सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 311, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 311

नक्षत्रव्यूहाध्यायः २७१
र्मिश्रितैर्विशिष्टतरं सुगन्धद्रव्यं ये उत्पादयन्ति। गणितपटवो गणितदक्षाः। तन्तुवायाः
कौलिकाः। शालाकया अक्षिरोगचिकित्सकाः। राजधान्यं राजोपयोगि यद्धान्यं षष्टिकादि।
एतत्सर्वं त्वाष्ट्रे चित्रायाम्।।१२।।
अथ स्वातावाह—
स्वातौ खगमृगतुरगा वणिजो धान्यानि वातबहुलानि ।
अस्थिरसौहृदलघुसत्त्वतापसाः पण्यकुशलाश्च ।।१३।।
पक्षी, मृग, अश्व, खरीदने-बेचने वाले, धान्य, छोटे जन्तु, तपस्वी, क्रय-विक्रय में
कुशल—ये सब स्वाती नक्षत्रगत पदार्थ हैं।।१३।।
खगाः पक्षिणः। मृगा अरण्यप्राणिनः। तुरगा अश्वाः। वणिजः क्रयविक्रयनिरताः।
धान्यानि शालयः। वातबहुलानि चणकप्रभृतीनि। अस्थिरसौहृदः अस्थिरमित्राणि। लघु-
सत्त्वा अल्पसत्त्वाः। तापसास्तपोनिरताः। पण्यकुशलाः पण्यप्रवीणाः। केचिद्वन्यकुशला
इति पठन्ति। वने भवा वन्यास्तेषु कुशलाः। एते सर्व एव स्वातौ।।१३।।
अथ विशाखायामाह—
इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिलमुद्गाः ।
,कर्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ।।१४।।
रक्त पुष्प, रक्त फल, वृक्ष, तिल, मूंग, कपास ( रूई ), चना, इन्द्र के भक्त, अग्निभक्त—
ये सब विशाखा नक्षत्रगत पदार्थ हैं।।१४।।
रक्तपुष्पा लोहितपुष्पा रक्तफलाश्च ये शाखिनो वृक्षास्ते च सतिलमुद्गाः तिलैर्मुद्गैश्च
सहिताः। कर्पासाः प्रसिद्धाः। माषाश्चणकाश्च प्रसिद्धा एव। ये पुरन्दरस्येन्द्रस्य हुता-
शस्याग्नेर्भक्ता अनुरक्ताः। एते सर्व एवेन्द्राग्निदैवते विशाखायाम्।।१४।।
अथाऽनुराधायामाह—
मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः ।
ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम् ।।१५।।
बली, समूहों में प्रधान, साधुओं के भक्त, संघ में बैठने वाले, वाहन से चलने वाले,
जनपदों के साधु, शारदीय धान्य आदि—ये सब अनुराधा नक्षत्रगत पदार्थ हैं।।१५।।
शौर्यसमेता बलसंयुक्ताः। गणनायका गणप्रधानाः। साधूनां ये रताः। गोष्ठिरता
नर्मसक्ताः। यानरता वाहनसक्ता गमनसक्ता वा। ये च लोके जनपदे साधवः सज्जनाः।
शरत्समुत्पन्नं शारदं सर्वमशेषं यत्किञ्चिद्धान्यादि। एतन्मैत्रेऽनुराधायाम्।।१५।।
अथ ज्येष्ठायामाह—
पौरन्दरेऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः ।
विजिगीषवो नरेन्द्राः सेनानां चापि नेतारः ।।१६।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA