बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 313, कुल 728 में से
संदर्भ में पढ़ेंनक्षत्रव्यूहाध्यायः २७३
महामात्रा हस्तिसाधनपतयः । मल्ला बाहुयुद्धज्ञाः । करिणो हस्तिनः । तुरगा अश्वाः ।
देवतासक्ता देवताभक्ताः । स्थावरा वृक्षादयः । योधा युद्धकुशलाः । भोगान्विता भोगसमेताः ।
ये च जनास्तेजसा युक्तास्तेजस्विनः । ते सर्व एव विश्वेश्वर उत्तराषाढायाम् ।।१९।।
अथ श्रवण आह—
श्रवणे मायापटवो नित्योद्युक्ताश्च कर्मसु समर्थाः ।
उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ।।२०।।
मायापटु ( मायावी, प्रपञ्ची ), सदा सब कामों को करने में उद्यत, उत्साही, धर्मी,
भगवान् के भक्त, सत्य भाषण करने वाले—ये सब श्रवणनक्षत्रगत पदार्थ हैं।।२०।।
मायापटवो मायाविनः प्रपञ्चकुशलाः नित्योद्युक्ताः सर्वकालं सोद्यमाः कर्मसु व्यापारेषु
समर्थाः सक्ताः । उत्साहिनः सोत्साहाः । सधर्मा धर्मसंयुक्ताः । भागवता भगवद्भक्ताः । सत्य-
वचनाः सत्यभाषिणः । एते सर्व एव श्रवणे ।।२०।।
अथ धनिष्ठायामाह—
वसुभे मानोन्मुक्ताः क्लीबाचलसौहृदाः स्त्रियां द्वेष्याः ।
दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ।।२१।।
अहङ्काररहित, नपुंसक, अस्थिर मित्रता करने वाले, स्त्रीद्वेषी, दानी, बहुत धनी,
जितेन्द्रिय—ये सब धनिष्ठा नक्षत्रगत पदार्थ हैं।।२१।।
मानोन्मुक्ता मानवर्जिता निरहङ्काराः । क्लीबाः षण्ढाः अचलसौहृदाः स्थिरमैत्राः ।
स्त्रियां द्वेष्याः स्त्रीष्वप्रियाः । दानाभिरता दानशीलाः । बहुवित्तसंयुताः प्रभूतधनान्विताः ।
ये च नरा मनुष्याः शमपरा जितेन्द्रियाः । एते सर्व एव वसुभे धनिष्ठायाम् ।। २१ ।।
अथ शतभिषज्याह—
वरुणेशे पाशिकमत्स्यबन्धजलजानि जलचराजीवाः ।
सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गेऽस्मिन् ।।२२।।
पाशिक ( जाल से प्राणियों को मारने वाले ), मछली मारने वाले, जल में उत्पन्न
होने वाले सभी द्रव्य, जलचर जन्तुओं से आजीविका चलाने वाले, सूअर को रखने वाले
( डोम आदि ), धोबी, मद्य बेचने वाले ( कलवार आदि ), पक्षियों को मारने वाले—
ये सब शतभिषा नक्षत्रगत पदार्थ हैं।।२२।।
पाशिकाः । पाशा बन्धनरज्जवः । पाशैः प्राणिनो बध्नन्तीति पाशिकाः । मत्स्यबन्धो
मत्स्यान् मीनान् बध्नाति यः । जलजानि जलोद्भवानि सर्वद्रव्याणि मुक्ताफलादीनि ।
जलचराजीवाः । जलचरैर्मत्स्यादिभिर्ये आजीवन्ति । सौकरिकाः । सूकरान् वराहान् ये
बध्नन्ति । रजका वस्त्ररागकर्तारः । शौण्डिकाः पानसक्ताः । शाकुनिकाः शकुनीन् घ्नन्तीति
शाकुनिकाः पक्षिघातिनः । एते सर्व एवास्मिन् वर्गे वरुणेशे शतभिषजि ।।२२।।
बृ० भ० प्र०-१८
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA