बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
नक्षत्रव्यूहाध्यायः २७१
र्मिश्रितैर्विशिष्टतरं सुगन्धद्रव्यं ये उत्पादयन्ति। गणितपटवो गणितदक्षाः। तन्तुवायाः
कौलिकाः। शालाकया अक्षिरोगचिकित्सकाः। राजधान्यं राजोपयोगि यद्धान्यं षष्टिकादि।
एतत्सर्वं त्वाष्ट्रे चित्रायाम्।।१२।।
अथ स्वातावाह—
स्वातौ खगमृगतुरगा वणिजो धान्यानि वातबहुलानि ।
अस्थिरसौहृदलघुसत्त्वतापसाः पण्यकुशलाश्च ।।१३।।
पक्षी, मृग, अश्व, खरीदने-बेचने वाले, धान्य, छोटे जन्तु, तपस्वी, क्रय-विक्रय में
कुशल—ये सब स्वाती नक्षत्रगत पदार्थ हैं।।१३।।
खगाः पक्षिणः। मृगा अरण्यप्राणिनः। तुरगा अश्वाः। वणिजः क्रयविक्रयनिरताः।
धान्यानि शालयः। वातबहुलानि चणकप्रभृतीनि। अस्थिरसौहृदः अस्थिरमित्राणि। लघु-
सत्त्वा अल्पसत्त्वाः। तापसास्तपोनिरताः। पण्यकुशलाः पण्यप्रवीणाः। केचिद्वन्यकुशला
इति पठन्ति। वने भवा वन्यास्तेषु कुशलाः। एते सर्व एव स्वातौ।।१३।।
अथ विशाखायामाह—
इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिलमुद्गाः ।
,कर्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ।।१४।।
रक्त पुष्प, रक्त फल, वृक्ष, तिल, मूंग, कपास ( रूई ), चना, इन्द्र के भक्त, अग्निभक्त—
ये सब विशाखा नक्षत्रगत पदार्थ हैं।।१४।।
रक्तपुष्पा लोहितपुष्पा रक्तफलाश्च ये शाखिनो वृक्षास्ते च सतिलमुद्गाः तिलैर्मुद्गैश्च
सहिताः। कर्पासाः प्रसिद्धाः। माषाश्चणकाश्च प्रसिद्धा एव। ये पुरन्दरस्येन्द्रस्य हुता-
शस्याग्नेर्भक्ता अनुरक्ताः। एते सर्व एवेन्द्राग्निदैवते विशाखायाम्।।१४।।
अथाऽनुराधायामाह—
मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः ।
ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम् ।।१५।।
बली, समूहों में प्रधान, साधुओं के भक्त, संघ में बैठने वाले, वाहन से चलने वाले,
जनपदों के साधु, शारदीय धान्य आदि—ये सब अनुराधा नक्षत्रगत पदार्थ हैं।।१५।।
शौर्यसमेता बलसंयुक्ताः। गणनायका गणप्रधानाः। साधूनां ये रताः। गोष्ठिरता
नर्मसक्ताः। यानरता वाहनसक्ता गमनसक्ता वा। ये च लोके जनपदे साधवः सज्जनाः।
शरत्समुत्पन्नं शारदं सर्वमशेषं यत्किञ्चिद्धान्यादि। एतन्मैत्रेऽनुराधायाम्।।१५।।
अथ ज्येष्ठायामाह—
पौरन्दरेऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः ।
विजिगीषवो नरेन्द्राः सेनानां चापि नेतारः ।।१६।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
२७२ बृहत्संहिता
अति शूर, कुलीन, धनी, यशस्वी, दूसरे के धन का अपहरण करने वाले, दूसरे को
जीतने की इच्छा करने वाले राजा, सेनापति—ये सब ज्येष्ठा नक्षत्रगत पदार्थ हैं।।१६।।
अतिशूरा अतिसंग्रामधीराः। कुलेनाभिजनेन वित्तेन धनेन यशसा कीर्त्या ये अन्विताः
संयुक्ताः। परस्वहतः परधनहन्तारः। ये च नरेन्द्रा राजानो विजिगीषवः परान् जेतुमिच्छवः।
ये च सेनानां नेतारः सेनापतयः। एते सर्व एव पौरन्दरे ज्येष्ठायाम्।।१६।।
अथ मूल आह—
मूले भेषजभिषजो गणमुख्याः कुसुममूलफलवार्ताः।
बीजान्यतिधनयुक्ताः फलमूलैर्ये च वर्तन्ते ।।१७।।
औषध, वैद्य, समूह में प्रधान, पुष्प, मूल और फल से आजीविका चलाने वाले, नव
प्रकार के बीज, अतिधनी, फलाहारी, कन्दाहारी—ये सब मूल नक्षत्रगत पदार्थ हैं।।१७।।
भेषजमौषधम्। भिषजो वैद्याः। गणमुख्याः समूहप्रधानाः। कुसुममूलफलवार्ताः।
कुसुमानि पुष्पाणि, मूलानि फलानि च वार्ता वृत्तिर्येषाम्। बीजानि सर्वाणि यान्युप्यन्ते।
ये चातिधनयुक्ताः प्रभूतवित्तसमन्विताः। ये च फलमूलैर्वर्तन्ते जीवन्ति। ते सर्व एव
मूले।।१७।।
अथ पूर्वाषाढायामाह—
आप्ये मृदवो जलमार्गगामिनः सत्यशौचधनयुक्ताः।
सेतुकरवारिजीवकफलकुसुमान्यम्बुजातानि ।।१८।।
कोमल हृदय वाले, जल-मार्ग से चलने वाले ( धीवर, जल में रहने वाले प्राणी
आदि ), सत्य भाषण करने वाले, दूसरे के धन आदि को नहीं चाहने वाले, धनी, पुल
बनाने वाले, जल से आजीविका चलाने वाले, जल से उत्पन्न फल और पुष्प—ये सब
पूर्वाषाढा नक्षत्रगत पदार्थ हैं।।१८।।
मृदवो मार्दवयुक्ताः। जलमार्गगामिनो जलमार्गेण ये गच्छन्ति ते जलमार्गगामिनो
धीवरा जलप्राणिनश्च। सत्ययुक्ताः सत्यभाषिणः। शौचयुक्ताः परधनादिष्वलुब्धाः। धन-
युक्ता ईश्वराः। सेतुकराः सेतुं ये कुर्वन्ति। वारिजीवका वारिणा जलेन ये जीवन्ति तेनै-
वार्थार्जनं कुर्वन्ति। यानि चाम्बुजातानि जलसम्भूतानि फलानि कुसुमानि च। ते सर्व एवा-
ऽऽप्ये पूर्वाषाढायाम्।।१८।।
अथोत्तराषाढायामाह—
विश्वेश्वरे महामात्रमल्लकरितुरगदेवतासक्ताः।
स्थावरयोधा भोगान्विताश्च ये तेजसा युक्ताः ।।१९।।
महामात्र ( मुख्य मन्त्री = 'महामात्राः प्रधानानि' इत्यमरः ), मल्ल, बाहुयुद्ध में
कुशल, हाथी, घोड़ा, देवताओं के भक्त, स्थावर ( वृक्ष आदि ), युद्ध में कुशल, भोगी,
तेजस्वी—ये सब उत्तराषाढा नक्षत्रगत पदार्थ हैं।।१९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
नक्षत्रव्यूहाध्यायः २७३
महामात्रा हस्तिसाधनपतयः । मल्ला बाहुयुद्धज्ञाः । करिणो हस्तिनः । तुरगा अश्वाः ।
देवतासक्ता देवताभक्ताः । स्थावरा वृक्षादयः । योधा युद्धकुशलाः । भोगान्विता भोगसमेताः ।
ये च जनास्तेजसा युक्तास्तेजस्विनः । ते सर्व एव विश्वेश्वर उत्तराषाढायाम् ।।१९।।
अथ श्रवण आह—
श्रवणे मायापटवो नित्योद्युक्ताश्च कर्मसु समर्थाः ।
उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ।।२०।।
मायापटु ( मायावी, प्रपञ्ची ), सदा सब कामों को करने में उद्यत, उत्साही, धर्मी,
भगवान् के भक्त, सत्य भाषण करने वाले—ये सब श्रवणनक्षत्रगत पदार्थ हैं।।२०।।
मायापटवो मायाविनः प्रपञ्चकुशलाः नित्योद्युक्ताः सर्वकालं सोद्यमाः कर्मसु व्यापारेषु
समर्थाः सक्ताः । उत्साहिनः सोत्साहाः । सधर्मा धर्मसंयुक्ताः । भागवता भगवद्भक्ताः । सत्य-
वचनाः सत्यभाषिणः । एते सर्व एव श्रवणे ।।२०।।
अथ धनिष्ठायामाह—
वसुभे मानोन्मुक्ताः क्लीबाचलसौहृदाः स्त्रियां द्वेष्याः ।
दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ।।२१।।
अहङ्काररहित, नपुंसक, अस्थिर मित्रता करने वाले, स्त्रीद्वेषी, दानी, बहुत धनी,
जितेन्द्रिय—ये सब धनिष्ठा नक्षत्रगत पदार्थ हैं।।२१।।
मानोन्मुक्ता मानवर्जिता निरहङ्काराः । क्लीबाः षण्ढाः अचलसौहृदाः स्थिरमैत्राः ।
स्त्रियां द्वेष्याः स्त्रीष्वप्रियाः । दानाभिरता दानशीलाः । बहुवित्तसंयुताः प्रभूतधनान्विताः ।
ये च नरा मनुष्याः शमपरा जितेन्द्रियाः । एते सर्व एव वसुभे धनिष्ठायाम् ।। २१ ।।
अथ शतभिषज्याह—
वरुणेशे पाशिकमत्स्यबन्धजलजानि जलचराजीवाः ।
सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गेऽस्मिन् ।।२२।।
पाशिक ( जाल से प्राणियों को मारने वाले ), मछली मारने वाले, जल में उत्पन्न
होने वाले सभी द्रव्य, जलचर जन्तुओं से आजीविका चलाने वाले, सूअर को रखने वाले
( डोम आदि ), धोबी, मद्य बेचने वाले ( कलवार आदि ), पक्षियों को मारने वाले—
ये सब शतभिषा नक्षत्रगत पदार्थ हैं।।२२।।
पाशिकाः । पाशा बन्धनरज्जवः । पाशैः प्राणिनो बध्नन्तीति पाशिकाः । मत्स्यबन्धो
मत्स्यान् मीनान् बध्नाति यः । जलजानि जलोद्भवानि सर्वद्रव्याणि मुक्ताफलादीनि ।
जलचराजीवाः । जलचरैर्मत्स्यादिभिर्ये आजीवन्ति । सौकरिकाः । सूकरान् वराहान् ये
बध्नन्ति । रजका वस्त्ररागकर्तारः । शौण्डिकाः पानसक्ताः । शाकुनिकाः शकुनीन् घ्नन्तीति
शाकुनिकाः पक्षिघातिनः । एते सर्व एवास्मिन् वर्गे वरुणेशे शतभिषजि ।।२२।।
बृ० भ० प्र०-१८
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२७४ बृहत्संहिता
अथ पूर्वभद्रपदायामाह—
आजे तस्करपशुपालहिंस्रकीनाशनीचशठचेष्टाः ।
धर्मव्रतैर्विरहिता नियुद्धकुशलाश्च ये मनुजाः ॥२३॥
चोर, पशुपालक, क्रूर, कीनाश ( क्षुद्र = 'कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु'
इत्यमरः ), नीच जन, शठ ( परोपकार से विमुख ), विधर्मी, व्रतों से रहित, बाहु-युद्ध
को जानने वाले—ये सब पूर्वाभाद्रपदा नक्षत्रगत पदार्थ हैं॥२३॥
तस्कराश्चौराः। पशुपालाः छागादिषु रक्षकाः। हिंस्राः क्रूराः। कीनाशाः कदर्याः।
नीचा अधमकर्मकराः। शठचेष्टाः शठः परकार्यविमुखस्तस्येव चेष्टा येषां ते शठचेष्टाः।
धर्मव्रतैर्विरहिता धर्मविवर्जिताः। व्रतैः कृच्छ्रपराकैश्चान्द्रायणादिभिश्च वर्जिताः। ये च मनुजा
मनुष्या नियुद्धकुशला बाहुयुद्धज्ञाः। एते सर्व एवाऽऽजे पूर्वभद्रपदायाम्॥२३॥
अथोत्तरभद्रपदायामाह—
आहिर्बुध्न्ये विप्राः क्रतुदानतपोयुता महाविभवाः ।
आश्रमिणः पाखण्डा नरेश्वराः सारधान्यं च ॥२४॥
ब्राह्मण, यज्ञ करने वाले, दानी, तपस्वी, अति धनी, आश्रमी ( चतुर्थाश्रम में रहने
वाले ), पाखण्डी ( वेदनिन्दक ), राजा, उत्तम धान्य—ये सब उत्तराभाद्रपदा नक्षत्रगत
पदार्थ हैं॥२४॥
विप्रा द्विजाः। क्रतुर्यज्ञः। दानं सत्पात्रेष्वर्थप्रतिपादनम्। तपो व्रतानुसेवनम्। एतैर्ये
युताः समन्विताः। महाविभवा अत्यैश्वर्ययुक्ताः। आश्रमिणश्चतुर्थाश्रमिणः। पाखण्डा
वेदबाह्याः। नरेश्वरा राजानः। सारधान्यं श्रेष्ठाः शालयः। एतत्सर्वमेवाहिर्बुध्न्ये उत्तर-
भद्रपदायाम्॥२४॥
अथ रेवत्यामाह—
पौष्णे सलिलजफलकुसुमलवणमणिशङ्खमौक्तिकाब्जानि ।
सुरभिकुसुमानि गन्धा वणिजो नौकर्णधाराश्च ॥२५॥
जल से उत्पन्न होने वाले द्रव्य, फल और फूल, नमक, रत्न, शङ्ख, मोती, कमल
आदि सुगन्धयुक्त फूल, सुगन्धियुत द्रव्य, खरीदने-बेचने वाले, नाविक—ये सभी रेवती
नक्षत्रगत पदार्थ हैं॥२५॥
सलिलजानि जलोद्भवानि यानि द्रव्याणि मृणालादीनि यानि च फलानि। तथा
कुसुमानि पुष्पाणि। लवणं सैन्धवम्। मणयो रत्नानि। शङ्खः प्रसिद्धः। मौक्तिकं मुक्ताफलानि।
अब्जानि पद्मप्रभृतीनि। सुरभि सुगन्धद्रव्यम्। कुसुमानि। अथवा सुरभीणि सुगन्धानि
कुसुमानि। गन्धाः सुगन्धद्रव्याणि। वणिजः क्रयविक्रयिणः। नौकर्णधारा नाविकाः। एते
सर्व एव पौष्णे रेवत्याम्॥२५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
नक्षत्रव्यूहाध्यायः २७५
अथाश्विन्यामाह—
अश्विन्यामश्वहराः सेनापतिवैद्यसेवकास्तुरगाः ।
तुरगारोहा वणिजो रूपोपेतास्तुरगरक्षाः ॥२६॥
घोड़े को चुराने वाले, सेनापति, वैद्य, सेवक, घोड़ा, घोड़े पर चढ़ने वाले, खरीदने-
बेचने वाले, सुन्दर, अश्वरक्षक—ये सब अश्विनी नक्षत्रगत पदार्थ हैं॥२६॥
अश्वहरा अश्वग्राहकाः। सेनापतयश्चमूनाथाः। वैद्याः कायचिकित्सकाः। सेवकाः सेवा-
निरताः। तुरगा अश्वाः। तुरगारोहा अश्वगामिनः। वणिजः किराताः क्रयविक्रयनिरताः
रूपोपेताः रूपसम्पन्नाः सुरूपाः। तुरगरक्षा अश्वपतयः। एते सर्व एवाऽश्विन्याम्॥२६॥
अथ भरण्यामाह—
याम्येऽसृक्पिशितभुजः क्रूरा वधबन्धताडनासक्ताः ।
तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्त्वेन ॥२७॥
रक्तमिश्रित मांस खाने वाले, क्रूर, वध, बन्धन और ताडन करने वाले, भूसी वाले
धान्य, नीच कुल में उत्पन्न, उदारता आदि गुणों से रहित—ये सब भरणी नक्षत्रगत पदार्थ
हैं॥२७॥
असृग्रक्तं पिशितं मांसं तद्भुञ्जते ये तेऽसृक्पिशितभुजो रक्तमांसादाः। क्रूराः उग्राः। वधे
मारणे बन्धे बन्धने ताडने कुट्टने चासक्ता रताः। तुषधान्यं शालयः। नीचकुलोद्भवा निकृष्ट-
वंशजाताः। ये च सत्त्वेनौदार्येण विहीना रहिताः। एते सर्व एव याम्ये भरण्याम्॥२७॥
अधुना जातिनक्षत्राण्याह—
पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि ।
सपौष्णमैत्रं पितृदैवतं च प्रजापतेर्भं च कृषीवलानाम् ॥२८॥
आदित्यहस्ताभिजदाश्विनानि वणिग्जनानां प्रवदन्ति तानि ।
मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः प्रभविष्णुतायाः ॥२९॥
सौम्यैन्द्रचित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि ।
सार्पं विशाखा श्रवणो भरण्यश्चण्डालजातेरभिनिर्दिशन्ति ॥३०॥
पूर्वाफाल्गुनी, पूर्वाषाढा, पूर्वाभाद्रपदा और कृत्तिका ब्राह्मणों के; उत्तरफाल्गुनी, उत्तराषाढा,
उत्तराभाद्रपदा और पुष्य क्षत्रियों के; रेवती, अनुराधा, मघा और रोहिणी वैश्यों के;
पुनर्वसु, हस्त, अभिजित् और अश्विनी क्रय-विक्रय करने वालों के; मूल, आर्द्रा, स्वाती
और शतभिषा क्रूर मनुष्यों के; मृगशिरा, ज्येष्ठा, चित्रा और धनिष्ठा सेवकों के तथा
आश्लेषा, विशाखा, श्रवणा और भरणी नक्षत्र चाण्डालों के स्वामी होते हैं॥२८-३०॥
पूर्वात्रयं पूर्वफल्गुनी पूर्वाषाढा पूर्वभद्रपदेति। एतच्च सानलमनलेन कृत्तिकया
सहितम्। एतन्नक्षत्रचतुष्टयमग्रजानां ब्राह्मणानाम्। पुष्येण सहोत्तराणि राज्ञां पुष्यमुत्तरात्र-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२७६ बृहत्संहिता
यमुत्तरफल्गुन्युत्तराषाढोत्तरभद्रपदा इति। एतद्राज्ञां क्षत्रियाणां नक्षत्रचतुष्टयम्। सपौष्णमैत्रं
पितृदैवतं चेति। मैत्रमनुराधा। सपौष्णं पौष्णेन रेवत्या सहितम्। पितृदैवतं मघा। प्रजापतेर्भं
प्राजापत्यं नक्षत्रं रोहिणी। चशब्दः समुच्चये। एतत्कृषीवलानां कर्षकाणां वैश्यानां नक्षत्र-
चतुष्टयम्।
आदित्येति। आदित्यं पुनर्वसुर्हस्तोऽभिजित्। आश्विनमश्विनी। एतानीमानि वणिग्जनानां
किराटलोकानां चत्वारि प्रवदन्ति कथयन्ति। मूलम्। त्रिनेत्रो रुद्र आर्द्रा। अनिलः स्वातिः।
वारुणं शतभिषग्। एतानि चत्वारि प्रभविष्णुतायाः प्रभावशीलाया उग्रजातेः क्रूरजनस्य।
सौम्यं मृगशिराः। ऐन्द्रं ज्येष्ठा। त्वाष्ट्रं चित्रा। वसुदैवतं धनिष्ठा। एतानि चत्वारि
नक्षत्राणि सेवाजनस्य सेवाभिरतस्य स्वाम्यं प्रभुत्वमुपगतानि प्राप्तानि। सार्पमाश्लेषा।
विशाखा। श्रवणः। भरणी। एतानि चत्वारि नक्षत्राणि चण्डालजातेश्चण्डालानामभिनिर्दिशन्ति
कथयन्ति मुनयः॥२८-३०॥
अथ क्रूरग्रहप्रयोजनमाह—
रविरविसुतभोगमागतं क्षितिसुतभेदनवक्रदूषितम्।
ग्रहणगतमथोल्कया हतं नियतमुषाकरपीडितं च यत् ॥३१॥
तदुपहतमिति प्रचक्षते प्रकृतिविपर्यययातमेव वा।
निगदितपरिवर्गदूषणं कथितविपर्ययगं समृद्धये ॥३२॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
नक्षत्रव्यूहाध्यायः पञ्चदशः ॥१५॥
रवि और शनि से भुक्त, मङ्गल के भेदन या वक्र गमन से दूषित, ग्रहणकालिक,
उल्का से हत, चन्द्रकिरण से पीड़ित ( चन्द्रमा जिस नक्षत्र की योगतारा को आच्छादित या
उसके दक्षिण भाग में होकर गमन करे ) या स्वाभाविक उत्तम गुण से रहित नक्षत्र को मुनि
लोग पीड़ित कहते हैं। इस तरह पीड़ित नक्षत्र पूर्वोक्त अपने वर्ग का नाश और उक्त से भिन्न
लक्षणयुत हो तो उनकी वृद्धि करता है॥३१-३२॥
इति 'विमला'हिन्दीटीकायां नक्षत्रव्यूहाध्यायः पञ्चदशः ॥१५॥
रविरादित्यः। रविसुतः शनैश्चरः। अनयोरेकस्य यन्नक्षत्रं भोगमागतं भोगं प्राप्तम्।
क्षितिसुतो भौमस्तद्भेदनेन मध्यगमनेनाच्छादनेन वा तद्वक्रेण वा दूषितं दुष्टम्। ग्रहणगतं
यन्नक्षत्रं यत्र स्थितोऽर्कश्चन्द्रो वा राहुणा ग्रस्यते तद्ग्रहणगतम्। अथोल्कया हतमुल्का-
निपीडितम्। नियतं सर्वकालमुषाकरेण चन्द्रेण यत्पीडितम्। यस्य नक्षत्रस्य चन्द्रमा योग-
तारकाभेदेन आच्छादनं मध्यगमनं दक्षिणभागगमनं वा करोति तदुषाकरपीडितम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
नक्षत्रव्यूहाध्यायः २७७
तदुपहतमिति प्रचक्षत इति। एवंविधं यन्नक्षत्रं तदुपहतमिति प्रचक्षते कथयन्ति
मुनयः। अथवा प्रकृतेः स्वभावाद्विपर्ययं विपरीतं यातं प्राप्तं तदप्युपहतम्। एवंविधं नक्षत्रं
निगदितस्य कथितस्य परिवर्गस्य प्रागुक्तस्य दूषणं दुष्टतां विनाशं करोति। कथित-
विपर्ययगं समृद्धये। रविरविसुतमागतमित्यादि यदुक्तं तद्विपरीतगं यन्नक्षत्रं तत्कथितस्योक्तस्य
परिवर्गस्य समृद्धये भवति पुष्णातीत्यर्थः। तथा च कश्यपः—
शनैश्चरस्य सूर्यस्य यदृक्षं भोगमागतम्।
धरित्रीतनयेनापि भिन्नं वक्रप्रदूषितम्।।
राहुग्रस्तमथोल्काभिर्हतमुत्पातदूषितम् ।
चन्द्रेण पीडितं यच्च प्रकृतेरन्यथास्थितम्।।
तच्चोपहतकं विन्द्यान्नक्षत्रं हन्ति सर्वदा।
स्ववर्गमन्यथा नित्यं पुष्णाति निरुपद्रवम्।। इति।।३१-३२।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ नक्षत्र-
व्यूहो नाम पञ्चदशोऽध्यायः॥१५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ ग्रहभक्तियोगाध्यायः
अथ ग्रहभक्तियोगो व्याख्यायते। कस्मिन् देशे केषां जनानां को ग्रहाऽधिपतिरित्येतद्यत्र
निरूप्यते। तत्रादावेवाऽऽदित्यस्याह—
प्राङ् नर्मदार्द्धशोणोड्रवङ्गसुह्माः कलिङ्गबाह्लीकाः ।
शकयवनमगधशबरप्राग्ज्योतिषचीनकाम्बोजाः ॥१॥
मेकलकिरातविटका बहिरन्तःशैलजाः पुलिन्दाश्च ।
द्रविडानां प्रागर्द्धं दक्षिणकूलं च यमुनायाः ॥२॥
चम्पोदुम्बरकौशाम्बिचेदिविन्ध्याटवीकलिङ्गाश्च ।
पुण्ड्रा गोलाङ्गूलश्रीपर्वतवर्द्धमानानि ॥३॥
इक्षुमतीत्यथ तस्करपारतकान्तारगोपबीजानाम् ।
तुषधान्यकटुकतरुकनकदहनविषसमरशूराणाम् ॥४॥
भेषजभिषक्चतुष्पदकृषिकरनृपहिंस्रयायिचौराणाम् ।
व्यालारण्ययशोयुततीक्ष्णानां भास्करः स्वामी ॥५॥
नर्मदा नदी के पूर्वभाग, शोण नद, उड्र, वङ्ग, सुह्म, कलिङ्ग, बाल्हीक, शक, यवन,
मगध, शबर, प्राग्ज्योतिष, चीन, कम्बोज, मेकल, किरात, विटक, पर्वत के बाहर और
मध्य में रहने वाले, पुलिन्द जन, द्रविड का पूर्वार्ध, यमुना के दक्षिण तट, विन्ध्याचल के
मध्य भाग, कलिङ्ग देश में स्थित जन, पुण्ड्र, गोलांगूल, श्रीपर्वत, वर्द्धमान, इक्षुवती नदी,
तस्कर, पारतदेशवासी, वन, गौ का पालन करने वाले, बीज, भूसी वाले धान्य, कटुक
द्रव्य, वृक्ष, सुवर्ण, अग्नि, विष, युद्ध में शूर, ओषधी, वैद्य, चतुष्पद पशु, किसान, राजा,
क्रूर, संग्राम में जीतने की इच्छा रखने वाले, चोर, सर्प, निर्जन स्थान, यशस्वी, तीक्ष्ण
( निम्ब आदि या जन )—इन सबों के स्वामी सूर्य हैं॥१-५॥
नर्मदानाम्नी नदी तस्याः प्रागर्द्धः पूर्वभागः। शोणो नदः। उड्रा जनाः। वङ्गाः। सुह्माः।
कलिङ्गाः। वाह्लीकाः। शकाः। यवनाः। मगधाः। शबराः। प्राग्ज्योतिषाः। चीनाः। काम्बोजाः।
मेकलाः। किराताः। विटकाः। बहिरन्तःशैलजाः। शैलाः पर्वतास्तत्र ये बहिः बाह्य-
भागे जाताः समवस्थिताः, अन्तः पर्वतमध्ये ये जाताः। पुलिन्दा जनाः। चशब्दः सर्वत्र
समुच्चये। तथा द्रविडानां जनानां प्रागर्द्धं पूर्वार्द्धम्। यमुना कालिन्दी नदी तस्या दक्षिण-
कूलम्।
चम्पो देशः। उदुम्बरः। कौशाम्बी नगरी। चेदयो जनाः। विन्ध्याटवी विन्ध्यमध्यम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहभक्तियोगाध्यायः २७९
कलिङ्गाः। पुण्ड्रा जनाः। गोलाङ्गूलाः। श्रीपर्वतः। वर्द्धमानम्।
इक्षुमतीनाम्नी नदी। इतिशब्दः प्रकारे। अथानन्तरम्। तस्करो देशो जना वा। पारता
जनाः। कान्तारमटवी। गोपा गोपालकाः। बीजानि प्रसिद्धानि। तुषधान्यं शालयः। कटुकं
द्रव्यं मरिचादि। तरवो वृक्षाः। कनकं सुवर्णम्। दहनोऽग्निः। विषं महौषधम्। समरशूराः
संग्रामवीराः।
भेषजमौषधम्। भिषजो वैद्याः। चतुष्पादाः पशवः। कृषिकराः कार्षकाः। नृपा राजानः।
हिंस्राः पापाः। यायिनो विजिगमिषवः। चौरास्तस्कराः। व्यालाः सर्पाः। अरण्यं निर्जनो
देशः। यशोयुता यशस्विनः। तीक्ष्णं निम्बादि, तीक्ष्णा वा जनाः। एषां सर्वेषां भास्कर
आदित्यः स्वामी प्रभुरिति। तथा च काश्यपः—
प्रागर्द्धं नर्मदायाश्च शोणः शबरमागधाः।
उड्रा वङ्गा कलिङ्गाश्च बाह्लीका यवनाः शकाः।।
काम्बोजा मेकलाः सुह्माः प्राग्ज्योतिषकिरातकाः।
चीनाः सर्वे सुशैलेयाः पार्वता बहिरन्तजा
यमुनाया याम्यकूलं कौशाम्ब्यौदुम्बराणि ..
विन्ध्याटवी च पुण्ड्राश्च वर्द्धमानाश्च पर्वताः।।
श्रीपर्वतश्चेदिपुरं गोलाङ्गूलं तथैव च।
इक्षुमत्याश्रिता ये च जनाः शूराः मदोत्कटाः।।
कान्तारमथ गोपाश्च कन्दरास्तस्करास्तथा।
समरे विषमाः शूरास्तरवः कटुका अपि।।
चतुष्पदा भेषजं च धान्यं वा भिषजस्तथा।
अरण्यवासिव्यालाश्च कार्षका बालकास्तथा।।
गौरपत्यं च किञ्जल्कं पुंसंज्ञा ये च जन्तवः।
सर्वेषां भास्करः स्वामी तेजस्तेजस्विनामपि।। इति।।१-५।।
अथ चन्द्रस्याह—
गिरिसलिलदुर्गकोशलभरुकच्छसमुद्ररोमकतुषाराः ।
वनवासितङ्गणहलस्त्रीराज्यमहार्णवद्वीपाः ॥६॥
मधुररसकुसुमफलसलिललवणमणिशङ्खमौक्तिकाब्जानाम् ।
शालियवौषधिगोधूमसोमपाकन्दविप्राणाम् ॥७॥
सितसुभगतुरंगरतिकरयुवतिचमूनाथभोज्यवस्त्राणाम् ।
शृङ्गिनिशाचरकार्षकयज्ञविदां चाधिपश्चन्द्रः ॥८॥
पर्वतदुर्ग, जलदुर्ग, कोशल देशवासी मनुष्य, भरुकच्छ, समुद्र, रोमक, तुषार, वनवासी
तङ्गण, हल, स्त्रीराज्य, महासागर के अन्तर्गत द्वीप, मधुर रस, सभी पुष्प और फल, जल,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२८० बृहत्संहिता
नमक, मणि, शङ्ख, मोती, जल से उत्पन्न होने वाली वस्तु ( कमल आदि ), धान्य, यव,
ओषधी, गेहूँ, सोमरस पीने वाले मनुष्य, आक्रन्द ( पार्श्व रक्षकों के अन्तर्गत राज ),
ब्राह्मण, श्वेत वर्ण की सभी वस्तुयें, सभी जनों का प्रिय, अश्व, कामी, स्त्री, सेनापति,
भोजनसामग्री, वस्त्र, शृङ्गी पशु, निशाचर, किसान, याज्ञिक—इन सबों के स्वामी चन्द्र
nQ|६-८।।
गिरिदुर्गं पर्वतदुर्गम्। सलिलदुर्गं जलदुर्गम्। कोशला जनाः। भरुकच्छाः। समुद्राः
सागराः। रोमकाः। तुषाराः। वनवासिनः। तङ्गणाः। हलाः। स्त्रीराज्यम्। महार्णवद्वीपा
वडवामुखद्वीपाः।
मधुररसं यत्किञ्चित् कुसुमानि फलानि सर्वाणि। सलिलं जलम्। लवणं सैन्धवम्।
मणयः। शङ्खः। मौक्तिकम्। अब्जाः सलिलसम्भवाः पद्मप्रभृतयः। शालयो धान्यानि।
यवाः। औषधयः। गोधूमाः। सोमपा याज्ञिकाः। आक्रन्दः पार्ष्णिग्राहान्तरितो राजा।
विप्रा ब्राह्मणाः।
सितं श्वेतवर्णं यत्किञ्चित् रूप्यं वा। सुभगाः सर्वजनप्रियाः। तुरगा अश्वाः। रतिकराः
कामिनः। युवतयः स्त्रियः। चमूनाथाः सेनापतयः। भोज्यं प्रसिद्धम्। वस्त्राण्यम्बराणि।
शृङ्गणः प्रसिद्धाः प्राणिनः। निशाचरा रात्रिचराः। कार्षकाः कृषिकाराः। यज्ञविदो यज्ञसूत्रज्ञाः।
एतेषां चाधिपश्चन्द्रः शशी। तथा च काश्यपः—
पर्वता जलदुर्गाश्च कोशलास्तङ्गणा हलाः।
स्त्रीराज्यं भरुकच्छश्च तुषारा वनवासिनः।।
मौक्तिकं मणिशङ्खाब्जमौषधं कुसुमं फलम्।
द्वीपा महार्णवे ये च मधुरा लवणादयः।।
गोधूमाः शालयः शृङ्गिकार्षकाश्च यवा अपि।
सोमपा ब्राह्मणा ये च यज्ञज्ञास्तु सुरासवम्।।
स्त्रीसौभाग्यसमेताश्च लास्यहास्येक्षितानि च।
निशाचराधिपश्चन्द्रो हृष्टानां च प्रकीर्तितः।। इति।।६-८।।
अथ भौमस्याह—
शोणस्य नर्मदाया भीमरथायाश्च पश्चिमाद्धॆस्थाः।
निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ।।९।।
मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः।
उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः ।।१०।।
द्रविडविदेहान्ध्राश्मकभासापरकौङ्कणाः समन्त्रिशिकाः।
कुन्तलकेरलदण्डककान्तिपुरमलेच्छसङ्करिणः ।।११।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहभक्तियोगाध्यायः २८१
( नासिक्यभोगवर्धनविराट्विन्ध्याद्रिपार्श्वगा देशाः ।
ये च पिबन्ति सुतोयां तापीं ये चापि गोमतीसलिलम् ॥ )
नागरकृषिकरपारतहुताशनाजीविशस्त्रवार्तानाम् ।
आटविकदुर्गकर्वटवधिकनृशंसावलिप्तानाम् ॥१२॥
नरपतिकुमारकुञ्जरदाम्भिकडिम्भाभिघातपशुपानाम् ।
रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम् ॥१३॥
कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् ।
शठदीर्घवैरबह्वाशिनां च वसुधासुतोऽधिपतिः ॥१४॥
शोण, नद, नर्मदा नदी और भीमरथा नदी के पश्चिम भाग में स्थित देश, निर्विन्ध्या,
वेत्रवती, सिप्रा, गोदावरी, वेणा, गंगा, पयोष्णी, सिन्धु, मालती और पारा नदी, उत्तर
पाण्ड्य, महेन्द्र पर्वत, विन्ध्याचल और मलयगिरि के समीपगत देश, चोल, द्रविड, विदेह,
अन्ध्र, अश्मक, भासापर, कौङ्कण, समन्त्रिषिक, कुन्तल, केरल, दण्डकारण्य, कान्तिपुर,
म्लेच्छ, सङ्कर जाति, ( नासिक्य, भोगवर्द्धन, तर्कराट, विन्ध्याचल के समीपस्थ देश,
तापी और गोमती नदी के मधुर जल पीने वाले ) नागर जन, किसान, पारत, अग्निहोत्री,
सोनार, शस्त्र से आजीविका चलाने वाले, वनवासी, दुर्ग, कर्वटदेशवासी जन, वधिक,
पापी, कामों में असंलग्न, राजा, बालक, हाथी, दाम्भिक, बालकों को मारने वाले, पशुपालक,
रक्त फल, रक्त पुष्प, प्रवाल, सेनापति, गुड, मदिरा, तीक्ष्ण ( निम्ब आदि ), कोश, भवन,
अग्निहोत्री, धातुओं की खान, शाक्य ( रक्तपट ), भिक्षु, चोर, शठ ( परकार्य से विमुख ),
दृढ़द्वेष, अधिक भोजन—इन सबों का स्वामी मङ्गल है ॥९-१४॥
शोणो नदः। नर्मदा नदी। भीमरथा च नद्येव। शोणस्य तथा नर्मदाया भीमरथायाश्च
ये पश्चिमादर्द्धास्था पश्चिमभागे समवस्थिता देशाः। तथा निर्विन्ध्या नदी। वेत्रवती। सिप्रा।
गोदावरी। वेणा।
मन्दाकिनी गङ्गा। पयोष्णी महानदी। सिन्धुमालतीपारा एताः सर्वा एव नद्यः। उत्तर-
पाण्ड्या जनाः। महेन्द्राद्रिर्महेन्द्रपर्वत एव। विन्ध्यो मलयश्च। एतेषु ये उपगाः समीप-
स्थिता जनाः। तथा चोला जनाः।
द्रविडाः। विदेहाः। अन्ध्राः। अश्मकाः। भासापराः। कौङ्कणाः। समन्त्रिषिकाः।
कुन्तलाः। केरलाः। दण्डकं दण्डकारण्यम्। कान्तिपुरम्। म्लेच्छाः। सङ्करिणः सङ्करजातयः।
नागरा जनाः। कृषिकराः कार्षकाः। पारताः। हुताशनाजीविनः सुवर्णकारप्रभृतयः।
शस्त्रवार्ताः शस्त्रवृत्तयः। आटविका अटव्यां ये निवसन्ति। दुर्गः कोटः। कर्वटा जनाः।
वधिका वधरताः। नृशंसाः पापाः। अवलिप्ताः कार्येष्वस्थिराः।
नरपतयो राजानः। कुमारा बालकाः। कुञ्जरा हस्तिनः। दाम्भिका दम्भरता मिथ्या-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२८२ बृहत्संहिता
ध्वजधर्मिणः। डिम्भाभिघातः। अशस्त्रः कलहो डिम्भस्तत्राभिघातः। अथवा डिम्भानां
बालानां योऽभिघातं करोति। पशुपः पशुपालः। रक्तं लोहितवर्णं यत्किञ्चित् फलम्।
रक्तं च कुसुमम्। विद्रुमाः प्रवालकाः। चमूपः सेनापतिः। गुड इक्षुविकारः। मद्यं मदिरा।
तीक्ष्णं निम्बादि।
कोशभवनं भाण्डगृहम्। अग्निहोत्रिका अग्निहोत्रसेविनः। धात्वाकरो धातूनां
गैरिकादीनामाकरः स्थानं सुवर्णादीनां वा। शाक्यो रक्तपटकः। भिक्षुर्यतिः। चौरस्तस्करः।
शठः परकार्यविमुखः। दीर्घवैरो दृढद्वेषः। बहाशी बहुभुक्। एतेषां सर्वेषां वसुधासुतो-
ऽङ्गारकोऽधिपतिः स्वामी। तथा च काश्यपः—
महेन्द्रविन्ध्यमलयाः सिप्रा वेणा महानदी ।
गोदावर्या नर्मदाया भीमायाः पश्चिमा दिशः ।।
चेदिकाः कौङ्कणा दुर्गा द्रविडा वेत्रवन्नदी ।
मन्दाकिनी पयोष्णी च मालती सिन्धुपारकाः ।।
पाण्ड्याश्चोत्तरदेशस्था विदेहान्ध्राश्मकास्तथा ।
भासापराः कुन्तलाश्च केरला दण्डकास्तथा ।।
नागराः पौरवाश्चैव कार्षकाः शस्त्रवृत्तयः ।
हुताशनाजीविनो ये कुञ्जराः पशुपास्तथा ।।
सांग्रामिका नृशंसाश्च सङ्कराश्चोपघातकाः ।
कुमारा भूमिसज्योक्ता दाम्भिकास्तस्करास्तथा ।। इति ।। ९-१४ ।।
अथ बुधस्याह—
लोहित्यः सिन्धुनदः सरयूग्गम्भीरिका रथाख्या च ।
गङ्गाकौशिक्याद्याः सरितो वैदेहकाम्बोजाः ।। १६ ५ ।।
मथुरायाः पूर्वार्द्धं हिमवद्गोमन्तचित्रकूटस्थाः ।
सौराष्ट्रसेतुजलमार्गपण्यबिलपर्वताश्रयिणः ।। १६ ६ ।।
उदपानयन्त्रगान्धर्वलेख्यमणिरागगन्धयुक्तिविदः ।
आलेख्यशब्दगणितप्रसाधकायुष्यशिल्पज्ञाः ।। १६ ७ ।।
चरपुरुषकुहकजीवकशिशुकविशठसूचकाभिचाररताः ।
दूतनपुंसकहास्यज्ञभूततन्त्रेन्द्रजालज्ञाः ।। १६ ८ ।।
आरक्षकनटनर्तकघृततैलस्नेहबीजतिक्तानि ।
व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य ।। १६ ९ ।।
लोहित्य और सिन्धु नद, सरयू, गाम्भीरिका, रथाख्या, गङ्गा, कौशिकी, विपाशा,
सरस्वती और चन्द्रभागा नदी, मथुरा के पूर्वार्ध भाग, हिमालय पर्वत, गोमन्त पर्वत और
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहभक्तियोगाध्यायः २८३
चित्रकूट पर्वत के प्रान्त में स्थित मनुष्य, सौराष्ट्र देश स्थित मनुष्य, सेतु (पुल) के
आश्रय में रहने वाले, जलमार्ग के आश्रय में रहने वाले, पण्यवृत्ती, बिल में निवास करने
वाले, पर्वत पर रहने वाले, वापी, कूप, तड़ाग आदि, यन्त्र को जानने वाले, गान विद्या
जानने वाले, लेखक, मणि के लक्षण को जानने वाले, रंगरेज, सुगन्धि द्रव्य बनाने वाले,
चित्रकार, वैयाकरण, ज्योतिषी, आयुष्य (रसायन-वाजीकरण आदि को जानने वाले),
शिल्पी, गुप्तचर, कुहक (प्रसेन आदि के दर्शन से जीवनयात्रा चलाने वाले), बालक,
कवि, शठ (परोपकार से विमुख), चुगलखोर, अभिचार (वशीकरण, उच्चाटन, विद्वेषण,
मारण आदि को जानने वाले), दूत, नपुंसक, हँसी उड़ाने वाले, भूत-प्रेत के तन्त्र को
जानने वाले, इन्द्रजाल को जानने वाले, रक्षक, नाचने वाले, घृत, तेल, स्नेह (तिल-
अक्षोट आदि), बीज, तिक्त (निम्बादि), व्रती (ब्रह्मचारी आदि), रसायन को जानने
वाले, वेसर (अश्वविशेष)—इन सबों का स्वामी बुध है॥१५-१९॥
लोहित्यो नदः। सिन्धुनदश्च। सरयूर्नदी गाम्भीरिका रथाख्या च। गङ्गा जाह्नवी।
कौशिकी। आदिग्रहणाद्विपाशा सरस्वती चन्द्रभागा च ज्ञेया। एताः सरितो नद्यः। वैदेहा
जनाः। काम्बोजा जनाः।
मथुरायाः पूर्वमर्द्धम्। हिमवान् पर्वतः। गोमन्तो गोमिनः पर्वतो वा। चित्रकूटश्च
पर्वतः। एतेषु ये स्थिता जनाः। सौराष्ट्रा जनाः। सेत्वाश्रयिणः सेतुगामिनः। जलमार्गाश्रयिणो
जलमार्गेण ये गच्छन्ति। पण्याश्रयिणः पण्यवृत्तयः। बिलाश्रयिणो बिलनिवासिनः।
पर्वताश्रयिणः पर्वतवासिनः।
उदपानं वापीकूपतडागादि। यन्त्रविदो यन्त्रज्ञाः। गान्धर्वविदो गेयज्ञाः। लेख्यविदो
लेख्यज्ञाः। मणिविदो मणिलक्षणज्ञाः। रागयुक्तिविदो रागो रञ्जनं तद्युक्तिज्ञाः। गन्धयुक्ति-
विदो गन्धयुक्तिज्ञाः। आलेख्यं चित्रकर्म तज्ज्ञाः। शब्दज्ञा वैयाकरणाः। गणितज्ञाः। एषां
प्रसाधका निरताः। आयुषो हितमायुष्यं रसायनवाजीकरणादि तज्ज्ञाः। शिल्पज्ञास्तक्षककार-
लेखकलेपकरकुम्भकारायस्कारकर्मविदः।
चरपुरुषा गूढार्थवेदिनः। कुहकजीवकाः कुहकेनाद्भुतेन प्रसेनादिदर्शनेन ये जीवन्ति।
शिशुर्बालः। कविः काव्यकर्ता। शठः परकार्यविमुखः। सूचकः पिशुनः। अभिचारो वश्यो-
च्चाटनविद्वेषणमारणादिकस्तत्र ये रताः। दूता गमागमिनः। नपुंसकाः क्लीबाः। हास्यज्ञा
उपहासकुशलाः। भूततन्त्रज्ञाः। इन्द्रजालज्ञाः।
आरक्षको रक्षाधिकृतः। नटाः प्रसिद्धाः। नर्तको नर्तनं शिल्पमस्य स नर्तकः।
घृतमाज्यम्। तैलं प्रसिद्धम्। स्नेहस्तिलाक्षोटादि। बीजानि प्रसिद्धानि। तिक्तं निम्बादि।
व्रतचारिणो ब्रह्मचारिप्रभृतयः। रसायनकुशला रसायनसाधने शक्ताः। वेसरा अश्वविशेषाः।
एते सर्वे चन्द्रपुत्रस्य बुधस्य। तथा च काश्यपः—
चित्रकूटगिरी रम्यो हिमवान् कौशिकी तथा।
मथुरायाश्च पूर्वार्द्धं लोहित्यः सिन्धुरेव च।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२८४ बृहत्संहिता
गाम्भीरिका च सरयू रथाख्या गण्डकी नदी।
गान्धर्वा लेखहाराश्च तथोदाराश्च कृत्रिमाः॥
वैदेहाः सर्वजलजाः काम्बोजाश्च सुराष्ट्रिकाः।
गन्धयुक्तिविदो ये च सौगन्धिपदलेपनाः॥
सुवर्णरजतं रत्नं मातङ्गतुरगादि यत्।
पौरा जनपदाः सौम्याः सोमपुत्रवशे स्थिताः॥ इति॥१५-१९॥
अथ गुरोराह—
सिन्धुनदपूर्वभागो मथुरापश्चार्द्धभरतसौवीराः।
स्रुघ्नौदीच्यविपाशासरिच्छतद्रू रमठशाल्वाः॥२०॥
त्रैगर्तपौरवाम्बष्ठपारता वाटधानयौधेयाः।
सारस्वतार्जुनायनमत्स्यार्द्धग्रामराष्ट्राणि ॥२१॥
हस्त्यश्वपुरोहितभूपमन्त्रिमाङ्गल्यपौष्टिकासक्ताः ।
कारुण्यसत्यशौचव्रतविद्यादानधर्मयुताः ॥२२॥
पौरमहाधनशब्दार्थवेदविदुषोऽभिचारनीतिज्ञाः ।
मनुजेश्वरोपकरणं छत्रध्वजचामराद्यं च॥२३॥
शैलेयकुष्ठमांसीतगररससैन्धवानि वल्लीजम्।
मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य॥२४॥
सिन्धु नद के पूर्व भाग, मथुरा के पश्चिमार्द्ध, भरत, सौवीर, स्रुघ्न, उत्तर दिशा में रहने
वाले, विपाशा नदी, शतद्रू नदी, रमठ, शाल्व, त्रैगर्त, पौरव, अम्बष्ठ, पारत, वाटधान,
यौधेय, सारस्वत, अर्जुनायन और मत्स्य देशों के ग्राम और राष्ट्र का आधा भाग, हाथी,
घोड़ा, पुरोहित, राजा, मन्त्री, मङ्गल कार्य ( विवाह, उपनयन आदि ) में सक्त, पौष्टिक
कार्य में संलग्न, दयालु, सत्य भाषण करने वाले, शौचयुत ( शुद्ध = दूसरे के धनादि को
नहीं चाहने वाले ), तपस्वी, विद्वान्, दानी, धर्मी, ग्राम में उत्पन्न होने वाले, वैयाकरण,
अर्थ को जानने वाले, वेद को जानने वाले, अभिचारज्ञ, नीतिशास्त्र को जानने वाले, राजा
के उपकरण ( आयुध, सन्नाह आदि ), छत्र, ध्वजा, चामर आदि, सुगन्ध द्रव्य, कुष्ठ,
मांसी, तगर, रस ( बोल ), नमक, मूंग आदि, मधुर रस, मधूच्छिष्ट (सिक्थक =
मोम ), चोरक, सुगन्ध द्रव्य—इन सबों का स्वामी गुरु है॥२०-२४॥
सिन्धुनदस्य पूर्वभागः। मथुरायाः पश्चार्द्धम्। भरता जनाः। सौवीराः। स्रुघ्नो देशः।
औदीच्या उत्तरदिङ्निवासिनो जनाः। विपाशा सरिन्नदी। शतद्रूः। रमठा जनाः। शाल्वाः।।
त्रैगर्ताः। पौरवाः। अम्बष्ठाः। पारताः। वाटधानाः। यौधेयाः। सारस्वताः। अर्जुना-
यनाः। मत्स्या जनास्तद्विषयाद् ग्रामराष्ट्राद्धम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहभक्तियोगाध्यायः २८५
हस्ती। अश्वस्तुरगः। पुरोहितो नृपाचार्यः। भूपो राजा। मन्त्री सचिवः। मङ्गलकार्येषु
विवाहोपनयनादिषु पौष्टिकेषु य आसक्ता रताः। कारुण्ययुता अनुकम्पाशीलाः। सत्ययुताः
सत्यभाषिणः। शौचयुताः शौचरताः परधनादिष्वलुब्धाः। व्रतयुतास्तपस्विनः। विद्यायुताः।
दानयुताः। धर्मयुताः।
पौराः पुरे भवाः। महाधना ईश्वराः। शब्दविदुषो वैयाकरणाः। अर्थविदुषः पण्डिताः।
वेदविदुषो वेदज्ञाः। अभिचारज्ञाः। नीतिज्ञा नीतिशास्त्रविदः। मनुजेश्वरोपकरणं मनुजेश्वरो
राजा तदुपकरणमायुधसन्नाहादि। छत्रमातपत्रम्। ध्वजो बहुपटविनिर्मितं चिह्नम्। चामरं
बालव्यजनम्। आदिग्रहणात्तालवृन्तादिकम्।
शैलेयं सुगन्धद्रव्यम्। कुष्ठम्। मांसीतगरम्। रसं वोलम्। सैन्धवं लवणम्। वल्लींजं
मुद्गादि। मधुरा ये च रसाः। मधूच्छिष्टं सिक्थकम्। चोरकं सुगन्धद्रव्यम्। एते सर्व
एव जीवस्य गुरोः। तथा च काश्यपः—
त्रैगर्तसिन्धुसौवीराः शतद्रूमथुरे अपि।
स्रुघ्नौदीच्यविपाशाश्च पारताम्बष्ठकास्तथा।।
राजा पुरोहितो मन्त्री माङ्गल्यं पौष्टिकं व्रतम्।
कारुण्यं कर्म सिद्धानां विद्याशौचतपस्विनाम्।।
मत्स्याश्च वाटधानाश्च यौधेयाश्चार्जुनायनाः।
सारस्वताश्च रमठा हस्त्यश्वध्वजचामराः।।
शब्दार्थविदुषः पौरा नीतिज्ञाः शीलसंयुताः।
मांसीतगरकुष्ठं च शैलेयं लवणं रसाः।।
मधुरस्वादवल्लींजं विप्राणां चाधिपो गुरुः। इति।।२०-२४।।
अथ शुक्रस्याह—
तक्षशिलमर्तिकावतबहुगिरिगान्धारपुष्कलावटकाः। ।
प्रस्थलमालवकैकयदाशार्णोशीनराः शिबयः॥२५॥
ये च पिबन्ति वितस्तामिरावतीं चन्द्रभागसरितं च।
रथरजताकरकुञ्जरतुरगमहामात्रधनयुक्ताः ॥२६॥
सुरभिकुसुमानुलेपनमणिवज्रविभूषणाम्बुरुहशय्याः।
वरतरुणयुवतिकामोपकरणमृष्टान्नमधुरभुजः ॥२७॥
उद्यानसलिलकामुकयशःसुखौदार्यरूपसम्पन्नाः। ।
विद्वदमात्यवणिग्जनघटकृच्चित्राण्डजास्त्रिफलाः ॥२८॥
कौशेयपट्टकम्बलपत्रोर्णिकरोध्रपत्रचोचानि ।
जातीफलागुरुवचापिप्पल्पश्चन्दनं च भृगोः॥२९॥
२८६ बृहत्संहिता
तक्षशिला नगरी, मार्तिकावत देश, बहुगिरि, गान्धार, पुष्कलावतक, प्रस्थल, मालव,
कैकय, दशार्ण, उशीनगर, शिवि, वितस्ता, ऐरावती और चन्द्रभागा नदी के जल पीने
वाले, रथ, चान्दी, आकर ( अर्थोत्पत्ति स्थान ), हाथी, घोड़ा, महामात्र ( हस्ती के
अधिप ), धनी, सुगन्ध द्रव्य, पुष्प, चन्दन, मणि ( पद्मराग आदि ), वज्र ( हीरक ),
भूषण, अम्बुरुह ( कमल आदि ), शय्या, प्रधान, युवा, स्त्री, कामोपकरण ( पुष्प, धूप,
माला, चन्दन आदि ), मृष्ट ( शोधित ) अन्न का भोजन करने वाले, मधुर भोजन करने
वाले, उद्यान, जल, कामी, यशस्वी, सुखी, दाता, सुन्दर, विद्वान्, मन्त्री, क्रय-विक्रय से
जीवनयात्रा चलाने वाले, कुम्भार, चित्राण्डज ( नाना प्रकार के पक्षी ), फलत्रय ( एला,
लवङ्ग, कक्कोल ), कौशेयपट ( नेत्रपट ), कम्बल, पत्रोर्णिक ( धौतकौशेय ), रोध्र
( एक प्रकार का सुगन्ध द्रव्य ), पत्र ( सुगन्ध पत्र ), चोच ( नारिकेल ), जातीफल
( जायफल ), अगुरु, वचा ( वच ), पिप्पली ( पीपल ), चन्दन—इस सबों का स्वामी
शुक्र है।।२५-२९।।
तक्षशिला नगरी। मार्त्तिकावतो देशः। बहुगिरिः। गान्धारा जनाः। पुष्कलावतको
देशः। प्रस्थलाः। मालवाः। कैकयाः। दशार्णाः। उशीनराः। शिबयः।
ये च पिबन्ति वितस्तां नदीम्। तथैरावतीं ये च पिबन्ति। चन्द्रभागसरितं चन्द्रभागां
सरितं ये च पिबन्ति। रथा गन्त्यः। रजतं रूप्यम्। आकरमर्थोत्पत्तिस्थानम्। कुञ्जरा
हस्तिनः। तुरगा अश्वाः। महामात्रा हस्त्यधिपतयः। धनयुक्ता ईश्वराः।
सुरभिः सुगन्धद्रव्यम्। कुसुमानि पुष्पाणि। अनुलेपनं समालम्भनम्। मणयः
पद्मरागप्रभृतयः। वज्रं हीरकम्। विभूषणान्यलङ्करणानि। अम्बुरुहः पद्मादि। शय्या आस्त-
रणम्। वराः प्रधानाः। तरुणा यौवनोपेताः। युवतयः स्त्रियः। कामोपकरणं मदनोपयोग्यं
यद्वस्तु पुष्पधूपमाल्यानुलेपनादि। मृष्टान्नभुजो ये नराः। तथा मधुरभुजः।
उद्यानमुपवनम्। सलिलं जलम्। कामुकाः कामिनः। यशःसम्पन्ना यशस्विनः।
सुखसम्पन्नाः सुखिनः। औदार्यसम्पन्ना दातारः। रूपसम्पन्नाः सुरूपाः। विद्वांसः पाठकाः।
अमात्या मन्त्रिणः। वणिग्जनाः क्रयविक्रयजीविनः। घटकृत् कुम्भकारः। चित्राण्डजा
नानाप्रकाराः पक्षिणः। त्रिफलाः फलत्रयमेलालवङ्गकक्कोला इति।
कौशेयपट्टो लोके नेत्रपट्ट इति प्रसिद्धः। कम्बल और्णिकः। पत्रोर्णिकं धौतकौशेयम्।
रोध्रं प्रसिद्धं सुगन्धद्रव्यम्। पत्रं सुगन्धपत्रम्। चोचं मलिनपत्रं नारिकेलं च। जातीफलं
प्रसिद्धम्। अगुरु सुगन्धद्रव्यम्। वचा प्रसिद्धा। पिप्पल्यः कणाः। चन्दनं मलयजम्।
एतद् भृगोः शुक्रस्य। तथा च काश्यपः—
चन्द्रभागां वितस्तां चैरावतीं च पिबन्ति ये।
पुष्करावतकैकया गान्धारप्रस्थलास्तथा।।
दशार्णा मालवास्तक्षशिला मौक्तिकमेष च।
धनाढ्याः कुञ्जरा अश्वाः प्रस्थलं च विलेपनम्।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहभक्तियोगाध्यायः २८७
सुरूपसुभगोद्यानकामुकाः कामचारिणः।
वेसरा मधुरा हृद्याः सलिलाशयजीविनः।।
तरुणा योषितः क्रीडाविदुषो जनगोष्ठिकाः।
चित्राण्डजाश्च कौशेयं पत्रोर्णं काशिकौशिकाः।।
पिप्पल्यश्चन्दनं जातीफलमामलकानि च।
गन्धपत्रस्य लोध्रस्य शुक्रश्चाधिपतिः स्मृतः।। इति।।२५-२९।।
अथ शनैश्चरस्याह—
आनर्ताबुर्दपुष्करसौराष्ट्राभीरशूद्ररैवतकाः ।
नष्टा यस्मिन् देशे सरस्वती पश्चिमो देशः ॥३०॥
कुरुभूमिजाः प्रभासं विदिशा वेदस्मृती महीतटजाः ।
खलमलिननीचतैलिकविहीन सत्त्वोपहतपुंस्त्वः ॥३१॥
बान्धनशाकुनिकाशुचिकैवर्तविरूपवृद्धसौकरिकाः ।
गणपूज्यस्खलितव्रतशबरपुलिन्दार्थपरिहीनाः ॥३२॥
कटुतिक्तरसायनविधवयोषितो भुजगतस्करमहिष्यः ।
खरकरभचणकवातलनिष्पावाश्चार्कपुत्रस्य ॥३३॥
आनर्त, अर्बुद, पुष्कर, सौराष्ट्र, आभीर, शूद्र, रैवतक, सरस्वती नदी जहाँ पर अलक्षित
हुई है—वह प्रदेश ( पश्चिम प्रदेश ), कुरुभूमि में उत्पन्न मनुष्य ( स्थानेश्वर में निवास
करने वाले ), प्रभास क्षेत्र, विदिशा नगरी, वेदस्मृती नदी, मही नदी के तट में उत्पन्न
मनुष्य, खल, मलिन, नीच, तेली, निर्बल, नपुंसक, बन्धन-स्थानस्थित, पक्षियों को मारने
वाले, अशुचि में रत ( अपवित्र ), धीवर, कुरूप, वृद्ध, सूअर पालने वाले ( डोम ),
सङ्घियों में प्रधान, नियम को नहीं पालन करने वाले, शबर, पुलिन्द ( म्लेच्छ जाति ),
दरिद्र, कटु द्रव्य ( मरीच आदि ), तिक्त ( निम्ब आदि ), रसायन, विधवा स्त्री, सर्प,
चोर, महिषी ( भैंस ), गदहा, ऊँट, चना, वातल ( मटर-राजमाष आदि ), धान्य—इन
सबों का स्वामी शनि है।।३०-३३।।
आनर्ता जनाः। आर्बुदाः। पुष्कराः। सौराष्ट्राः। आभीराः। शूद्राः। रैवतकाः। यस्मिन्
देशे सरस्वती नष्टा अदर्शनं गता। स पश्चिमो देशः।।
कुरुभूमिजा जनाः। स्थानेश्वरे ये निवसन्ति। प्रभासं स्थानम्। विदिशा नगरी।
वेदस्मृती नदी। महीनदीतटे ये जाताः। खला दुर्जनाः। मलिना मलोपेताः। नीचा अध-
मकर्मकराः। तैलिकाः प्रसिद्धाः। विहीन सत्त्वा निःसत्त्वाः। उपहतपुंस्त्वा उपहतो नष्टः
पुम्भावो येषां षण्ढप्राया इत्यर्थः।
बन्धना बन्धनपाला बन्धनस्थाश्च। शाकुनिकाः पक्षिघातकाः। अशुचिरताः। कैवर्ता
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२८८ बृहत्संहिता
नाविका धीवराश्च। विरूपा दुराकृतयः। वृद्धाः स्थविराः। सौकरिकाः सूकरबन्धकाः।
गणपूज्या गणप्रधानाः। स्खलितव्रताश्चलितनियमाः। शबरा जनाः। पुलिन्दाश्च। अर्थ-
परिहीना दरिद्राः।
कटुद्रव्यं मरिचादि। तिक्तं निम्बादि। रसायनं प्रसिद्धम्। विधवयोषितो भर्तृहीनाः
स्त्रियः। भुजगाः सर्पाः। तस्कराश्चौराः। महिष्यः प्रसिद्धाः। खराः गर्दभाः। करभा उष्ट्राः।
चणकाः प्रसिद्धाः। वातला राजमाषप्रभृतयः। निष्पावाः शालयः। एते सर्व एव अर्कपुत्रस्य
शनैश्चरस्य। तथा च काश्यपः—
अर्बुदो रैवतगिरिः सौराष्ट्राभीरकास्तथा।
सरस्वतीपश्चिमाशा प्रभासं कुरुजाङ्गलम्।।
आनर्तशूद्रा विदिशा खलतैलिकनीचकाः।
वेदस्मृती सौकरिकाः मलिनश्च महीतटम्।।
दुःशीलशाकुना हीनाः पशुबन्धनकास्तथा।
पाखण्डिनश्च वैतण्डा निर्ग्रन्थाः शबराः कृशाः।।
विरूपाः कटुतिक्तानि रसायनविषादिनः।
पुलिन्दास्तस्कराः सर्पा महिषोष्ट्रखराः शुनी।।
चणका वातला वल्लाः पुंस्त्वसत्त्वविवर्जिताः।
काकगृध्रशृगालानां वृकाणां च प्रभुः शनिः।। इति।।३०-३३।।
अथ राहोराह—
गिरिशिखरकन्दरदरीविनिविष्टा म्लेच्छजातयः शूद्राः।
गोमायुभक्षशूलिकवोक्काणाश्वमुखविकलाङ्गा ।।३४।।
कुलपांसनहिंस्रकृतघ्नचौरनिःसत्यशौचदानाश्च ।
खरचरनियुद्धवित्तीव्ररोषगर्त्ताश्रया नीचाः।।३५।।
उपहतदाम्भिकराक्षसनिद्राबहुलाश्च जन्तवः सर्वे।
धर्मेण च सन्त्यक्ता माषतिलाश्चार्कशशिशत्रोः।।३६।।
पर्वत के शिखर, कन्दरा (पर्वतीय निम्न स्थान) और दरी (गुहा) में रहने वाले,
म्लेच्छ जाति, शूद्र, सियार को खाने वाले, शूलिक, वोक्काण, अश्वमुख, अङ्गहीग मनुष्य,
कुल में कलङ्क लगाने वाले, क्रूर, कृतघ्न (उपकार को नहीं मानने वाले), चोर, मिथ्या
व्यवहार करने वाले, शौचरहित, कृपण, गदहा, गुप्तचर, बाहुयुद्ध को जानने वाले, अति
क्रोधी, गर्त में रहने वाले, नीच, उपहत (कुत्सित पुरुष), मिथ्याधर्मी, राक्षस, अधिक
सोने वाले सभी जन्तु, धर्महीन, उड़द, तिल—इन सबों का स्वामी राहु है।।३४-३६।।
गिरिशिखरेषु पर्वतशृङ्गेषु। कन्दरेषु गिरिखातासु नीचस्थानेषु। दरीषु गुहासु च ये
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहभक्तियोगाध्यायः २८९
विनिविष्टाः स्थिता म्लेच्छजातय एकवर्णाः। शूद्राः। गोमायुभक्षाः शृगालादाः। शूलिका
जनाः। वोक्काणाः। अश्वमुखाः। विकलाङ्गा अङ्गहीनाः।
कुलपांसनाः कुलकलङ्ककारिणः। हिंस्राः क्रूराः। कृतघ्ना अनुपकारशीलाः।
चौरास्तस्कराः। निःसत्याः सत्यरहिताः। निःशौचाः शौचरहिताः। निर्दानाः कदर्याः।
खरा गर्दभाः। चराश्चरपुरुषाः। नियुद्धविदो बाहुयुद्धज्ञाः। तीव्ररोषा अतिक्रोधिनः। गर्तश्रया
गर्तस्थाः। नीचा अधमकर्मकराः।
उपहताः कुत्सिताः। दाम्भिका मिथ्याधर्मिणः। राक्षसा रक्षोजातयः। ये च निद्राबहुलाः
सर्व एव जन्तवः। धर्मेण च सन्त्यक्ता रहिताः। तथा माषतिलाः। एते सर्वे अर्कशशिशत्रो
राहोः। तथा च काश्यपः—
बुभुक्षितास्तीक्ष्णरोषा विभिन्नाः कुलपांसनाः।
नीचा म्लेच्छोत्सादकाश्च गर्तस्थाः पारदारिकाः।।
सत्यधर्मविहीनाश्च गिरिस्थाः कन्दराश्रिताः।
प्रतापसत्यहीनाश्च शृगालादा महाशनाः।।
तिलाश्च बाहुयुद्धज्ञा माषाश्चौराः खराश्वराः।
यज्ञान् हिंसन्ति ये नित्यं राहुस्तेषामधीश्वरः।। इति।।३४-३६।।
अथ केतोराह—
गिरिदुर्गपह्नवश्वेतहूणचोलावगाणमरुचीनाः ।
प्रत्यन्तधनिमहेच्छव्यवसायपराक्रमोपेताः ।।३७।।
परदारविवादरताः पररन्ध्रकुतूहला मदोत्सिक्ताः।
मूर्खाधार्मिकविजिगीषवश्च केतोः समाख्याताः ।।३८।।
गिरिदुर्ग, पह्नव, श्वेत, हूण, चोल, आवगाण, मरुभूमि, चीन, गुहा में निवास करने
वाले, धनी, महेच्छ (उदार), व्यवसायी, पराक्रमी, परस्त्रीगामी, विवादी, दूसरे का दोष
सुनने के लिये उत्कण्ठित, मत्त (पागल), मूर्ख, अधार्मिक, जीतने की इच्छा रखने
वाला—इन सबों का स्वामी केतु है।।३७-३८।।
गिरिदुर्गः पर्वतदुर्गः। पह्नवा जनाः। श्वेताः। हूणाः। चोलाः। आवगाणाः। मरुभूः।
चीनाः। प्रत्यन्ता गहरवासिनः। धनिन ईश्वराः। महेच्छा विपुलाशाः। व्यवसायोपेता
निपुणाः। पराक्रमोपेता बलिनः।
परदाररताः। विवादरताः। पररन्ध्रे कुतूहलो विस्मयो येषां ते पररन्ध्रकुतूहलाः।
मदोत्सिक्ता मत्ताः। मूर्खा अज्ञाः। अधार्मिका धर्मरहिताः। विजिगीषवो विजेतुमिच्छवः।
एते सर्व एव केतोः शिखिनः समाख्याता उक्ताः। तथा च काश्यपः—
प्राकाराभ्युच्छ्रिताः शृङ्गगिरिस्था विजिगीषवः।
प्रत्यन्तवासाभिरताः परच्छिद्रविशारदाः।।
बृ० भ० प्र०-१९
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२८८ बृहत्संहिता
नाविका धीवराश्च। विरूपा दुराकृतयः। वृद्धाः स्थविराः। सौकरिकाः सूकरबन्धकाः।
गणपूज्या गणप्रधानाः। स्खलितव्रताश्चलितनियमाः। शबरा जनाः। पुलिन्दाश्च। अर्थ-
परिहीना दरिद्राः।
कटुद्रव्यं मरिचादि। तिक्तं निम्बादि। रसायनं प्रसिद्धम्। विधवयोषितो भर्तृहीनाः
स्त्रियः। भुजगाः सर्पाः। तस्कराश्चौराः। महिष्यः प्रसिद्धाः। खराः गर्दभाः। करभा उष्ट्राः।
चणकाः प्रसिद्धाः। वातला राजमाषप्रभृतयः। निष्पावाः शालयः। एते सर्व एव अर्कपुत्रस्य
शनैश्चरस्य। तथा च काश्यपः—
अर्बुदो रैवतगिरिः सौराष्ट्राभीरकास्तथा।
सरस्वतीपश्चिमाशा प्रभासं कुरुजाङ्गलम्॥
आनर्तशूद्रा विदिशा खलतैलिकनीचकाः।
वेदस्मृती सौकरिकाः मलिनश्च महीतटम्॥
दुःशीलशाकुना हीनाः पशुबन्धनकास्तथा।
पाखण्डिनश्च वैतण्डा निर्ग्रन्थाः शबराः कृशाः॥
विरूपाः कटुतिक्तानि रसायनविषादिनः।
पुलिन्दास्तस्कराः सर्पा महिषोष्ट्रखराः शुनी॥
चणका वातला वल्लाः पुंस्त्वसत्त्वविवर्जिताः।
काकगृध्रशृगालानां वृकाणां च प्रभुः शनिः॥ इति॥३०-३३॥
अथ राहोराह—
गिरिशिखरकन्दरदरीविनिविष्टा म्लेच्छजातयः शूद्राः ।
गोमायुभक्षशूलिकवोक्काणाश्वमुखविकलाङ्गा ॥३४॥
कुलपांसनहिंस्रकृतघ्नचौरनिःसत्यशौचदानाश्च ।
खरचरनियुद्धवित्तीव्ररोषगर्त्ताश्रया नीचाः ॥३५॥
उपहतदाम्भिकराक्षसनिद्राबहुलाश्च जन्तवः सर्वे।
धर्मेण च सन्त्यक्ता माषतिलाश्रार्कशशिशत्रोः ॥३६॥
पर्वत के शिखर, कन्दरा (पर्वतीय निम्न स्थान) और दरी (गुहा) में रहने वाले,
म्लेच्छ जाति, शूद्र, सियार को खाने वाले, शूलिक, वोक्काण, अश्वमुख, अङ्गहीन मनुष्य,
कुल में कलङ्क लगाने वाले, क्रूर, कृतघ्न (उपकार को नहीं मानने वाले), चोर, मिथ्या
व्यवहार करने वाले, शौचरहित, कृपण, गदहा, गुप्तचर, बाहुयुद्ध को जानने वाले, अति
क्रोधी, गर्त में रहने वाले, नीच, उपहत (कुत्सित पुरुष), मिथ्याधर्मी, राक्षस, अधिक
सोने वाले सभी जन्तु, धर्महीन, उड़द, तिल—इन सबों का स्वामी राहु है॥३४-३६॥
गिरिशिखरेषु पर्वतशृङ्गेषु। कन्दरेषु गिरिखातासु नीचस्थानेषु। दरीषु गुहासु च ये
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA