो रक्तत्वम्। अम्बुदा
मेघाः सपरिवेषाः परिवेषयुक्ताः। तथा मार्गशीर्षे मासि नार्थं नातिबहु शीतम्। पौषे नाति-
हिमपातः शुभः।
माघे मासि प्रबलश्चण्डो वायुः। तथा रविशशाङ्कावर्कचन्द्रौ तुषारकलुषद्युती। तुषार-
द्युतिर्हिमकान्तिः सूर्यः। कलुषद्युतिर्निर्मलकान्तिश्चन्द्र इत्यर्थः। अतिशीतमत्यर्थं शीतम्।
भानोरादित्यस्य सघनस्य समेघस्यास्तोदयौ धन्यौ द्वावपि शुभावित्यर्थः।
फाल्गुनमासे पवनो वायू रूक्षः परुषः। चण्डोऽतिवेगः। अभ्राणां मेघानां सम्प्लवा
उद्गमाः। स्निग्धाः सूर्याचन्द्रमसोः परिवेषाः। असकला अखण्डाः। रविरादित्यः कपिलः
कपिलवर्णस्ताम्रस्ताम्रवर्णश्च शुभः प्रशस्तः।
चैत्रे मासि गर्भाः पवनेन वायुना घनैर्मेघैर्वृष्ट्या वर्षेण च युक्ताः सपरिवेषाः परिवेष-
सहिताः शुभाः। वैशाखे मासि घनैर्मेघैः। पवनेन वायुना। सलिलेन जलेन। विद्युता तडिता।
स्तनितेन गर्जितेन च युक्ता गर्भा हिताय भवन्ति। तथा च कश्यपः—
शीतमभ्रं तथा वायुश्चन्द्रार्कपरिवेषणम्।
माघे मासि परीक्षेत श्रावणे वृष्टिमादिशेत्॥
फाल्गुने चात्र सङ्घातं वृष्टिस्तनितमेव च।
पुरोवाताश्च ये प्रोक्ता मासि भाद्रपदे शुभम्॥
बहुपुष्पफला वृक्षा वाताः शर्करवर्षिणः।
शीतवर्षं तथाभ्राणि चैत्रेणाश्वयुजं वदेत्॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA