बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 263, कुल 728 में से
संदर्भ में पढ़ेंकेतुचाराध्यायः २२३
पुत्राः। ते च सितैकताराः। सितः श्वेत एकस्तारको येषाम्। शिखापरित्यक्ताश्चूडारहिताः।
ते च स्निग्धा निर्मलदेहा याम्याश्रिता दक्षिणस्यां दिशि दृश्यन्ते। पापाः पापफला अनिष्ट-
फला इत्यर्थः। तथा च गर्गः—
शुक्लाः स्निग्धाः प्रसन्नाश्च महारूपाः प्रभान्विताः।
एकतारा वपुष्मन्तो विशिखा रश्मिभिर्वृताः।।
एते बृहस्पतेः पुत्राः प्रायशो दक्षिणाश्रयाः।
नामतो विकचा घोराः पञ्चषष्टिर्भयावहाः।। इति।। १९।।
अथैकपञ्चाशद् बुधपुत्रास्तानाह—
नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथेष्टदिक्प्रभवाः।
बुधजास्तस्करसंज्ञाः पापफलास्त्वेकपञ्चाशत् ॥२०॥
अस्पष्ट, सूक्ष्म शरीर वाले, लम्बे, श्वेत, सभी दिशाओं में उदित होने वाले, तस्कर-
संज्ञक बुध के पुत्र इक्यावन केतु हैं। इनका दर्शन होने से अशुभ फल होता है।।२०।।
तस्करसंज्ञास्तस्करनामान एकपञ्चाशत्केतवो बुधजाः सौम्यपुत्राः। नातिव्यक्ता नाति-
स्फुटाः। सूक्ष्मा अल्पदेहाः। दीर्घा आयामिनः। शुक्लाः श्वेतवर्णाः। यथेष्टदिक्प्रभवा यथे-
ष्टायां दिशि प्रभव उत्पत्तिर्येषाम्। सर्वासु दिक्षु दृश्यन्त इत्यर्थः। ते च पापफला अनिष्ट-
फलाः। तथा च गर्गः—
अरुन्धतिसमा रूक्षाः केचिदव्यक्ततारकाः।
सपाण्डुवर्णाः श्वेताभाः सूक्ष्मा रश्मिभिरावृताः।।
एते बुधात्मजा ज्ञेयास्तस्कराख्या भयावहाः।
एकाधिकास्ते पञ्चाशदथोत्पथचरा ग्रहाः।। इति।।२०।।
अथ षष्टिर्भौमपुत्रास्तानाह—
क्षतजानलानुरूपास्त्रिचूलताराः कुजात्मजाः षष्टिः।
नाम्ना च कौङ्कुमास्ते सौम्याशासंस्थिताः पापाः ॥२१॥
रक्त या अग्नि के समान कान्ति वाले, तीन शिखा और तीन तारे वाले साठ प्रकार के
मङ्गल-पुत्र केतु हैं। ये उत्तर दिशा में उदित होते हैं और इनका दर्शन होने से अशुभ फल
होता है।।२१।।
कौङ्कुमानामानः षष्टिः केतवः कुजात्मजा अङ्गारकपुत्राः। क्षतजानलानुरूपाः। क्षतजं
रक्तमनलोऽग्निस्तदनुरूपास्तत्सदृशाः। अतिलोहिता इत्यर्थः। त्रिचूलतारास्त्रिशिखास्त्रि-
तारका येषाम्। ते च सौम्याशासंस्थिता उत्तरस्यां दिशि दृश्यन्ते। पापाः पापफलाश्च।
तथा च गर्गः—
त्रिशिखाश्च त्रिताराश्च रक्ता लोहितरश्मयः।
प्रायशश्चोत्तरामाशां सेवन्ते नित्यमेव ते।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA