बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 322, कुल 728 में से
संदर्भ में पढ़ें२८२ बृहत्संहिता
ध्वजधर्मिणः। डिम्भाभिघातः। अशस्त्रः कलहो डिम्भस्तत्राभिघातः। अथवा डिम्भानां
बालानां योऽभिघातं करोति। पशुपः पशुपालः। रक्तं लोहितवर्णं यत्किञ्चित् फलम्।
रक्तं च कुसुमम्। विद्रुमाः प्रवालकाः। चमूपः सेनापतिः। गुड इक्षुविकारः। मद्यं मदिरा।
तीक्ष्णं निम्बादि।
कोशभवनं भाण्डगृहम्। अग्निहोत्रिका अग्निहोत्रसेविनः। धात्वाकरो धातूनां
गैरिकादीनामाकरः स्थानं सुवर्णादीनां वा। शाक्यो रक्तपटकः। भिक्षुर्यतिः। चौरस्तस्करः।
शठः परकार्यविमुखः। दीर्घवैरो दृढद्वेषः। बहाशी बहुभुक्। एतेषां सर्वेषां वसुधासुतो-
ऽङ्गारकोऽधिपतिः स्वामी। तथा च काश्यपः—
महेन्द्रविन्ध्यमलयाः सिप्रा वेणा महानदी ।
गोदावर्या नर्मदाया भीमायाः पश्चिमा दिशः ।।
चेदिकाः कौङ्कणा दुर्गा द्रविडा वेत्रवन्नदी ।
मन्दाकिनी पयोष्णी च मालती सिन्धुपारकाः ।।
पाण्ड्याश्चोत्तरदेशस्था विदेहान्ध्राश्मकास्तथा ।
भासापराः कुन्तलाश्च केरला दण्डकास्तथा ।।
नागराः पौरवाश्चैव कार्षकाः शस्त्रवृत्तयः ।
हुताशनाजीविनो ये कुञ्जराः पशुपास्तथा ।।
सांग्रामिका नृशंसाश्च सङ्कराश्चोपघातकाः ।
कुमारा भूमिसज्योक्ता दाम्भिकास्तस्करास्तथा ।। इति ।। ९-१४ ।।
अथ बुधस्याह—
लोहित्यः सिन्धुनदः सरयूग्गम्भीरिका रथाख्या च ।
गङ्गाकौशिक्याद्याः सरितो वैदेहकाम्बोजाः ।। १६ ५ ।।
मथुरायाः पूर्वार्द्धं हिमवद्गोमन्तचित्रकूटस्थाः ।
सौराष्ट्रसेतुजलमार्गपण्यबिलपर्वताश्रयिणः ।। १६ ६ ।।
उदपानयन्त्रगान्धर्वलेख्यमणिरागगन्धयुक्तिविदः ।
आलेख्यशब्दगणितप्रसाधकायुष्यशिल्पज्ञाः ।। १६ ७ ।।
चरपुरुषकुहकजीवकशिशुकविशठसूचकाभिचाररताः ।
दूतनपुंसकहास्यज्ञभूततन्त्रेन्द्रजालज्ञाः ।। १६ ८ ।।
आरक्षकनटनर्तकघृततैलस्नेहबीजतिक्तानि ।
व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य ।। १६ ९ ।।
लोहित्य और सिन्धु नद, सरयू, गाम्भीरिका, रथाख्या, गङ्गा, कौशिकी, विपाशा,
सरस्वती और चन्द्रभागा नदी, मथुरा के पूर्वार्ध भाग, हिमालय पर्वत, गोमन्त पर्वत और
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA